Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५८३॥
4-9-
७ शतके | उद्देशः १ महाशिलाकंटकः सू० २९९
वासिप्रकृतयः निगमाः-कारणिका वणिजी वा श्रेष्ठिन:-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाताः सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाः सार्थवाहाः प्रतीताः दूता-अन्येषां राजादेशनिवेदकाः सन्धिपाला:-राज्यसन्धिरक्षकाः, एतेषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः 'सद्धिति सार्द्ध सहेत्यर्थः,न केवलं तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात् परिवृतः-परिकरित इति, 'हारोत्थयमुकयरइयवच्छे' हारावस्तृतेन-हारावच्छादनेन सुष्टु कृतरतिकं वक्षः-उरो यस्य स तथा, 'जहा चेव उवयाइए'त्ति तत्र चैवमिदं सूत्रम्-'पालंबपलंबमाणपडसुकयउत्तरिजेइत्यादि, तत्र प्रालम्बेन-दीर्पण प्रलम्बमानेन-अम्बमानेन पटेन सुष्ठ कृतमुत्तरीयं-उत्तरासङ्गो येन स तथा, 'महया भडचडगरवंदपरिक्खित्ते'त्ति महाभटानां विस्तारवत्सधेन परिकरित इत्यर्थः 'ओयाए'|त्ति 'उपयातः' उपागतः 'अभेजकवयंति परप्रहरणाभेद्यावरणं 'वइरपडिरूवर्ग'ति वज्रसदृशम् 'एगहत्थिणावित्ति एकेनापि गजेनेत्यर्थः 'पराजिणित्तए'त्ति परानभिभवितुमित्यर्थः। 'हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागे'ति हताः-प्रहारदानतो मथिता-माननिर्मथनतः प्रवरवीराः-प्रधानभटा घातिताश्च येषां ते तथा विपतिताश्चिह्नध्वजाः-चक्रादिचिह्नप्रधानध्वजाः पताकाश्च-तदन्या येषां ते तथा, ततः कर्मधारयोऽतस्तान्, 'किच्छपाणगए'त्ति कृच्छ्रगतप्राणान्-कष्टपतितपाणानित्यर्थः 'दिसोदिसिं' ति दिशः सकाशादन्यस्यां दिशि अभिमतदिक्त्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा दिगेवापदिग् नाशनाभिप्रायेण यत्र पतिनिषेधने तहिगपदिकू तद्यथा भवत्येवं, 'पडिसेहित्य'ति प्रतिषेधितवान् द्धान्निवर्तितवानित्यर्थः ।।। _णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते ! संगामे वहमाणे के जइत्था के पराजइत्था, गोयमा ! बजी विदेहपुत्ते चमरे असुरिंदे असुरकुमारराया जइत्था, नव
ACANON-ARE
4

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367