Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवी पा तिः
| हच्चंति कूटे इव तथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-आहननं यत्र तत् कूटाहत्यम् 'अत्यामे'त्ति 'अस्थामा | सामान्यतः शक्तिविकलः 'अबत्ति शरीरशक्तिवर्जितः 'अवीरिएति मानसशक्तिवर्जितः 'अपुरिसकारपरकमेत्ति व्यक्तं नवरं |शतके पुरुषक्रिया पुरुषकारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिज्जति आत्मनो धरणं कर्तुमशक्यम् 'इति
| उद्देशः ९
रथमुशल कडे'त्ति इतिकृत्वा, इतिहेतोरित्यर्थः 'तुरए णिगिण्हईत्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंतंति 'एकान्तं' विजनम्
संग्राम: 'अन्तं' भूमिभागं' 'सीलाई ति फलानपेक्षाः प्रवृत्तयः, ताश्च प्रक्रमाच्छुभाः, वयाईति अहिंसादीनि 'गुणाईति गुणवतानि 'वेरमणाई'ति सामान्येन रागादिविरतयः 'पञ्चकखाणपोसहोववासाईति प्रत्याख्यान-पौरुष्यादिविषयं पौषधोपवासः पर्वदिनोपवासः 'गीयगंधव्वणिणाए'त्ति गीत-गानमात्रं गान्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगान्धर्वनिनादः।। कालमासे'त्ति कालमासे-मरणमासे,मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उववन्ने' त्ति प्रश्नद्वये सोहम्मे| त्याघेकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सोमादवगतमेवेत्यभिप्रायादिति । 'आउक्खएण"ति आयुःकर्मदलिकनिजरणेन 'भववरण'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन ठिइक्खएणं'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशने नवमोदेशकः सम्पूर्णः ।। ७-९ ॥
ॐ.91-%
अनन्तरोद्देश के परमतनिरास उक्तो, दशमेऽपि स एवोच्यते, इत्येवंसम्बन्धस्यास्येदं मूत्रम्-' तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था, वन्नओ, गुणसिलए चेइए, वन्नओ, जाव पुढविसिला
॥५९१॥

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367