Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 334
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६७॥ चक्खिदियं पहुचकामी, घाणिंदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणद्वेणं जाव भोगीवि, अव| सेसा जहा जीवा जाव वैमाणिया । एएमि णं भंते! जीवाणं कामभोगीणं नोकामनोभोगीणं भोगीण य कयरे कमरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा कामभोगी, नोकामीनोभोगी अनंतगुणा, भोगी अनंतगुणा ॥ ( सूत्रं २८९ ) ॥ 'संवुडे' त्यादि ॥ संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'रूबी' त्यादि सूत्रवृन्दमाह - तत्र रूपं - मूर्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते--अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपभुज्यन्ते ये ते कामा:मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं -रूपिणः कामाः, नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, 'सचित्ते 'त्यादि, | सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसज्ज्ञिजीवशरीररूपापेक्षया चेति । 'जीवे' त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण' मित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि'मित्यादि, भुज्यन्ते - शरीरेण उपभुज्यन्ते इति भोगाः - विशिष्टगंधरसस्पर्शद्रव्याणि 'रूविं भोग'त्ति रूपिणो भोगाः, नो अरूपिणः, पुलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते 'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात्, तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्, 'जीवावि भोग' त्ति जीवशरीराणां विशिष्टगन्धा दिगुणयुक्तत्वात्, 'अजीवावि भोग'ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति । 'सव्वत्थोवा काम भोगी'ति से हि ७ शतके उद्देशः ७ संवृतस्वर्या पथिकी कामभोग विचारः सू० २८९ ॥५६७॥ प्र०आ०३१०

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367