________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥५६७॥
चक्खिदियं पहुचकामी, घाणिंदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणद्वेणं जाव भोगीवि, अव| सेसा जहा जीवा जाव वैमाणिया । एएमि णं भंते! जीवाणं कामभोगीणं नोकामनोभोगीणं भोगीण य कयरे कमरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा कामभोगी, नोकामीनोभोगी अनंतगुणा, भोगी अनंतगुणा ॥ ( सूत्रं २८९ ) ॥
'संवुडे' त्यादि ॥ संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'रूबी' त्यादि सूत्रवृन्दमाह - तत्र रूपं - मूर्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते--अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपभुज्यन्ते ये ते कामा:मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं -रूपिणः कामाः, नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, 'सचित्ते 'त्यादि, | सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसज्ज्ञिजीवशरीररूपापेक्षया चेति । 'जीवे' त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण' मित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि'मित्यादि, भुज्यन्ते - शरीरेण उपभुज्यन्ते इति भोगाः - विशिष्टगंधरसस्पर्शद्रव्याणि 'रूविं भोग'त्ति रूपिणो भोगाः, नो अरूपिणः, पुलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते 'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात्, तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्, 'जीवावि भोग' त्ति जीवशरीराणां विशिष्टगन्धा दिगुणयुक्तत्वात्, 'अजीवावि भोग'ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति । 'सव्वत्थोवा काम भोगी'ति से हि
७ शतके
उद्देशः ७ संवृतस्वर्या
पथिकी
कामभोग विचारः
सू० २८९
॥५६७॥ प्र०आ०३१०