________________
4
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२७॥
| ७ शतके
उद्देशः१ सामायिकवतयोःक्रिया दानफलं सू० २६१ २६२-२६३
-
%ARC-24
'समणेत्यादि, 'सामाइयकडस्मति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये साधुवसतावासीनस्य-तिष्ठतः 'तस्स ण'|न्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनर्यापथिकी युक्ता, निरुद्धकषायत्वादित्याशङ्का, अतोऽयं प्रश्नः, उत्तरं तु 'आयाहिकरणी भवति त्ति आत्मा-जीवः अधिकरणानि-हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आयाहिकरणवत्तियं च णं'ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः ॥ श्रमणोपासकाधिकारादेव 'समणोवासगे'त्यादि प्रकरणम्, तत्र च 'तसपाणसमारंभेति सवधः 'नो खलु से तस्स अतिवायाए आउट्टइत्ति न खलु असौ 'तस्य' त्रसप्राणस्य 'अतिपाताय'वधाय 'आवर्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैप तस्य संपन्न इति नासावतिचरति व्रतं, 'किं चयइत्ति किं ददातीत्यर्थः, 'जीवियं चयइत्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिदव्यस्य दुस्त्यजत्वात्, एतदेवाह-'दुच्चयं चयइत्ति दुस्त्यजमेतत, त्यागस्य दुष्करत्वात्, एतदेवाह-दुकरं करोतीति, अथवा किं त्यजति-किं विरहयति ?, उच्यते, जीवितमिव जीवितं-कर्मणो दीर्घा स्थिति 'दुच्चयंति दुष्टं कर्मद्रव्यसञ्चयं 'दुकरं ति दुष्करमपूर्वकरणतो ग्रन्थिभेद, ततश्च 'दुल्लंभं लभईत्ति अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झइति 'बोधि' सम्यग्दर्शनं 'वुध्यते' अनुभवति, इह च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयवास्य मूत्रार्थस्य घटमानत्वात्, 'तओ पच्छ'त्ति तदनन्तरं सिद्धथतीत्यादि प्राग्वत्, अन्यत्राप्युक्तं दानविशेषस्य | बोधिगुणत्वं, यदाह-"अणुकंपऽकामणि जरबालतवे दाणविणए" त्यादि, तद्यथा-"केई तेणेव भवेण निव्वुया सबकम्मओ मुक्का । केई
A4%A-CA
॥५२७॥