________________
व्याख्या
प्रज्ञप्तिः
अभयदेवी
या वृत्तिः
॥५०५ ॥
CLOCKS
| विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा 'निट्ठिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्, तथा 'निल्लेव'त्ति अत्यन्तसंश्लेषात्तन्मय तागत वालाग्रापहारादपनी तभित्त्यादिगतधान्य लेपकोष्ठागारवत्, अथ कस्मान्निर्लेपः ? इत्यत आह- 'अवहडे 'ति निःशेषवालाग्रलेपापहारात्, अत एव 'विसुद्धे 'ति रजोमल कल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिकं चेदमद्वापल्योपमं इदमेव यदाऽसङ्ख्येय| खण्डीकृतैकैक वालाग्रभृतपल्याद्वर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव वालाग्रेर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तद्वयावहारिकं क्षेत्रपल्योपमं, पुनस्तैरेवासङ्ख्ये यखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्मक्ष्मं क्षेत्रपल्योपमम् ॥ एवं सागरोपममपि विज्ञेयमिति ॥ कालाधिकारादिदमाह'जंबुद्दीवे ण' मित्यादि, 'उत्तमट्ठपत्ताए'ति उत्तमान् - तत्कालापेक्षयोत्कृष्टानर्थान् - आयुष्कादीन् प्राप्ता उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा प्रकृष्टावस्थां गता तस्याम् 'आगार भाव पडोयारे'ति आकारस्य आकृतेर्भावाः - पर्यायाः, अथवाऽऽकाराच भावाच | आकारभावास्तेषां प्रत्यवतारः - अवतरणमाविर्भाव आकारभाव प्रत्यवतारः 'बहुसमरमणिज' ति बहुसमः - अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुत्रखरेति मुरजमुखपुढं, लाघवाय सूत्रमतिदिशन्नाह – 'एक' मित्यादि, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तवं दृश्या- 'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं सर एव 'करतलेइ वा' करतलं कर एवेत्यादीति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पात पर्वतादीनामुत्पात पर्वताद्याश्रितानां हंसासनादीनां लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ते चैतद् दृश्यम् -'वत्थ णं बहवे भारहया मणुस्सा मणुस्सीओ
६ शतके उद्देशः ७ पल्योपमादि सू० २४७
प्र०आ०२७७
॥५०५॥