________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥ ५०४ ॥
श्लक्ष्णश्लक्ष्णका उत्-प्राबल्येन श्लक्ष्णलक्ष्णिका उत्श्लक्ष्णलक्ष्णिका 'इति' उपदर्शने 'वा' समुच्चये, एते च उत्श्लक्ष्णलक्ष्णिकादयोगुलान्ता दश प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्तीत्यत उक्तम्- 'उस्साहसहियाइ वेत्यादि, 'सण्हसहिय'त्ति प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वाद् ऊर्ध्वरेण्यपेक्षया त्वष्टमभागत्वात् श्लक्ष्णलक्ष्णिका इत्युच्यते, 'उड्ढरेणु' त्ति ऊर्ध्वाधस्तिर्यकूचलनधर्मोपलभ्यो रेणुः ऊर्ध्वरेणुः 'तसरेणु'त्ति त्र्यस्यति - पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः 'रहरेणु'त्ति रथगमनोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः, 'रयणि'त्ति हस्तः 'नालिय'ति यष्टिविशेषः 'अक्खे'ति शकटावयवविशेषः 'तं तिउणं सविसेसं परिरएणं'ति तद् योजनं त्रिगुणं सविशेषं, वृत्तपरिधेः किञ्चिन्न्यूनपड्भागाधिकत्रिगुणत्वात्, 'से णं एक्का हियबेहियतेहिय'ति षष्ठीवहुवचनलोपाद् एकाहिकद्वयाहि कत्र्याहिकानाम् 'उक्कोस'ति उत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्रैकाहिक्यो मुण्डिते शिरसि एकेनाङ्का यावत्यो भवन्तीति, एवं शेषास्वपि भावना कार्या, कथम्भूतः १ इत्याह- 'संसृष्टः ' आकर्णभृतः 'संनिचितः' प्रचयविशेषान्निविडः, किं बहुना ?, एवं भृतोऽसौ येन 'ते 'ति तानि वालाग्राणि 'नो कुत्थे 'त्ति न कुध्येयुः, प्रचयविशेषाच्छु पिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अत एव 'नो परिविद्धंसेज 'त्ति न परिविध्वंसेरन् - कतिपय परिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव च 'नो पूहलाए हव्व मागच्छेज'ति न पूतितया - न पूतिभावं कदाचिदागच्छेयुः, 'तओ णं'ति तेभ्यो वालाग्रेभ्य, 'एगमेग वालग्गं अवहाय'त्ति एकैकं वालाग्रमपनीय कालो मीयत इति शेषः, ततश्च 'जावइएण 'मित्यादि, यावता कालेन स पल्यः 'खीणे'त्ति वालाग्राकर्षणात्क्षयमुपगतः आकृष्टधान्यकोष्ठागारवत्, तथा 'नीरए'त्ति निर्गतरजः कल्पसूक्ष्मतरवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारबत्, तथा 'निम्मले 'ति
६ शतके उद्देशः ७ उच्छ्वासादि मूहुर्त्ता|दिकालः सू० २४७
॥ ५०४ ॥