________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५.३॥
६ शतके उद्देशः ७ उच्छ्वासादि मूहुर्तादिकाल: सू०२४३ २४७
आवलिका उच्छ्वासकालो भवति ॥ 'हहस्से'त्यादि, 'हृष्टस्य तुष्टस्य 'अनवकल्पस्य जरसाऽनभिभूतस्य 'निरुपक्लिष्टस्य' व्याधिना प्राक् साम्प्रतं चानभिभूतस्य 'जन्तोः' मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छवासनिःश्वासः य इति गम्यते एष प्राण इत्युच्यते ॥ 'सत्त'त्यादि गाथा, 'सत्त पागू' इति प्राकृतत्वात् सप्त प्राणा उच्छ्वासनिःश्वासा य इति गम्यते स स्तोक इत्युच्यत इति वर्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषः-अधिकृतो मुहतों व्याख्यात इति ॥ 'तिन्नि सहस्सा' गाहा, अस्या भावार्थोऽयम्-सप्तभिरुच्छ्वासैः स्तोकः स्तोकाश्च लवे सप्त, ततो लवः सप्तभिर्गुणितो जातकोनपञ्चाशत. मुहर्ने च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशता गुणितेति जातं यथोक्तं मानमिति । 'एताव ताव गणियस्स विसए'त्ति एतावान्-शीर्षप्रहेलिकाप्रमेय. राशिपरिमाणः तावदिति क्रमार्थः गणितविषयो-गणितगोचरः गणितप्रमेय इत्यर्थः। 'ओवमिय'ति उपमया निवृत्तमौपमिकं उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः ॥ अथ पल्योपमादिपरूपणाय परमाण्वादिस्वरूपमभिधित्मुराह-'सत्थेणे'त्यादि, छेत्तुमिति खड्गादिना द्विधा कत्तुं 'भेतु' मूच्यादिना सच्छिद्रं कर्तुं 'वा' विकल्पे किलेति लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छत्तुं भेत वाऽऽरयत इत्यर्थसंसूचनार्थः, 'सिद्ध'त्ति ज्ञानसिद्धाः, केवलिन इत्यर्थः, न तु | सिद्धाः-सिद्धिं गतास्तेषां वदनस्यासम्भवादिति, 'आदि' प्रथमं 'प्रमाणानां' वक्ष्यमाणोदश्लक्ष्णश्लक्षिणकादीनामिति, यद्यपि च |नैश्चयिकपरमाणोरपीदमेव लक्षणं तथाऽपीह प्रमाणाधिकाराव्यावहारिकपरमाणुलक्षणमिदमवसेयम् ॥ अथ प्रमाणान्तरलक्षणमाह| 'अणंताण'मित्यादि, 'अनन्तानां' व्यावहारिकपरमाणुपुद्गलानां समुदयाः-द्वयादिसमुदयास्तेषां समितयो-मीलनानि तासां समागमः-परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिमाणमात्रेति गम्यते, सा एकाऽत्यन्तं श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव |
4%AR
॥५०३॥
आ०२७६