________________
. वसंतराजशाकुने-प्रथमो वर्गः। भट्टः श्रीशिवराजोऽदोषोर्जितमूर्तिरतितेजस्वी ॥ सूर्य इव सत्यवत्यां समजनि सनुर्विजयराजात् ॥३॥
॥टीका॥
दयः हस्ती आदौ येषां ते हस्त्यादयः माहात्म्यं गौरवं यच्छंतु । कीदृशाश्चतुष्पदाः चत्वारः पदाश्चरणा येषां ते तथोक्ताः।द्वारोपस्थितेषु हस्तिषु नृणां माहात्म्याधिक्यदर्शनात्तेभ्यस्तत्प्रार्थनं आदिशब्दादश्वादीनामपि परिग्रहः । पदात्यपेक्षयाश्वारूढस्याधिक्यदर्शनात्तथा /गा आदौ येषां ते भुंगादयो रतिसुखं यच्छंतु रतिविषयजनिता मनस्तुष्टिस्तस्याःमखं सौख्यमित्यर्थः । कीदृशाः षटपदाः षटुसंख्याकाः पदाश्चरणा येषां ते षट्पदाः भुंगाना सवर्दा मधुपानासक्तत्वेन विषयभोगनिवृत्तेरभावात्तेभ्यस्तत्प्रार्थनं।तथा शरभादयः शरभ आदौ येषां ते तथोक्ताः उत्साहं आत्मप्रयत्नविशेषं यच्छंतु । कीदृशाः अष्टचरणाः अष्टौ अष्टसंख्याकाश्चरणा येषां ते अष्टचरणाः|शरभादीनां शौर्यगुणाधिक्येन तत्प्रार्थनीतथा खजूरिकाद्यास्तु श्रेयः कल्याणं यच्छंतु कीदृशाः अनेकपदाः अनेकानि पदानि चरणा येषां तेऽनेकपदाः एकस्मिश्चरणे भनेपि तेषां न काचित्क्षतिरिति तत्प्रार्थनाभुजंगाःसर्पाः महांतमुदारं भोगं यच्छंतु । कीदृशाः अपदाः चरणरहिताश्चिरजीवित्वेन वायुभुक्त्वेन बलाधिक्येन च तत्प्रार्थनम् ॥२॥ अयं ग्रंथः केन कृतस्तत्रापि स्वप्रबोधविधये विहितोनिर्मितः किंवान्येन कारित इत्यपेक्षायामाह ॥ भट्टः श्रीशिवराज इति ॥ विजयराजात्सत्यवत्याःसूनुः नाना श्रीशिवराजःसमजनि। कीदृशःअदोषोजितमूर्तिरिति अदोषेण दोषाभावेन जिता बलवती मूर्तिर्यस्य स तथा पुनः कीदृशःअतितेजस्वीति अत्युत्कृष्टं तेजो विद्यते यस्य सः अतितेजस्वी क इव सूर्य इव यथा सूर्य
॥ भाषा ॥ पाँवके हाथीकं आदिले जे पशु ते तुमकं माहात्म्य जो महिमा ताय दो. और छै पाँवजिनके ऐसे भ्रमरादिक, ते तुमको विषयसुख दो. और आठहैं चरण जिनके ऐसे शरभादिक पक्षी हैं ते उत्साह जो प्रयत्न करनेका उल्लास ताय दो. और खज़रिकादिक खनखिजरो इत्यादिक हैं अनेक पाँवनके ते श्रेय जो कल्याण ताय देवें. और नहीं हैं पाँवं जिनके ऐसे सादिक हैं ते महान् जो भोग ताय दो. ॥ २ ॥ ये ग्रंथ कीनने कियाहै तामें ही अपनेही बोधके अर्थ कियाहै वा और करके करायो है या संदेह निवृत्ति के अर्थ कहै हैं | भष्टः श्रीशिवराज इति ॥ विजयराजते सत्यवाके बेटा नामकरके श्रीशिवराजप्रगट होते
Aho! Shrutgyanam