Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पत्ययुग्मं पालयित्वा म्रियन्ते, सुरेषूत्पद्यन्ते च । तत्र शर्करामधुरसिकतावत्यश्चन्द्रिकावद् निर्मलजला भूम्य: स्वभावतो रम्याः । तथा तत्र मद्याङ्गा मद्यं भृङ्गा भाजनं, तूर्याङ्गा वाद्यानि दीपशिखा ज्योतिष्काश्चाऽद्भुतं प्रकाशं, चित्राङ्गा माल्यं, चित्ररसा भोज्यं, मण्यङ्गा भूषणानि, गेहाकारा गृहाणि, अनग्ना दिव्यवस्त्राणीत्येवं दशविधाः कल्पवृक्षा नियतानर्थान् मनुष्येभ्यः प्रयच्छन्ति । अन्येऽपि तत्र सर्वेप्सितप्रदाः कल्पवृक्षाः सन्ति । तत्र युगलिको धनजीवो दिवीव कल्पवृक्षसम्पादितसकलार्थो वैषयिकं सुखमन्वभूत् । ततो धनजीवो मिथुनायुः पूरयित्वा प्राग्जन्मदानप्रभावतः सौधर्मे त्रिदशोऽभवत् । १० ततश्च्युत्वा धनजीवोऽपरविदेहेषु गन्धिलावत्यां विजये वैताढ्यपर्वते गन्धाराख्यदेशे गन्धसमृद्धके नगरे विद्याधरेन्द्रस्य शतबलाख्यस्य राज्ञो भार्यायां चन्द्रकान्ताख्यायां पुत्रत्वेन महाबलनामोत्पन्नः । लाल्यमानः पाल्यमानश्च स क्रमाद् वृद्धि प्राप्तवान् । शनैः शनैः कलानिधिरिवाऽशेषकलापूर्णश्च जातः । पितुरादेशाच्च विनयवतीं कन्यामुपयेमे । अथ सर्वाङ्गसुन्दरो धनजीवो यौवनं प्राप्तवान् । तत एकदा तत्त्वज्ञः शतबलश्चिन्तयामास-"स्वभावेनाऽपवित्रमिदं शरीरं संस्कारैनवं नवं विधाय कियत्कालं रक्षणीयम् ? खलोपमः खल्वयं कायो यदैव न सत्क्रियते, तदैव विक्रियां याति । अहो ! प्राणिनः कायान्तःस्थितैर्बहिर्निःसृतैर्विष्ठा-मूत्र - कफादिभिः किं न हणीयन्ते ? अस्मिन् देहेऽत्यन्तातङ्कदायिनो रोगाः समुद्भवन्ति । स्वभावतञ्चञ्चल: शारदमेघवदयं कायः । तत्रेयं यौवनश्रीविद्युदिव दृष्टनष्टा । आयुः पताकावच्चलं, श्रियस्तरङ्गवत् तरलाः, भोगाः सर्पफणतुल्याः, सङ्गमाः स्वप्नसदृशाः । काम-क्रोधादिभिस्तापैर्दिवानिशं ताप्यमानः शरीरस्थ प्रथमं पर्व प्रथमः सर्गः आत्मा पुटपाकवत् पच्यते । अहो ! अशुचौ कीट इवाऽतिदुःखेषु विषयेषु सुखमानी जनो मनागपि न विरज्यति । अन्धः पादाग्रस्थितं कूपमिव मृत्युं न पश्यति । विषतुल्यैर्विषयैर्मूच्छित आत्मा स्वहिताय न चेतति । धर्मा-ऽर्थ-काम-मोक्षाणां पुरुषार्थत्वे तुल्येऽपि पापयोरर्थकामयोरेवाऽऽत्मा प्रवर्त्तते, न पुनर्धर्म-मोक्षयोः । अस्मिन्नपा संसारसागरे प्राणिनां महारत्नमिव मानुष्यमतिदुर्लभमस्ति । तत्राऽपि भगवानर्हन् देवता: सुसाधवो गुरवश्च पुण्यादेव प्राप्यन्ते । ततो यद्यस्य मानुष्यकस्य फलं नाऽऽददामि तदधुना वञ्चितोऽस्मि । तस्मादद्य यूनि कुमारेऽस्मिन् महाबले राज्यभारं समारोप्य स्वसमीहितं करोमि " । ततः शतबलः सिंहासने महाबलमुपवेश्याऽभिषिच्य स्वहस्तेन तिलकमङ्गलं चक्रे । तदा मङ्गल्यदुन्दुभिर्दध्वान । महाबलं च द्वितीयशतबलमिव सामन्ता मन्त्रिणञ्च प्रणेमुः । ततः शतबलः सूरिपादपार्श्वे प्रव्रज्यामाददे । रत्नत्रयधारकः, समचित्तो, जितेन्द्रियो, निष्कषाय, आत्मरामो, मौनव्रती, परीषहान् सहमानो, मैत्र्यादिभावनायुक्तः, शुचिध्यानवान्, तपस्वी च सो निजायुः पूरयित्वा स्वर्गमाससाद । महाबलोऽपि बलिभिः खेचरैश्चः परिवारित आखण्डल इव पृथ्वीं पालयन्ननुपमं विषयसुखमन्वभूत् । *** अथ स एकदा निजसभामधितस्थौ । तं सर्वे सभासदो नत्वा यथास्थानमुपाविशन् । तत्र स्वयंबुद्ध-सम्भिन्नमति-शतमतिमहामतिनामानो मन्त्रिणश्चोपाविशन् । तत्र सम्यग्दृष्टिः स्वयंबुद्धश्चिन्तयामास-"अस्माकं पश्यतामेव स्वामी विषयासक्तो दुर्वाजिभिरिवेन्द्रियैर्ह्रियते, उपेक्षकानस्मान् धिक् । ततोऽस्माभिर्विज्ञपय्य स्वामी हिते पथि नेतव्यः । नृपाः सारणीवद् यत्र नीयन्ते तत्र यान्ति । स्वामिनो व्यसनेनैव लब्धजीविका अनुजीविनो यद्यप्यपवदिष्यन्ते तथाऽपि वक्तव्यं, मृगभयेन यवा नोप्यन्ते किम् ?"

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89