Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चारित्रं यतीनां सर्वात्मना, अगारिणां च देशतः कथितम् । गृहमेधिनां च पञ्चाऽणुव्रतानि त्रयो गुणाश्चत्वारि शिक्षापदानि व्रतानि सम्यक्त्वमूलानि । ८२ पङ्गत्वादिकं हिंसाफलं दृष्ट्वा जन्तूनां हिंसां सङ्कल्पतस्त्यजेत् । कन्या - गो-भूमिविषयकालीकानि - न्यासापहरणं, कूटसाक्ष्यं चेति पञ्च स्थूलासत्यानि मन्मन- काहल - मूक- मुखरोगित्वादिफलानि सन्त्यजेत् । दौर्भाग्य-प्रेष्यत्व दास्याङ्गच्छेद-दरिद्रत्वफलमदत्तादानं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् । षण्ढत्वे-न्द्रियच्छेदादिफलमब्रह्मचर्यं ज्ञात्वा स्वदारसन्तुष्टो भवेदन्यदारांश्च सन्त्यजेत् । असन्तोषा -ऽविश्वासा-ऽऽरम्भदुःखादिफलां मूर्च्छा ज्ञात्वा परिग्रहं सन्त्यजेत् । दशस्वपि दिक्षु कृतायाः सीमाया अनुल्लङ्घनं प्रथमं दिग्विरत्याख्यं गुणव्रतम् । शक्त्या भोगोपभोगसङ्ख्यानियमो भोगोपभोगमानाख्यं द्वितीयं गुणव्रतम् । आर्त्त - रौद्रापध्यानपापकर्मोपदेशित्व-हिंसोपकारिदान- प्रमादाचरणरूपः शरीराद्यर्थदण्डप्रतिपक्षोऽनर्थदण्डस्तत्त्यागस्तृतीयं गुणव्रतम् । त्यक्तार्त- रौद्रध्यानस्य त्यक्तसावद्यकर्मणश्च या मुहूर्तं समता तत् सामायिकव्रतम्। दिने रात्रौ च दिग्वते कृतस्य परिमाणस्य सङ्क्षेपणं देशावकाशिकव्रतमुच्यते । चतुष्पर्व्यां चतुर्थादितपः, कुव्यापारनिषेधो, ब्रह्मचर्यं स्नानादित्यागः पौषधव्रतम् । चतुर्विधाहार पात्रा - ऽऽच्छादनसद्मनामतिथिभ्यो दानमतिथिसंविभागवतं कथितम् । तदेतद् रत्नत्रयं यतिभिः श्रावकैश्च निर्वाणप्राप्तये सततं सम्यगुपासनीयम् । 来带资 अथ भरतात्मज ऋषभसेन एवं देशनामाकर्ण्योत्थाय वृषभस्वामिनं नत्वा व्यजिज्ञपत्- "स्वामिन्निह भवारण्ये कषायदावानलदीपिते नूतनजलधरवदनुत्तरं तत्त्वामृतमवर्ष: । जगत्पते ! मज्जद्भिस्तरण्ड इव भवभीतैरस्माभिः प्राप्तोऽसि दयानिधे ! रक्ष प्रथमं पर्व - तृतीयः सर्गः रक्ष । भवभ्रमणहेतुभिः पित्रादिभिः कृतम् । त्वामेवाऽऽश्रितवानस्मि, दीक्षां देहि, प्रसीद मयि" इत्युक्त्वा स भरतस्य पुत्राणामन्यैरेकोनपञ्चशतैः पौत्राणां सप्तशत्या चाऽन्वित: प्राव्राजीत् । सुरासुरैर्जिनस्य केवलमहिमानं क्रियमाणं दृष्ट्वा भरततनयो मरीचिव्रतमग्रहीत् । भरतेन विसृष्टा ब्राह्मयपि व्रतमग्रहीत् । सुन्दरी व्रतं जिघृक्षुर्बाहुबलिना विमुक्ताऽपि भरतेन निषिद्धा प्रथमा श्राविकाऽभवत् । भरतश्च प्रभुपादान्ते श्रावकत्वं प्रतिपन्नवान् । तदानीं नर- तिर्यक्-सुरेषु केचिद् व्रतं, केचिच्छ्रावकत्वं, केचिच्च सम्यक्त्वं जगृहुः । कच्छ महाकच्छौ विहाय ते राजन्यतापसाश्चाऽऽगत्य स्वामिनः पार्श्वे दीक्षां जगृहु: । एवं च तत्प्रभृत्येव पुण्डरीकादिभिः साधुभि:, ब्राह्मीप्रभृतिभिः साध्वीभिः, भरतादिभि: श्रावकैः, सुन्दरीप्रभृतिभिः श्राविकाभिश्च प्रवृत्ता चतुर्विधसङ्घव्यवस्था धर्मस्य परमास्पदभूताऽद्याऽपि प्रवर्त्तते । तदानीं च प्रभुर्गणभृन्नामकर्मणामृषभसेनप्रभृतीनां चतुरशीतेव्रतिनां सर्वशास्त्रमातृकाभूताम्- "उत्पादो विगमो ध्रौव्यमिति पदत्रयीं दिदेश । ततस्तत्त्रिपद्यनुसारतश्च ते क्रमाच्चतुर्दशपूर्वाणि द्वादशाङ्गानि च विरचयामासुः । अथ शक्रो दिव्यचूर्णपूर्णं स्थालमादाय देवैः परिवृतस्तत्र समुपास्थित । ततः प्रभुरुत्थाय स्वयं यथाक्रमं गणभृतां चूर्णक्षेपं कुर्वन् सूत्रेणाऽर्थेन तदुभयेन च द्रव्यैर्गुणैः पर्यायैर्नयैश्चाऽनुयोगानुज्ञां च ददौ । ततोऽमरा नरा नार्यश्च दुन्दुभिध्वानपूर्वकं तेषु वासक्षेप चक्रुः । ते गणधराश्च बद्धाञ्जलयः प्रभुवाचं प्रतीच्छन्तस्तस्थुः । ततः सिंहासनमारुह्य पूर्वदिङ्मुखेऽनुशासनमयीं देशनां ददति प्रभौ पौरुषी पूर्णा जाता । अस्मिन्नेवाऽवसरे निस्तुषैर्विशदैरखण्डैस्तण्डुलैर्निर्मितश्चतुःप्रस्थप्रमाणः स्थालसंस्थितो देवक्षिप्तैर्गन्धैर्द्विगुणसौरभी भरतकारितः प्रधानपुरुषोत्क्षिप्तो दुन्दुभिध्वानपूर्वकं ललनाजनैः

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89