Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 84
________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः अथ दीक्षाकालात् पूर्वलक्षं क्षपयित्वा स्वमोक्षकालं ज्ञात्वा प्रभुः सपरिच्छदोऽष्टापदं प्राप्याऽऽरुह्य च दशसहस्रमुनिभिः सह चतुर्दशेन तपसा पादपोपगमनं प्रत्यपद्यत । ततः पर्वतपालकास्तद्वृत्तान्तं भरतं विज्ञापयामासुः । भरतश्च तच्छ्रुत्वा शोकपीडितोऽश्रूणि मुञ्चन् सान्त:पुरपरीवारः पादचारेणाऽष्टापदं प्रति प्रतस्थे । प्रभुं ध्यायन् बाधामगणयन् स वेगेनाऽष्टापदं प्राप्याऽऽरुह्य च पर्यङ्कासनस्थितं प्रभुं दृष्ट्वा प्रदक्षिणीकृत्य वन्दित्वा च पार्श्वस्थः समुपास्ते स्म । १३६ तत आसनकम्पतोऽवधिज्ञानोपयोगेन सर्ववृत्तान्तं ज्ञात्वा शक्राश्चतुष्षष्टिरपि जिनेन्द्रमभ्युपेत्य प्रदक्षिणीकृत्य प्रणम्य च विषण्णास्तत्र चित्रिता इव निषण्णाः । अथाऽस्यामवसर्पिण्यां तृतीयारस्यैकोननवतिपक्षेष्ववशिष्टेषु सत्सु माघमासस्य कृष्णत्रयोदश्यां पूर्वाह्णेऽभिजिन्नक्षत्रे चन्द्रयुक्ते पर्यङ्कासनस्थितः प्रभुर्बादरे काययोगे स्थित्वा बादरौ वाक्-चित्तयोगौ रुद्ध्वा सूक्ष्मकाययोगेन बादरं काययोगं रुद्ध्वा सूक्ष्मवाक्-चित्तयोगौ च रुरोध । सूक्ष्मक्रियं नाम तृतीयं शुक्लध्यानं निरुद्धसूक्ष्मकाययोगं संसाध्य, पञ्चहुस्वाक्षरोच्चारकालप्रमाणमुच्छ्त्रिक्रियं चतुर्थं ध्यानं प्रपद्य, सर्वदुःखपरित्यक्तः क्षीणकर्मा केवलज्ञान दर्शनी निष्ठितार्थोऽनन्तवीर्यसुखद्धिको बन्धाभावादूर्ध्वगतिः प्रभुः स्वभावादृजुना मार्गेण लोकाग्रं प्राप्तवान् । अन्ये दशसहस्रमुनयश्चाऽपि प्रपन्नानशनाः क्षपकश्रेणिमारूढा उत्पन्नकेवला मनोवाक्काययोगान् रुद्ध्वा क्षणात् परमं पदं प्रापुः । स्वामिनिर्वाणकल्याणाच्च नारकाणामपि क्षणं सुखमभूत् । भरतस्तु महाशोकाक्रान्तो भूमौ वज्राहतपर्वत इव मूच्छितः पपात । महति दुःखे सम्प्राप्तेऽपि तदा रुदितं दुःखशैथिल्यकारणं कोऽपि न प्रथमं पर्व षष्ठः सर्गः जानाति स्म । अतः शक्रः स्वयं तच्चक्रिणो ज्ञापयन् महापूत्कारपूर्वकं रुदितं चकार । तमनुसृत्य देवा अपि रुरुदुः । तेषां रुदितं श्रुत्वा चत्र्यपि लब्धसंज्ञ उच्चैः स्वरेण रुरोद । ततः प्रभृति लोके - ऽपि शोके सति तच्छैथिल्यकारणं रोदनं प्रवृत्तम् । भरतश्च स्वभावधीरोऽपि दुःखितोऽधीरस्तिरश्चोऽपि विलापयन् भृशं विललाप । शोकातिशयाच्च जीवितनिर्विण्णं मुमूर्षुमिव दृष्ट्वा शक्रो बहुभिः सान्त्वनवाक्यैस्तं प्रबोधितवान् । नृपोऽपि धैर्यमालम्ब्य तस्थौ । १३७ *** अथ शक्रेण स्वाम्यङ्गसंस्कारोपकरणानयनार्थं समादिष्टा देवा आभियोगिका नन्दनोद्यानाद् गोशीर्षचन्दनानि काष्ठानि क्षणादानीय पूर्वदिशि चेन्द्रनियोगात् स्वामिदेहार्थं वृत्तां चितां विरच्येक्ष्वाकुकुलोत्पन्नानां मुनीनां कृते दक्षिणस्यां व्यस्राकारां च चितां विरच्याऽपरस्यां दिशि चतुरस्रां चितामन्येषामनगाराणां कृते रचयामासुः । ततः शक्रो देव क्षीरोदधिजलेन भगवत्तनुं स्त्रपयित्वा गोशीर्षचन्दनैर्विलिप्य, हंसचिन देवदूष्येण वासयित्वा च दिव्यैर्माणिक्यैः सर्वतो भूषयामास । अन्ये देवाश्चाऽन्येषां मुनीनां स्नपनादिकं सर्वं चक्रुः । ततो देवास्तिस्रः सहस्रबाह्याः शिबिका निर्ममुः । ततः प्रणम्य प्रभोर्वपुर्मूर्ध्यारोप्य शक्रः स्वयमेव शिबिकायां स्थापितवान् । इक्ष्वाकुकुलजानामन्येषां मुनीनां च वपूंष्यन्ये देवा द्वितीयस्यां तृतीयस्यां च शिबिकायां निहितवन्तः । ततो वासवः स्वामिशिबिकामन्ये देवाश्चाऽन्यमुनिशिबिकामुद्धत्याऽप्सरःसु सङ्गीतकं कुर्वाणासु, देवेषु पुरः पुरो धूपघटीर्धारयत्सु, केषुचित् पुरस्तोरणानि कुर्वत्सु, केषुचित् पुरो विलुठत्सु, केषुचित् पृष्ठतो धावत्सु, केषुचिच्च शोकं कुर्वत्सु, तूर्येषु वाद्यमानेषु, शिबिकामुपचित्यमुपानीय प्राचीनचितायां प्रभोस्तनुं, दाक्षिणात्यायामिवा

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89