Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३२
१३३
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः राजगृहे वप्रा-विजयात्मजो द्वादशधनून्नतो जयस्त्र्यब्दसहस्रायुर्नमिनेमिजिनान्तरे भावी । काम्पिल्ये चुलनी-ब्रह्मपुत्रः सप्तवर्षशतायुष्को ब्रह्मदत्तः सप्तधनून्नतिः श्रीनेमि-पार्श्वतीर्थान्तरे रौद्रध्यानपरः सप्तमी नरकभूमि गामी ।
तत्राऽपृष्टोऽपि प्रभुः प्रसङ्गात् कथितवान्-"त्रिखण्डपृथिवीपालकाश्चक्रयर्धविक्रमा नवाऽसिता वासुदेवा भाविनः । तेष्वष्टम: काश्यपगोत्रः, शेषा गौतमाः । तेषां सापना भ्रातरो नव सिता बलदेवाः। तत्र पोतनाख्ये नगरे प्रजापति-मृगावत्योः पुत्रोऽशीतिधनून्नतिस्त्रिपृष्ठो वासुदेव: श्रेयांसजिनविहारकाले चतुरशीत्यब्दलक्षायुरन्त्यं नरकं गामी। द्वारवत्यां धनुःसप्तत्युन्नतो द्विपृष्ठः पद्मा-ब्रह्मनन्दनो द्वासप्ततिवर्षलक्षायुर्वासुपूज्यजिनेश्वरे भुवं विहरमाणे षष्ठं नरकं गामी । तत्रैव द्वारवत्यां धनुःषष्टिसमुन्नत: षष्टिवर्षलक्षायुः स्वयम्भूविमलस्वामिकाले भद्रराज-पृथिवीदेवीपुत्रः षष्ठं नरकं गामी । तथा तस्यामेव नगाँ पुरुषोत्तमः पञ्चाशद्धनून्नति: सोम-सीतापुत्रस्त्रिंशद्वर्षलक्षायुरनन्तजिनकाले षष्ठं नरकं गामी । अश्वपुरे पुरुषसिंहः पञ्चचत्वारिंशद्धनूनतः शिवराजा-ऽमृतापुत्रो दशवर्षलक्षायुर्धर्मजिनकाले षष्ठं नरकं गामी । चक्रपुर्यां पुरुषपुण्डरीकोऽर-मल्ल्योरन्तरे लक्ष्मीवती-महाशिरःपुत्र एकोनत्रिंशद्धनूनतः पञ्चषष्टिवर्षसहस्रायुः षष्ठं नरकं गामी । वाराणस्यां दत्तः षड्विशतिधनूनतः षट्पञ्चाशद्वर्षसहस्रायुस्तज्जिनद्वयान्तर एव शेषवत्यग्निसिंहभूः पञ्चमं नरकं गामी । राजगृहे मुनिसुव्रत-नम्यन्तरे द्वादशाब्दवर्षसहस्रायुः सुमित्रा-दशरथपुत्रः षोडशधनून्नतिर्नारायणस्तुरीयं नरकं गामी । मथुरापुर्यां नेमिनाथकाले दशधनून्नतो देवकीवसुदेवपुत्रः कृष्णः सहस्रवर्षायुस्तृतीयं नरकं गामी ।
प्रथमं पर्व - षष्ठः सर्गः
तथा प्रथमो बलदेवोऽचलो भद्रासुतः पञ्चाशीतिवर्षलक्षायुः, द्वितीयो सुभद्रापुत्रो विजयः पञ्चसप्तत्यब्दलक्षायुः, तृतीयो भद्रः सुप्रभापुत्रः पञ्चषष्टिवर्षलक्षायुः, चतुर्थः सुप्रभः सुदर्शनापुत्रः पञ्चपञ्चाशदब्दलक्षायुः, पञ्चमः सुदर्शनो विजयासुतः सप्तदश वर्षलक्षायुः, षष्ठो वैजयन्तीसूनुरानन्दः पञ्चाशीतिवर्षसहस्रायुः, सप्तमो जयन्तीपुत्रो नन्दनः पञ्चषष्टिवर्षसहस्रायुः, अष्टम: पद्मोऽपराजितातनयः पञ्चदशवर्षसहस्रायुः, नवमो रामो रोहिणीपुत्रो द्वादशाब्दशतायुर्भविष्यन्ति । तत्राऽष्टौ मोक्षगाः, रामो ब्रह्मकल्पं गमिष्यति । तथा स भरते कृष्णतीर्थ उत्सपिण्यां सेत्स्यति । तथाऽश्वग्रीवतारक-मेरक-मधु-निशुम्भ-बलि-प्रह्लाद-लङ्केश-मगधेश्वरा वासुदेवप्रतिमल्लाश्चक्रायुधाः स्वचक्ररेव वासुदेवकरगतैर्हनिष्यन्ते ।
भरतस्तच्छ्रुत्वा स्वामिनं पुनः पप्रच्छ-"अत्र समवसरणे भवानिव कोऽपि तादृशोऽस्ति यस्तीर्थं प्रवर्त्य भरतक्षेत्रं पावयिष्यति ?" भगवानाह-"तव पुत्रोऽयं प्रथम: परिव्राजको मरीचिरातरौद्रध्यानहीनः सम्यक्त्वयुक्तो रहसि धर्मध्यानं कुर्वन् सम्प्रति कर्ममलिनोऽपि शुक्लध्यानाच्छुद्धिमेष्यति । इहैव भरतक्षेत्रे पोतनाख्ये नगरे त्रिपृष्ठो वासुदेवानां प्रथमो वासुदेवो भविष्यति । यः क्रमात् प्रत्यग्विदेहेषु मूकायां पुरि दाशार्हाणां प्रथमो धनञ्जयधारिण्योः पुत्रश्चक्री प्रियमित्रनामा भविष्यति । ततश्चिरं भवे संसृत्य भारते महावीरनामा चतुर्विंशस्तीर्थकृद्भावी" इति श्रुत्वा स्वाम्यनुज्ञामादाय भरतो वन्दितुं मरीचिमगात् । "त्वां त्रिपृष्ठं प्रियमित्रं वा न, ते इदं जन्म पारिवाज्यं वा न, किन्तु चतुर्विशं भाविनमर्हन्तं त्वां वन्दे" इति ब्रुवाणो बद्धाञ्जलिपुटस्त्रि:प्रदक्षिणीकृत्य भरतस्तं ववन्दे । ततः प्रभुं नत्वा भरतोऽयोध्यां जगाम ।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89