Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुकुलोत्पन्नमुनिवपूंषि, पश्चिमचितायां चाऽन्येषां मुनीनां शरीराणि शनैः स्थापयामासुः।
ततो वासवनिदेशादग्निकुमारकास्तत्कालं चितास्वग्नि, वायुकुमाराश्चाऽग्निज्वालनाय वायु विचक्रुः । शक्राज्ञया च तत्र चितासु देवाः कर्पूरादीनि सीषि मधूनि च कुम्भशो निदधुः । चितानलं चाऽस्थि मुक्त्वा धातुषु दग्धेषु मेघकुमाराः क्षीराम्भोभिर्विध्यापयामासुः । ततो वासवः पूजयितुं प्रभोरुपरितनी दक्षिणां दंष्ट्राम्, ईशानेन्द्रश्च वामां दंष्ट्राम्, चमरेन्द्रो बलिश्चाऽधस्तनी दक्षिणां वामां च दंष्ट्राम्, अन्ये देवेन्द्राश्चाऽन्यदन्तान्, अन्ये देवाश्चाऽस्थीनि जगृहुः । याचमानेभ्यः श्रावकेभ्यश्च देवाश्चिताकुण्डत्रयाग्नीन् दत्तवन्तः । ततः प्रभृति तेऽग्निहोत्रिणो ब्राह्मणा जाताः । ते ब्राह्मणाश्च स्वामिचितावहिं गृहे नित्यमपूजयन् निर्वातं रक्षन्ति स्म च । इक्ष्वाकुवंश्यानामन्येषां च मुनीनां विध्यातौ चितानलौ स्वामिचिताग्निनेक्ष्वाकुचिताग्निना च विध्यातमन्यमुनिचिताग्नि प्रज्वालयन्ति स्म । किन्त्वन्यमुनिचिताग्निमन्यमुनिचिताग्न्योः कदाऽपि न सङ्क्रमयन्ति स्म । स एष विधिरद्याऽपि द्विजेषु प्रवर्त्तते । केचिच्च भस्म लब्ध्वा तद्वन्दिरे। ततः प्रभृति ते भस्मभूषणास्तापसा जाताः । ततश्चितास्थानत्रये देवा रत्नस्तूपत्रयं निर्माय नन्दीश्वरद्वीपे च शाश्वतप्रतिमोत्सव विधाय स्वं स्वं पदं ययुः । तथा शक्राः स्वस्वविमानेषु माणवकस्तम्भोपरिनिर्मिते वज्रसमुद्गके स्वामिदंष्ट्रां निवेश्य निरन्तरं पूजयामासुः । तत्प्रभावाच्च सदा विजयमङ्गलवन्तो बभूवुः ।
प्रथमं पर्व - षष्ठः सर्गः
१३९ श्चाऽऽसन् । तेषु द्वारेषु मुखमण्डपाः, तेषां पुरः श्रीवल्लीमण्डपान्तः प्रेक्षासदनमण्डपाः, तन्मध्यभागे वज्रमया अक्षवाटाः, तेषु प्रत्येक रत्नसिंहासनं चाऽभूवन् । प्रतिप्रेक्षामण्डपाग्रं च मणिपीठिका, तदुपरि रत्नमयाश्चैत्यस्तूपसम्मुखीनाः पञ्चधनु:प्रमाणा: सर्वाङ्ग रत्ननिर्मिता ऋषभा वर्धमाना चन्द्रानना वारिषेणा च पर्यङ्कासनासीना: शाश्वतजिनप्रतिमा नन्दीश्वरद्वीपचैत्यमध्य इवाऽभवन् । तेषां चैत्यस्तूपानां प्रत्येकं पुरतोऽमूल्यरत्नमयी विशाला चारुपीठिका, तासामुपरि प्रत्येकमिन्द्रध्वजं, तेषां पुरतस्त्रिसोपाना सतोरणा स्वच्छशीतलसलिला नन्दा नाम्नी पुष्करिण्यभूत् ।
सिंहनिषद्याया मध्यभागे च मणिपीठिकोपरि चित्ररत्नमये देवच्छन्दके उपरि वितानेन पार्श्वतश्च वज्रमयाङ्कुशेन मुक्ताहारशोभितेन समन्विते, प्रान्तेषु मणिमालामनोहरे, भित्तिषु चित्रमणिमयगवाक्षशोभिते, दह्यमानागरुधूमपटलबहले, स्वस्वसंस्थानप्रमाणवर्णधराः शैलेशीध्यानवर्तिनश्चतुर्विशतिर्ऋषभस्वामिमुख्यानामर्हतां प्रतिमा अभूवन् । तासु षोडश सुवर्णमय्यः, द्वे राजावर्तरत्नकृते, द्वे स्फाटिक्यौ, द्वे वैडूर्यमणिमय्यौ, द्वे शोणाश्मजे चाऽऽसन् । तासां प्रतिमानां च नखा अङ्करत्नमयाः, नाभीकेशान्तभूजिह्वातालुश्रीवत्सचूचुकं हस्तपादतलानि च सौवर्णानि, पक्ष्माणि नेत्रकनीनिकाः श्मणि ध्रुवो रोमाणि केशाश्च रिष्टरत्नमयानि, ओष्ठा विद्रुमरत्नमयाः, दन्ताः स्फाटिकाः, शीर्षघट्यो वज्रजाः, नासान्ता लोहिताक्षमणिप्रभाः सौवर्णाः, नेत्राणि रक्तप्रान्तानि चाऽङ्करत्नकृतानि चाऽभवन् । तासां पृष्ठे च प्रत्येकं छत्रधारप्रतिमा यथाप्रमाणं स्फाटिकमणिदण्डं श्वेतच्छत्रं दधती, पार्श्वयोश्च प्रत्येकमुत्क्षिप्तमणिचामरे रत्नमय्यौ चामरधारप्रतिमे, अग्रे च प्रत्येकं कृताञ्जलीनां नागयक्षभूतकुण्डधाराणां द्वे द्वे प्रतिमे चाऽभूवन् ।
भरतश्च स्वामिचितासन्नभूमौ योजनायामं त्रिगव्यूतोन्नतं प्रासादं सिंहनिषद्यां वर्धकिरत्नेन रत्नैरकारयत् । तस्य स्फाटिकानि चत्वारि द्वाराणि, प्रतिद्वारमुभयतो रत्नचन्दनकलशा, रत्नमयास्तोरणा, अष्टमङ्गल्य

Page Navigation
1 ... 83 84 85 86 87 88 89