Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 83
________________ .१३५ १३४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्रस्थो मरीचिश्च तच्छ्रुत्वा दर्पमागतस्रिः करास्फोटपूर्वकमतिप्रमुदित एवं वक्तुं प्रचक्रमे-"यद्यहं वासुदेवानां प्रथमो, विदेहेषु चक्री, भारतेऽन्तिमोऽहंश्च भविताऽस्मी"त्येतावता पूर्णं मम । मम पितामहोऽर्हतामाद्यो, मम पिता च चक्रिणामाद्योऽहं च वासुदेवानामाद्य इति मम कुलं सर्वश्रेष्ठम्" । एवमात्मकुलाभिमानं कुर्वाणेन तेन स्वकीयं नीचगोत्रमुपार्जितम् । प्रथमं पर्व - षष्ठः सर्गः तत: परमसंवेगाविष्टः पुण्डरीकः श्रमणानभाषत-"अयं गिरिः क्षेत्रप्रभावेण सिद्धिनिबन्धनं वर्त्तते । अतोऽत्र मुक्तेः साधनान्तरं द्रव्य-भावभेदाद् द्विविधा संलेखना कार्या । द्रव्यसंलेखनासर्वोन्मादमहारोगनिदानभूतानां सर्वधातूनां समन्ततः शोषणम् । भावसंलेखना-सहजवैरिणां राग-द्वेष-मोहकषायाणां सर्वतच्छेदः"। इत्येवमुदित्वा स मुनिकोटिभिः सह सूक्ष्मबादरान् सर्वानतीचारानालोच्य भूयःशुद्धये महाव्रतारोपणं विधाय "जीवाः क्षाम्यन्तु मे सर्वे, तेषां च क्षान्तवानहम् । मैत्री मे सर्वभूतेषु, वैरं मम न केनचिदि"त्युक्त्वा भवचरमं निराकारमनशनं प्रतिपन्नवान् । क्षपकश्रेणिमारूढस्य तस्य मुनिकोटीनां च क्रमाद् घातीनि कर्माण्यत्रुट्यन्। तथा मासान्ते चैत्रपूर्णिमायां प्रथमं पुण्डरीकस्य पश्चाच्च मुनीनां केवलमुत्पन्नम् । ततः शुक्लध्याने स्थितास्तुर्ये पादे ते योगिनः क्षीणाशेषकर्माणो निर्वाणं प्रापुः । ततो देवा भक्त्या तेषां मरुदेव्या इव निर्वाणगमनोत्सवं चक्रुः । यथा वृषभस्वामी प्रथमस्तीर्थकृत, तथा शत्रुञ्जयगिरिरपि तदा प्रथमं तीर्थं बभूव । भगवांश्च पुण्डरीकप्रभृतिभिर्गणधरैः परिवृतो विहारव्याजतो महीं पुनान: कौशलान् मगधान् काशीन् दशार्णान् चेदीन् मालवान् गूर्जरान् सौराष्ट्रांश्च धर्म दिशन् शत्रुञ्जयगिरि प्राप । विविधतरुखण्ड-लता-प्रतान-निर्झरादिमनोहरं मूले पञ्चाशद् योजनं शिखरे दशयोजनमष्टयोजनोच्छ्रायं तं गिरिमारुरोह सः । तत्र सुरैः सद्यो निर्मिते समवसरणे धर्मदेशनां कुर्वन् पौरुष्यां व्यतीतायां ततो विरम्योत्थाय देवच्छन्दे समुपविवेश । ततश्च स्वामिनः पादपीठे समुपविष्टो गणधराग्रणी: पुण्डरीकः सभायां तथैवोपविष्टायां भगवदनुकृत्या धर्मदेशनां कुर्वाणो द्वितीयपौरुष्यां तां समापयामास । एवं सत्त्वोपकाराय धर्मदेशनां कुर्वाण: प्रभुरष्टापद इव तत्र कञ्चित् कालं स्थित्वाऽन्यत्र विजिहीर्षुः पुण्डरीकं समादिशत्"वयमन्यत्र विजिहीर्षवः, त्वमत्रैव मुनिकोटिभिरावृतस्तिष्ठ । क्षेत्रप्रभावेण तव सपरिवारस्याऽचिरादेव केवलमुत्पत्स्यते । इहैव च शैलेशीध्यानस्थस्य तव सपरिवारस्य शीघ्रमेव मुक्तिरपि भविता" । तथेति प्रभुवाचं स्वीकृत्य प्रणम्य च स मुनिकोटिसहितस्तत्रैवाऽस्थात् । प्रभुश्च तं तत्र मुक्त्वा सपरिच्छदोऽन्यत्र विजहार । ततो भरतः शत्रुञ्जयगिरौ रत्नशिलामयं चैत्यं कारयामास। तथा पुण्डरीकप्रतिमासहितां प्रभोर्वृषभस्य प्रतिमां च तत्र स्थापयामास । भगवांश्चाऽपि नानादेशेषु विहरन् बोधिदानाद् भविनोऽन्वग्रहीत् । प्रभोः केवलज्ञानावधि चतुरशीतिसहस्राणि श्रमणाः, लक्षत्रयं साध्व्यः, सार्धलक्षत्रयं श्रावकाश्चतु:सहस्राधिकसार्धपञ्चलक्षाणि श्राविकाः,सप्तशताधिकसहस्रचतुष्टयं चतुर्दशपूर्विणः, नवसहस्राण्यवधिज्ञानिनः, विंशतिसहस्राणि केवलिनः, षट्शताधिकविंशतिसहस्राणि वैक्रियलब्धिमन्तः श्रमणाः, सार्धषट्शताधिकद्वादशसहस्राणि मनःपर्ययिणो वादिनश्च पृथक् पृथक्, द्वाविंशतिसहस्राण्यनुत्तरविमानोपपातिनो जज्ञिरे। एवं प्रभुरादितीर्थकरश्चतुर्विधं सङ्घ धर्मे प्रजा व्यवहार इव स्थापयामास।

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89