Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 77
________________ ...१२३ षष्ठः सर्गः अथेतश्च ऋषभप्रभोः शिष्यो भरतात्मजो मरीचिरेकादशाङ्गाध्येता श्रमणगुणसमन्वितः स्वभावसुकुमारः स्वामिना समं विहरन् ग्रीष्मे सर्वतः सूर्यातपतप्तस्तृष्णाक्रान्तोऽचिन्तयत्-"अहं केवलिन ऋषभस्वामिनः पौत्रश्चक्रिणो भरतस्य पुत्रश्चतुर्विधसङ्घसमक्षं च प्राव्राजिषम् । एवं सत्यस्मात् स्थानाल्लज्जया गृहं गन्तुं न युज्यते । श्रामण्यं च मुहूर्तमप्युद्वोढुं न शक्यते । सङ्कटे पतितोऽस्मि हा ! । 'अथवाऽस्त्येष पन्थाः, यद् मनो-वाक्-कायदण्डानां जयिन इमे श्रमणाः, तैश्च विजितोऽहं त्रिदण्डिको भविष्यामि । एते सर्वविरताः, अहं देशविरत: स्याम् । एते विगतमोहाः, अहं तु मोहमग्न इति तच्चिह्न छत्रं धारयिष्यामि । एते निष्कषायाः श्वेताम्बराः, अहं सकषाय इति तत्स्मृत्यै काषायाणि वस्त्राणि धारयिष्यामि । एते पापभीता जलारम्भं त्यजन्ति, मम परिमितेन जलेन स्नानाद्यस्तु" । एवं चिन्तयित्वा तादृशं लिङ्ग स्वीकृत्य स्वामिना सह विजहार । तदा च महर्षिषु विजातीयं तं दृष्ट्वा जनाः कौतुकाद् धर्म पप्रच्छु: । स साधुधर्ममुपादिशत्, किन्तु स्वयं तदनाचरणेऽशक्तिहेतुं जगाद । तथा स मरीचिर्दीक्षाथिनो भव्यान् प्रतिबोध्य स्वामिसमीपं प्रेषयामास । स्वामी च तेभ्यो दीक्षां ददौ । एकदा स्वामिना साध विहरतो मरीचेः शरीरे रोग उत्पेदे । किन्तु व्रतभ्रष्टः स मुनिभिर्नाऽपाल्यत । अजातोपचारश्च स व्याधिनाऽधिकं पीडितोऽभूत् । तदा स चिन्तयामास-"ममाऽत्रैव प्रथमं पर्व - षष्ठः सर्गः भवेऽशुभं कर्मोदीणं । यदेते स्वेऽपि साधवः परमिवोपेक्षन्ते । एते सावधविरता: सावधनिरतस्य मे वैयावृत्त्यं कथं कुर्युः ? तत: स्वोपचाराय कमप्यन्यमल्पधर्माणमन्वेषयामि" । एवं चिन्तयन् स कथमपि नीरोगो जातः । अन्यदा च वृषभस्वामिनः पार्श्वे कपिलो नाम राजपुत्रः समाययौ, स्वामिदेशनां च श्रुतवान् । तत्र कथितो धर्मो न कपिलाय नितरां रुरुचे । धर्मान्तरं शुश्रूषुश्चेतस्ततो दृष्टि क्षिपन् मरीचिं दृष्ट्वा तत्समीपं गत्वा धर्म पप्रच्छ । तदा मरीचिरूचे-"इह धर्मो नाऽस्ति, धर्मार्थी चेत् स्वामिनं श्रय" । स स्वामिपार्श्व जगाम । पुनस्तथैव धर्म शुश्राव । स च स्वकर्मदूषिताय तस्मै नाऽरुचत् । स पुनर्मरीचिमुपाययौ । मरीचिमपृच्छच्च-"किं तव कोऽपि धर्मो नाऽस्ति, किं व्रतं निर्धर्म भवेत् ?" तदा मरीचिरचिन्तयत्-"दैवादयं कोऽपि ममाऽनुरूपो जातः, असहायस्य ममाऽयं सहायोऽस्तु"। एवं विचिन्त्य "तत्राऽपि धर्मोऽस्ती, अत्राऽपि धर्मोऽस्तीत्युदतरत् । तेनैकेन दुर्भाषितेन च सोऽब्धिकोटीकोटिमानं भवमुपार्जयत् । तथा स कपिलं दीक्षयित्वा स्वसहायं चकार । ततः प्रभृति परिव्राजकपाखण्डमभवत् । अथ साग्रं योजनशतं लोकानां रोगक्षयादनुगृह्णननीतिनिवारणाच्च प्रजाः सुखयन्, नैमित्तिकशाश्वतवैरप्रशमात् प्राणिनः प्रीणयन्, अग्रे सर्वसौस्थ्यकारकव्यवहारप्रवृत्त्या परतोऽमार्या च प्रजा आनन्दयननीतिभीतिरहितैः प्रीतैर्जनपदैः क्रियमाणागमनोत्सवो, दुर्भिक्षतो जगद् रक्षन्, जनै शं स्तूयमानो, भामण्डलं दधानो, व्योम्नि पुरो गच्छता धर्मचक्रेण राजितः, तुङ्गेन धर्मध्वजेन लघुध्वजसहस्रेण च पुरः शोभितो, दिवि स्वयं शब्दायमानेन दुन्दुभिना, पादपीठसमेतेन स्फटिकरत्नसिंहासनेन चोपशोभितो, देवैः सञ्चार्यमाणेषु सौवर्णेषु

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89