Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 79
________________ १२६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इति पुनः स्वामिना निषिद्धो भरतो भृशमनुतप्तवान् । ततो विलक्षं भरतमनुलक्ष्य शक्र:-"कतिधाऽवग्रहः स्यादि"ति प्रभुं पप्रच्छ । "इन्द्र-चक्रि-नृपा-ऽगारि-साधुसम्बन्धभेदात् पञ्चधाऽवग्रहः, तेषूत्तरोत्तरो बलवा"निति प्रभूणा कथितश्च स "ये साधवो विहरन्ति ममाऽवग्रहे, तेषां ममाऽवग्रहमनुजानामि" इत्येवमुदित्वा, प्रभु नत्वाऽवस्थितः। ततो भरतोऽपि "एभिर्यद्यपि मदीयमन्नादि न गृहीतं, तथाऽप्यवग्रहानुज्ञया कृतकृत्यः स्या"मिति विचार्य स्वामिनोऽग्रे स्वमवग्रहमन्वजिज्ञपत्-"मयाऽमुना भक्तपानादिनाऽधुना कि कार्यम्?" इति वासवमपृच्छच्च । "गुणोत्तरेभ्यो दातव्य"मिति शक्रेणोत्तरिते "श्रावका विरताविरता गुणोत्तरा" इति तेभ्यो देयमिति निश्चित्य वासवस्य भास्वदाकृतिकं रूपं दृष्ट्वा विस्मित: स पप्रच्छ-"कि स्वर्गेऽपीदृशेन रूपेण यूयं तिष्ठथ रूपान्तरेण वा?" ततो देवराजोऽब्रवीत्-"राजन् ! स्वर्गे नैतद्रूपं मम । तत्रत्यं रूपं मत्येंद्रष्टुं न पार्यते" । ततो भरतः पुनरप्यूचे-“तव तद्रूपदर्शनकौतुकं मेऽस्ति, तद्दर्शनेन मां प्रीणय" । ततः शक्रोऽब्रवीत्-"त्वमुत्तमः पुमानसि, तत एकमङ्गावयवं दर्शयिष्यामि" । तदनन्तरं स योग्यालङ्कारयुक्तां स्वाङ्गुली दर्शयामास । तद् दृष्ट्वा च भरतो नितरां मुमुदे । ___ ततः शक्रो भगवन्तं प्रणम्य भरतमनुज्ञाप्य च तत्क्षणात् तिरोहितवान् । भरतोऽपि शक्रवत् स्वामिनं प्रणम्याऽनुज्ञाप्य च विनीतां प्राप्तो रत्नमयीं शक्राङ्गुली न्यस्याऽष्टाह्निकां चकार । ततः प्रभृतीन्द्रस्तम्भं समुत्तभ्य सर्वत इन्द्रोत्सवः प्रारब्धो लोकैरद्याऽपि प्रवर्तते । जिनेश्वरोऽपि भव्यकमलप्रबोधकृदष्टापदादन्यत्र विजहार । प्रथमं पर्व - षष्ठः सर्गः १२७ अथ: भरतः श्रावकान् समाहूय "मदीये गृहे प्रतिदिनं भवद्भिर्भोक्तव्यं, कृष्यादि न विधेयम्, अन्वहं स्वाध्यायतत्परैः स्थातव्यं, भुक्त्वा च मत्समीपमागत्य सर्वदा "जितो भवान्, वर्धते भीस्तस्माद् मा हन मा हने"ति पठनीय"मित्युक्तवान् । ते च तथा स्वीकृत्य तद्गृहे प्रतिदिनं भुञ्जन्ति स्म, तद्वचश्च स्वाध्यायमिव पठन्ति स्म । भरतश्च प्रतिदिनं तच्छब्दं शृण्वन्नेकदाऽचिन्तयत्"कषायैजितोऽस्मि, तेभ्य एव मम भयं वर्धते । अतः प्राणिनो मा हन्याम् । एते विवेकिनो नित्यमेव स्मारयन्ति, तथाऽपि प्रमादिनो मम धर्मे औदासीन्यं धिक्"। इत्थं चिन्तया च तस्य क्षणं धर्मध्यानं प्रावर्त्तत । किन्तु स भोगफलस्य कर्मणोऽन्यथा कर्तुमनीश्वरत्वाद् भूयोऽपि विषयासक्तो जातः । अथैकदा पाचकमुख्यै"भूयस्त्वाच्छावकोऽश्रावको वेति नोपलक्ष्यत" इति विज्ञप्तस्तान् समादिशत्-"यूयमपि श्राद्धाः स्थ, अतोऽद्य प्रभृति परीक्ष्य भोजनं देयम्" । ततस्तैः को भवान् ? श्रावकोऽहं, तव्रतानि कति ? पञ्चाऽणुव्रतानि, सप्त शिक्षाव्रतानि चे"त्येवं परीक्षोत्तीर्णा एव भरतस्य दर्शयामासिरे । नृपश्च ज्ञानदर्शन-चारित्रलिङ्ग काकिणीरत्नेन रेखात्रयं शुद्धिलक्षणं विदधे । अर्धवर्षेऽर्धवर्षे च परीक्ष्य प्रवृत्ता नवा अपि श्रावकास्तथैवाऽगृह्यन्त, तच्चिाश्च भोजनं लेभिरे । "जितो भवान्" इत्याधुच्चैः पठन्तश्च माहना इति प्रख्याताः । तथा ते निजान्यपत्यानि साधुभ्यः समर्पितवन्तः। तेषु कैश्चिच्च परीषहाद्यसहिष्णुभिः श्रावकत्वमुपाददे । काकिणीरत्नलाञ्छितैश्च तैस्तथैव बुभुजिरे । तेभ्यश्च "नृपेण दत्तम्" इत्यन्योऽपि लोको महाजनानुसारित्वाद् ददौ । तथा चक्री तेषां स्वाध्यायार्थमर्हत्स्तुति-मुनि-श्राद्धसामाचारीसहितानार्यान् वेदान् विदधे । कालक्रमेण ते माहना ब्राह्मणा इति विश्रुता बभूवुः ।

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89