Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
११८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो भरतः पुनरपक्रम्य दण्डमादाय नभसि भ्रमयित्वा बाहुबलि शिरस्यताडयत् । तेन दण्डाघातेन च सशब्दं चूर्णितं तद् बाहुबलेः किरीटं भूमौ निपपात । तेन घातेन क्षणं मूच्छितो बाहुबलिने। उन्मील्य दण्डमादाय भ्रमयित्वा च भरतमुरसि निर्दयं जघान । तेन घातेन च भिन्नकवचश्चक्री क्षणं विह्वलोऽचेतन इव जातः। तद्व्यथामवधूय च चक्री पुनर्दण्डमादाय प्रवृद्धक्रोधो भ्रमयन् बाहुपौरुषमालम्ब्य बाहुबलि शिरस्यताडयत् । तेनाऽऽघातेन च बाहुबलि मावाजानु ममज्ज । स दण्डश्च बाहुबलौ समास्फाल्य खण्डशो जातः । मेदिन्यामाजानुमग्नः प्राप्तव्यथश्च बाहुबलिद्र्धानमधूनयत् । क्षणं किञ्चिन्नाऽशृणोच्च । ततोऽचिरेणैव लब्धसंज्ञो बाहुबलिः पृथिव्या निर्गत्याऽतिक्रुद्धो दण्डमादाय भ्रमयन् भरतं शिरस्याजघान । तद्दण्डाघातेन च भरतो मुद्गराहतकीलवद् भूमावाकण्ठं ममज्ज । तत्सेवकाच विषादाद् मेदिन्यां निपेतुः । भुवि नृणां दिवि देवानां च महान् तुमुलो जातः ।
क्षणं मुद्रितनेत्रो विवर्णमुखो भरतस्तथास्थितः पुनर्मेदिनीमध्याद् निर्गत्य चिन्तयामास-"अहं सर्वेषु युद्धेष्वनेन जितः, एकस्मिन् कोशेऽसी इवैकस्मिन् भारतक्षेत्रे द्वौ चक्रिणौ न दृष्टौ न वा श्रुतौ । किं च देवैरिन्द्रो नृपैश्च चक्री विजीयत इत्यश्रुतपूर्वम् । मयाऽविजितोऽयमेव चक्रवर्ती, नाऽहम्" । एवं चिन्तयतश्च तस्य करे यक्षराजैश्चक्रं समारोपितम् । चक्रिणा प्रहाराय भ्रम्यमाणं तच्चक्रं दृष्ट्वा बाहुबलिर्दध्यौ-"मयि दण्डायुधे तस्य चक्रग्रहणं धिक् । देवसमक्षमुत्तमयुद्धं प्रतिज्ञाय तत्त्यागं धिक् । भवतु । निजबाहुबलमिवाऽसौ चक्रबलमपि जानातु"। एवं चिन्तयति बाहुबलौ भरतश्चक्रं प्राहरत् । चक्रं चाऽऽगत्य बाहुबलेः प्रदक्षिणां चकार । यतश्चक्रं चक्रिण: स्वगोत्रजे चरमशरीरे च न प्रभवति । अतः परावृत्त्य चक्रं चक्रिहस्ते समापतत् ।
प्रथमं पर्व - पञ्चमः सर्गः
बाहुबलिश्चाऽऽमर्षाद् “मयि दण्डायुधे चक्रमोचकमन्यायकारिणं भरतं सचक्रमेव मुष्टिना चूर्णयामी"ति चिन्तयित्वा मुष्टिमुद्यम्य धावमानो भरतं प्राप्य स्थितश्चेतसि चिन्तयामास-"अहो ! राज्यलुब्धेनाऽनेनेव मयाऽपि भ्रातृवधं समारब्धं धिग् धिक्। यत्र भ्रात्रादयो हन्यन्ते, तस्य राज्यस्याऽर्थे को यतेत ? किं च राज्यश्री: प्राप्ता भुक्ताऽपि च न तृप्तये । सावधानं रक्ष्यमाणाऽपि चाऽल्पेनैव छिद्रेण सा राज्यलक्ष्मीः क्षणेनैव नश्यति । अतस्तातोऽपि तां तृणवत् तत्याज । अतः सर्वथा त्याज्य वेय"मित्येवं मनसि निश्चित्य चक्रिणमुवाच-"भ्रातः ! राज्यार्थं द्विषन्निव मया त्वं खेदितोऽसि, तत् क्षमस्व । मम भवहूदे तन्तुपाशतुल्येन भ्रात्रादिना राज्येन च कृतम् । अहं विश्वाभयदानव्यसनिनं तातमेवाऽनुसरिष्यामी"त्युदित्वा महासत्त्वो दक्षाग्रणी: स तेन मुष्टिनैव मूर्ध्नः कचान् तृणवदुद्दधे । देवाश्च साधु साध्विति वदन्तस्तस्योपरि पुष्पवृष्टिं वितेनुः । स बाहुबलिश्च "सम्प्रति तातपादपद्मोपगमने पूर्व गृहीतव्रतानां ज्ञानिनामनुजानां मध्ये मम लघुता भविष्यति । अतोऽत्रैव ध्यानाग्निना घातिकर्माणि दग्ध्वा केवलज्ञानमवाप्य च तत्र स्वामिपर्षदि यास्यामी"ति चिन्तयंस्तत्रैव भुजद्वयं प्रलम्ब्य कायोत्सर्गेणाऽऽस्थात्।
भरतश्च तं तथा दृष्ट्वा स्वकुकर्म विचार्य च लज्जयाऽधोमुखः साश्रुनेत्रो भ्रातरं प्रणनाम । ततो बाहुबलिगुणस्तवनपूर्वकं स्वनिन्दामकार्षीत् । “धन्यस्त्वं, येन मय्यनुकम्पया राज्यं त्यक्तम्, अहं पातकी, यदसन्तुष्टस्त्वामुपाद्रवम् । भवबीजं राज्यं ये न जानन्ति, तेऽधमाः । अहं तु विदन्नप्यत्यजन्नधमतर एव । त्वमेव तातपुत्रस्तदनुसर्ता । अहं तु भवादृशो भवेयं चेत् तदैव तातपुत्रः स्याम्" । ततो विषादपङ्क परिक्षाल्य पश्चात्तापजलेन भरतस्तत्पुत्रं सोमयशसं तद्राज्ये स्थापयामास । तत्प्रभृति शाखाशतसमन्वित: पुरुषरत्नानामुत्पत्तिकारणरुपः

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89