Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 73
________________ ११४ ११५ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वा न मम मानवृद्धि हासौ । किन्तु चक्राप्रवेश एव युद्ध कारणं वर्तते"। ततो देवाः पुनरुचुः-"राजन् ! अल्पेन कारणेन भवादृशां महायुद्ध- प्रवृत्ति!चिता । वयं बाहुबलिमुपेत्य बोधयामः । भवानिव सोऽपि यदि किमपि महत् कारणं युद्धस्य कथयेत, तथाऽप्यधमयुद्धं न कर्त्तव्यम् । अन्यथा निरपराधानां गजादीनां वधपातकेन लिप्येयाथां युवाम्" । 'तथे'ति भरते प्रतिपन्ने देवा बाहुबलिनमुपाजग्मुः। ततोऽधृष्यमूर्ति तं दृष्ट्वा ते देवा: प्रोचुः- "बाहुबले ! चिरं जय, चिरं नन्द । त्वं मर्यादापालको विनीतश्चाऽसि । त्वमपरस्याऽप्युच्छेदाय कदापि न प्रवृतः, तज्ज्येष्ठ भ्रातरि भयङ्करोऽयमारम्भोऽमृतात् पञ्चत्वमिव कथं सम्भाव्यते? तत् खलमैत्रीमिव युद्धसंरम्भं त्यज । ज्येष्ठे भ्रातरि प्रणतो भव । तेन हि नितरां श्लाघ्यसे । भरतोपार्जितं चेदं षट्खण्डं भरतक्षेत्रं स्वोपार्जितमिव भुड्क्ष्व । नहि युवयोः किमप्यन्तरमस्ति" । ततो बाहुबलिराह-"देवाः ! यूयं युद्धे हेतुमज्ञात्वैव वदथ । दीक्षासमये तातो देशान् विभज्याऽस्मभ्यं भरताय चाऽदत्त । स्वस्वदेशेन वयं सर्वे सन्तुष्टाः स्म । भरतश्चाऽसन्तुष्टः सर्वेषां राज्ञा राज्यानि स्वाधीनीकृतवान् । तैरप्यसन्तुष्टः स स्वानुजानां राज्यान्याचिच्छेद । भ्रातणां पितृदत्तराज्यापहरणेन ज्येष्ठत्वं तेन स्वयमेवाऽपाकृतम् । न वयसा गुरुर्भवति, किन्त्वाचारतः । अधुनाऽसौ राज्यकृते मामप्याह्वयते । ममाऽनुजाश्च लुब्ध ज्ञात्वैनं नाऽभजन् । तहिं केन गणेनाऽस्याऽधीनो भवानि ? यदि स स्वविक्रमेण मामधीनं करोति, करोतु । एष क्षत्रियाणां पन्थाः । एवं स्थितेऽपि यदि स पश्चाद् याति, सुखेन यातु, न मम तस्येव लोभः । यदि वैभवान्धः स्यात्, सुखेन न तिष्ठेत् । तस्य सर्व वैभवं मया हृतमेव जानीथ । ततस्तस्य हितेच्छवो यूयं तं भरतमेव युद्धाद् निवारयत । अयुध्यमानेन हि नाऽहं जातुचिद् युध्ये" । प्रथमं पर्व - पञ्चमः सर्गः तद्वचः श्रुत्वा पुनरपि देवा ऊचु:-"चक्राप्रवेशनं हेतुं कृत्वा युद्धाय प्रवर्त्तमानो भरतः, युध्यमानेन युध्येऽहमिति प्रतिजानानो भवांश्च न केनाऽपि निरोद्धुं शक्यः । ततो द्वयोरार्षभ्योर्जगत्त्रात्रोरयं युद्धोत्पातो जगत्क्षयायैवोपस्थितः । तथाऽप्युत्तमेनैव युद्धेन योद्धव्यं नाऽधमेन, उग्रतेजसोरुभयोरधमयुद्धे बहूनां लोकानां नाशादकाल एव प्रलयो भवे"दिति । तेन तथेति स्वीकृते देवा नाऽतिदूरे एव तयोर्युद्धं द्रष्टुं स्थिताः । ___अथ बाहुबलेराज्ञया प्रतीहारो गजस्थ: स्वसैनिकान् जगाद"भो भो: सैनिकाः ! युष्माकं चिरं चिन्तयताम्, अभीष्टं स्वामिकार्यमुपस्थितमासीत् । परं युष्माकं स्वल्पपुण्यत्वाद् देवैर्भरतेन सह द्वन्द्वयुद्धार्थं स्वामी प्रार्थितः । अतः स्वामी युष्मान् युद्धाद् निषेधति । युष्माभिस्तटस्थैरेव हस्तिमल्ल इव युध्यमान: स्वामी प्रेक्षणीयः । तत्स्ववाहनानि वालयित्वाऽपक्रमत । शस्त्रास्त्राणि च सङ्क्षिपत" । ततो द्वारपालवचनेन वज्रशब्देनेव समाहता बाहुबलिन: सैन्याः "विबुधैरकस्मादागतैर्भरतेश्वरसैन्येभ्यो लब्धोत्कोचैरिव प्रभुं प्रार्थ्य युद्धोत्सवो रुद्ध" इति मनसि विचिन्तयन्तोऽपासरन् । भरतोऽपि स्वां सेनामपासारयत । अपसार्यमाणाश्च भरतसैन्या "अस्माभिः पूर्व योधितेन बाहुबलिना भर्तुर्युद्धमुचित"मिति परस्परं ब्रुवन्तः समाहूय भरतेनाऽभाष्यन्त-"न शङ्कनीयं युष्माभिः, सर्वे सम्भूय मम बाहुबलालोकनं कुर्वन्तु"। ततश्चक्री खनकपुरुषैरतिविस्तीर्णं गभीरं च गर्तमेकमखानयत् । तस्य गर्तस्य तटे चोपविश्य भरतो वामे भुजे सहस्रसङ्ख्याका दृढाः शृङ्खला लम्बमाना अबन्धयत् । ततः सैन्यान् "यूयं सबलवाहना मद्भुजबलपरीक्षार्थं मामाकृष्य गर्ते पातयन्तु" इत्युवाच । भूयोभूयश्च चक्रिणेवमादिष्टा: सैनिकाः कथञ्चित् तत् स्वीचक्रुः । ततस्ते सैन्या

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89