Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 71
________________ ११० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः राजा दृष्टः श्रुतो वा ? । तवाऽविनीते च भ्रातरि स्नेह एकहस्तेन तालिकावादनमिव प्रतिभाति । एवं वदतोऽस्मान् देवो निषेधति चेद् निषेधत । सर्वविजयाभावादेव चक्रमद्याऽपि बहिः स्थितम् । तस्माद् भ्राताऽप्यवशो नोपेक्षाहः" । ततो नृपाशयमालोच्य मन्त्री जगाद-"सेनानीर्यदुक्तवान् तद् युक्तमेव । अयमपि रत्नमेव । अतोऽसमग्रविजयेन कथं तुष्यतु ? तस्माद् देवाज्ञया प्रयाणभेरी ताड्यताम् । देवश्च तक्षशिलां प्रति प्रयाणं विदधातु । स्वामी स्वयं गत्वा सुवेगोक्तं सत्यमसत्यं वेति परीक्षताम्"। ततो भरतस्तेषां युक्तं वचः स्वीकृत्य शुभे दिने यात्रिकमङ्गलपूर्वकं प्रयाणाय गजरत्नमारुरोह । प्रयाणतूर्याणां नादैश्च सर्वाणि सैन्यानि मिलितानि । ततो नरेन्द्र-मन्त्रि-सामन्त-सेनापतिभिः परिवारितो नृपो नगराद् निर्ययौ । यक्षसहस्राधिष्ठितं चक्रं च भरतस्य पुरःसरमभूत् । पुर-ग्रामादौ च लोकाः केचिद् "भरतस्य बाहुबलि प्रति प्रयाणं न युक्तं, यतोऽनुजो जितोऽनुजेन वा जित इत्युभयथाऽपि महीपतेरयश एवे"त्यूचुः । नृपश्च चक्रानुगो गच्छन् कतिपयैर्दिवसैः सूर्योऽन्यराशिमिव बहलीदेशमासदत् । तस्य देशस्य प्रवेशप्रदेश एव शिबिरं निवेश्याऽवतस्थे च । बाहुबलिरपि चरपुरुषैर्भरतमागतमज्ञासीत् । प्रथमं पर्व - पञ्चमः सर्गः ततो रात्रौ बाहुबलि पाद्यनुमत्या स्वसुतं सिंहरथं सेनापति चक्रे । तस्य मूर्ध्नि स्वयमेव रणपट्टे निवेशितवान् सः । ततः सिंहरथो बाहुबलि प्रणम्य निजावासं ययौ । तथा बाहुबलिरन्यानपि नृपान् रणार्थमादिश्य व्यसृजत् । इतश्च भरतोऽपि नृप-सामन्ताद्यनुमत्या सुषेणाय युद्धदीक्षामदात् । स च भरताज्ञामादाय निजावासमियाय । तथा भरतो नृप-सामन्तादीनाहूय युद्धार्थमेवमादिशत्-"भवद्भिरयं सुषेण: सावधानमहमिवाऽनुसतव्यो युद्धे । भवद्भिश्च बहवो नृपाः किरातादयश्च वशंवदा विहिताः । किन्तु ते बाहुबलिपदातितुल्या अपि नाऽऽसन् । बाहुबलेरेकोऽपि ज्येष्ठः पुत्रः सोमः समीरस्तूलानीव सैन्यान्युत्क्षेप्तुं समर्थः । तस्य कनिष्ठः सिंहस्थश्च बलेनाऽकनिष्ठ एव। किं च बाहुबलेरपरेऽपि पुत्र-पौत्रादयः प्रत्येकमक्षौहिणीमपि जेतुं समर्थः । तथा तस्य सामन्तादयः सैन्यानि चाऽन्यनृप-सेनापतितुल्यानि । तस्य व्यूहोऽपि युद्धे वज्रवदभेद्यो भवति । तस्माद् भवन्तः सर्व एवाऽभिगच्छन्तं सुषेणमनुगच्छन्तु" । तदा भरतस्याऽमृतोपमवचसा सर्वे ते हर्षात् प्रमुदिता नृपेण विसृष्टाः स्वस्वावासं ययुः । अथ भरत-बाहुबल्योर्द्वयोरपि वीरा रणमुद्दिश्य ससज्जुः । ते स्वानि स्वानि कृपाण-चापादीन्यायुधानि देवानिवाऽऽनर्चुः । शस्त्राग्रे तूर्याणि वादयामासुः । ते स्वशरीराणि सुरभिभिरुद्वर्त्तनैर्मार्जयामासुः । ललाटेषु कस्तूरीमिश्राणि तिलकानि चक्रुः । प्रातर्भावियुद्धकथया च सैन्यद्वयेऽपि केऽपि निद्रां नाऽऽपुः । क्रमात् प्रभाते सूर्योदये च जाते द्वयोः सैन्ययो रणतूर्याणां महान् प्रणादोऽभूत् । तेन रणतूर्येण प्रेरिता उभयपक्षयोः सैन्याः सन्नद्धा बभूवुः । तदानीं विश्वं समन्तादुत्थितैस्तुमुलैः शब्दमयमिव, सर्वतः प्रेङ्खद्भिरायुधैर्लोहमयमिव चाऽऽसीत् । वैतालिकाश्च प्रतिगजं प्रतिरथं प्रत्यश्वं च वीराणा अथ बाहुबलिरपि प्रयाणवाद्यमवीवदत् । कृतयात्रिकमङ्गलो गजमारुरोह च । स देवैरिन्द्र इव नृपैः कुमारैः सचिवैरन्यैरपि भटैश्च परिवने । तथा गजाश्व-रथ-पदाति-सैन्यानि च तत्र लक्षशः समीयुः । ततः स तैरोजस्विभिरुदायुधैः सैन्यैः पृथ्वीं वीरमयीमिव कुर्वन् चचाल । शीघ्रं च दूरमपि स्वदेशसीमानं प्राप्तो गङ्गातटे भरतशिबिरादनतिदूर एव स्वशिबिरं निवेशयामास । प्रातश्च चारणभरत-बाहुबली अन्योन्यमतिथी इव युद्धोत्सवाय निमन्त्रयामासतुः।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89