Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 76
________________ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः सोमवंशः प्रावृतत् । भरतश्च ततो बाहुबलिं सपरिच्छदो नत्वायोध्यापुरीं जगाम । १२० तत्र च मुनिर्बाहुबलिरेको ध्यानमग्नो नासाग्रस्थिरदृष्टिः शङ्करिव निष्कम्पस्तस्थौ । स ग्रीष्मर्तौ वह्निकणानिवोष्णान् वालुकाकणान् ग्रीष्मर्त्तृवात्यां रविमापादप्रस्रवत्स्वेदबिन्दून्, प्रावृषि झञ्झानिलोग्रान् धारासारान् विद्युत्पातान् वारिपूरांश्च सेहे। मनागपि कायोत्सर्गतो न चचाल । हिमर्तौ च हिमसरिति हिमदग्धवृक्षासु रात्रिषु च ध्यानमग्नस्तस्थौ । तस्मिन् वन्यमहिषा विषाणप्रहारपूर्वकं स्कन्धकण्डूयनं व्यधुः । तस्य वपुश्च स्ववपुषाऽवष्टभ्य गण्डका निशि निद्रासुखमन्वभूवन् । पल्लवभ्रान्त्या तच्चरणं कर्षन्तोऽप्यशक्नुवन्तः करिणो विषादं ययुः । चमरीगणाश्च तमुत्कण्टकजिह्वाभिलिहन्ति स्म । तथा स शतशाखाभिताभिरभितोऽवेष्ट्यत । तं परितः शरस्तम्बा निबिडं प्ररोहन्ति स्म । प्रावृषि पङ्कनिमग्नयोस्तत्पादयोः कुशसूचयो निर्जग्मुः । लतावेष्टिते तच्छरीरे च शकुनयो नीडानि रचयामासुः । सर्पाश्च तत्र मयूरादित्रस्ताः समारोहन् । इत्थं निष्कम्पं ध्यानेन स्थितस्य विहरतो वृषभस्वामिन इव विनाऽऽहारमेको वत्सरो व्यतीयाय । अथ पूर्णे वत्सरे जिनेशो वृषभध्वजो ब्राह्मीसुन्दर्यावाहूया - ऽऽदिशत्-" बाहुबलिरिदानीं क्षीणप्रचुरकर्मा जातः । किन्तु मोहनीयांशस्य मानस्य सत्त्वात् केवलं नाऽऽप्नोति । युवयोर्वचसा स मानं तत्कालं त्यक्ष्यति । अतस्तस्योपदेशाय युवां गच्छतम् । तस्य समयो वर्त्तते" । ततस्ते द्वे तामाज्ञां शिरसाऽऽदाय प्रभोश्चरणौ नत्वा बाहुबलि प्रति चलिते । प्रभुस्तन्मानं ज्ञात्वाऽपि संवत्सरं यावदुपेक्षितवान् । यतोऽर्हन्तोऽगूढलक्ष्याः समये उपदेशका भवन्ति । ते आर्ये च तत्र गत्वा रजश्छन्नं रत्नमिव वल्लीपरिवेष्टितं तं न ददृशतुः । बहुशो ऽन्विष्य प्रथमं पर्व पञ्चमः सर्गः प्राप्य तं निपुणमुपलक्ष्य त्रिः प्रदक्षिणां कृत्वा वन्दित्वोचतु:"ज्येष्ठार्य ! तातस्त्वामाज्ञापयति यद् हस्तिस्कन्धाधिरूढानां केवलं नोत्पद्यते । एवमुदित्वा ते यथागतं जग्मतुः । १२१ ततो विस्मितो बाहुबलिरचिन्तयत्-"त्यक्तसर्वसावद्ययोगस्य कायोत्सर्गजुषो मम हस्तिस्कन्धारोहणं कुतः ? इमे भगवतः शिष्ये न मृषा कदाऽपि भाषेते । आ ज्ञातं, व्रतगरिष्ठानां नमस्क्रियां कः कर्त्तेति मानगजारूढोऽहमस्मि । तदिदानीमपि गत्वा तान् वन्दिष्ये" इति चिन्तयित्वा पादमुत्क्षिप्तवान् । लतावल्लीवदभितो घातिकर्मसु त्रुटितेषु तस्मिन्नेव स्थाने तस्य केवलज्ञानमुत्पेदे । ततः स प्रभुसमीपं जगाम । तीर्थकृतः प्रदक्षिणां विधाय तीर्थाय नत्वा तीर्णप्रतिज्ञ: केवलिपर्षदन्तर्निषसाद || इति प्रथमपर्वणि बाहुबलिसङ्ग्राम- दीक्षा- केवलज्ञानवर्णनात्मकः पञ्चमः सर्गः ॥ ५ ॥ क

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89