Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 74
________________ ११६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः श्चक्रिभुजस्य शृङ्खलाजालमाकर्षन्तश्चक्रिणा तेनैव भुजेन हृद्यङ्गरागं कुर्वता सहैव पातिताः । ततो भरतबलेन हष्यन्तस्ते तद्बाहुशृङ्खला दुःशङ्काश्च तत्यजुः । चक्री च भूयो गजरत्नारूढः समराङ्गणं प्राप । अथ जगत्क्षयनिवारणाद् मुदिता देवा रणभूमौ रजांस्यपनीय गन्धाम्बुवृष्ट्याऽभिषिच्य कुसुमानि ववृषुः । ततो गजादुत्तीर्य भरतबाहुबली गजाविव गर्जन्तौ रणभूमि प्रविष्टौ 'दृष्टियुद्धेन योद्धव्य'मिति प्रतिज्ञाय च सम्मुखावनिमेषाक्षौ तस्थतुः । परस्परं पश्यतोश्चिरं निश्चलविलोचनयोस्तयोर्भरतस्याऽक्षिणी न्यमीलताम् । तदा शिरांसि धुन्वाना देवा बाहुबलिनि पुष्पवृष्टिं चक्रुः । बाहुबलिनो विजये च सोमप्रभादयो वीरा हर्षकोलाहलं चक्रुः । जयतूर्याणि च सैन्यैरवाद्यन्त । भरतसैन्याश्च मन्दतेजसो बभूवुः। ततो बाहुबलि: "काकतालीयन्यायेन विजितमिति मा वदः, वाग्युद्धेनाऽपि युद्धस्वे"ति चक्रिणमवोचत् । चरणाहत: फणीव सामर्षों भरतो 'भवत्वेव'मित्युदित्वा मेघगर्जितमिव क्ष्वेडानादमकरोत् । बाहुबलिना चाऽप्यतिभैरवः सिंहनादो विदधे । एवं क्रमेणोभौ भरत-बाहुबली महाध्वनि चक्राते । तत्र क्रमेण भरतस्य शब्दोऽतिहीनोऽभवत् । बाहुबलेश्च सिंहनादः क्रमशोऽधिकाधिकं ववृधे । शास्त्रीयवाग्युद्धेऽप्येवं वादिना बाहुबलिना प्रतिवादी भरतो विजितः। ततस्तौ बाहुयुद्धार्थं परिकरं बबन्धतुः । तदा बाहुबलेरिपाल:-"पृथ्वि ! स्थिरा भव, शेषनाग ! दृढीभूय पृथिवीं धर, दिग्गजाः ! सावधानं पृथिवीं धत्त, यतो वज्रसारो बाहुबलिवज्रसारेण चक्रिणा योद्धुमधुनोत्तिष्ठते" इत्युच्चैरुवाच । ततो महामल्लौ तौ करास्फोटं विदधानौ मिथ आह्वासातां, सलीलपदन्यासं च प्रथमं पर्व - पञ्चमः सर्गः चेलतुः । तथाऽन्योन्यं गजाविव गर्जन्तौ कराभ्यां करावास्फालयामासतुः । क्षणेनाऽयुज्येतां, क्षणेन च व्ययुज्येताम् । क्षणेनोत्पेततुः, क्षणेन निपेततुश्च । ततोऽम दुभावपि धावित्वाऽङ्गेनाऽङ्ग पीडयन्तौ सस्वजाते । मल्लयुद्धज्ञयोस्तयोः क्षणादूर्ध्वमधश्च वेगाद् विपरिवर्त्तमानयोरसावधोऽसावुपरीति जनैर्न ज्ञातम् । तौ परस्परं बन्धं चक्रतुर्निरासतुश्च । मुहुः पृथिव्यां लुठनतो धूलिधूसरयोस्तयोः पदाघातेन मेदिन्यारराटेव । ततः क्रुद्धेन बाहुबलिनैकेन करेण गृहीत्वोत्क्षिप्तो भरतो व्योमनि दूरं जगाम । तमुत्पतन्तं वीक्ष्य रणेक्षिणो देवाः पलायामासुः । उभयोरपि सेनयोर्महान् हाहारवो जज्ञे। गगनाद् मेदिनीपृष्ठे पतित्वा कणशो मा विशीर्यतामिति विचार्याऽग्रजस्नेहेन बाहुबलिस्तद्ग्रहणाय गगनात् पततो भरतस्याऽधो भुजौ दधौ । कन्दुकलीलया च निपतन्तं तं जग्राह । भ्रातृरक्षणविवेकेन च जना बाहुबलिं तुष्टुवुः, सुराः पुष्पवृष्टिं चक्रुः । भरतश्च विषाद-कोपाभ्यां युगपदयुज्यत ।। ___अथ बाहुबलिरग्रजस्य विषादं हर्तुं सगद्गदमुवाच-"महावीर्य ! मा विषीद । युद्धे जय-विजयौ चक्रवत् परिवर्तेते । एतावता त्वं न पराजितो नवाऽहं विजयी । अतो रणायोत्तिष्ठस्व" । भरतोऽपि मुष्टि प्रगुणयन् "अयं मम दोर्दण्डो निजदोषमार्जनं करिष्यत्येवे"ति वदन् तेन मुष्टिना बाहुबलेर्वक्ष आजघान । स च मुष्टिप्रहारो बाहुबलेरुरस्यसत्पात्रे दानवद् मुधा जातः । ततो बाहुबलिरपि मुष्टिमुद्यम्य चक्रिणमुर:स्थलेऽताडयत् । तेन घातेन च मूच्छितो भरतो भूमौ पपात । ततो बाहुबलि "रग्रजश्चेद् न जीवेद् मम जीवितेनाऽप्यल"मिति शोचन् साश्रुनयन: स्वमुत्तरीयं व्यजनीकृत्य भरतं वीजयामास । ततश्चक्री क्षणादिव लब्धसंज्ञः समुत्थाय पुरतो भृत्यमिव स्थितं बाहुबलिं ददर्श ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89