Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 72
________________ ११३ meani ११२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मुद्दीपनाय पूर्वेषां वीरपुरुषाणां चरित्राणि स्मारयन्तो युद्धफलं कथयन्तो भ्रमुः। अथ बाहुबलि: स्नात्वा देवागारे देवचितुं प्रययौ । तत्र ऋषभस्वामिप्रतिमां भक्त्या गन्धवारिभिरस्नपयत् । दिव्यया गन्धकाषाय्या तां ममार्ज । यक्षकर्दमेन प्रतिमाया विलेपनं च चकार । तथा स विचित्रैर्माल्यैर्जिनमानर्च । सौवणे धूपदहने दिव्यं धूपं ददाह। ततः कृतोत्तरासङ्गो दीप्रप्रदीपकमारात्रिकं गृहीत्वोत्तार्य च प्रणम्य कृताञ्जलिः स्तुत्वा पुनर्नत्वा च देवागाराद् निरगात् । तथा वज्रकवचं परिधाय शिरसि शिरस्त्राणं निधाय पृष्ठे लोहनाराचपूरितौ तूणीरौ बद्ध्वा धनुरादाय पुरोहितैः स्वस्तीत्याशास्यमानो गोत्रवृद्धाभिर्जय-जयेत्युच्यमान, आप्तैनन्द-नन्देत्यभिनन्द्यमानो, बन्दिभिर्जय-जयेत्युच्यमानश्च महागजमारुरोह सः । इतश्च भरतोऽपि देवागारं गत्वा युगाधीशस्य प्रतिमां स्नपयित्वा, देवदूष्येण मार्जयित्वा, गोशीर्षचन्दनैर्विलिप्य, विकस्वरैः कमलैरर्चयित्वा, धूपं धूपयित्वा, आरात्रिकमुत्तार्य, नमस्कृत्य बद्धाञ्जलिः स्तुत्वा, भक्त्या पुनर्नत्वा च देवागाराद् निरीय कवचमङ्गे निवेश्य, शिरस्त्राणं शिरसि निधाय, पृष्ठे तूणीरौ बद्ध्वा, वामहस्तेन धनुरादाय च बन्दिवृन्दैः स्तूयमानः सो गजरत्नमारुरोह । ततो द्वावपि भरत-बाहुबली मागधेभ्यो द्रव्याणि प्रयच्छन्तौ, निजान् सैन्यान् पश्यन्तौ, बाणं बिभ्राणौ, रणवार्तां च कुर्वाणी स्वस्वसैन्यमध्यमाजग्मतुः । ततस्तयोः सैन्ये समपदन्यासं चेलतुः । केतुचिह्ररुपलक्ष्य नामग्राहं प्रतिवीरान् वृण्वन्तोऽन्योन्यमाह्वयमाना द्वयोः सैन्ययोरग्रसैन्या अग्रसैन्यैरमिलन् । यावच्च गजिनो गजिनां, सादिनः सादिनां, रथिनो रथिनां, पत्तयः पत्तीनां, प्रासं प्रासस्या प्रथमं पर्व - पञ्चमः सर्गः ऽसिमसेर्मुद्गरं मुद्गरस्य, दण्डं दण्डस्य चाऽऽमर्षाद् मेलयन्तः सैन्या डुढौकिरे, तावद् नभसि सम्भ्रान्ता गीर्वाणा: समुपागमन् । ते च देवा "भ्रात्रोर्भरत-बाहुबल्योर्विग्रहो नोचित" इति विचारयन्तो द्वयोः सैनिकान् प्रोचुः-"यावद् युष्माकं स्वामिनौ भरत-बाहुबली बोधयामस्तावदृषभस्वाम्याज्ञया भवद्भिर्न योद्धव्यम्" । तच्छ्रुत्वा ते सैनिका उभयेऽपि चित्रलिखिता इव तथैव तस्थुः । इमे देवा भरततो बाहुबलितो वेति चिन्तयामासुश्च ते सैनिकाः । देवाश्च "कार्यं किमपि न नष्टं, सम्प्रति लोकाय भद्र"मिति ब्रुवाणाः प्रथमं चक्रिणमुपाजग्मुः । ___ततो जय-जयेत्याशीर्वादं दत्त्वा तमूचुः-"चक्रिन् ! षट्खण्डे भरतक्षेत्रेऽप्रतिभूपो भूपो भवान्, किन्तु स्वभ्रात्रा युद्धं तु स्वहस्तेन स्वहस्तस्य ताडनमेव । किं च युवयोर्युद्धं जगतां नाशायैव सम्पद्येत । करुणावरुणालयस्य वृषभस्वामिन आत्मजयोर्युवयोयुद्धं सुधाकरकरादग्निवृष्टिरिवाऽत्यन्तमनुचितम् । तस्मादस्माद घोरात् सङ्ग्रामाद विरम । निजं निकेतनं व्रज । त्वयि याते तवाऽनुजोऽपि यास्यति । युवाभ्यामुभयेभ्य: सैन्येभ्यश्च शुभं भवतु । भवतोयुद्धविरामेण जगन्त्यपि सुखं तिष्ठन्त्वि"त्युदित्वा विरतेषु देवेषु भरत उवाच"इमां विश्वहितां वाचं भवतो विनाऽन्ये के ब्रूयुः? किन्तु युद्धकारणमन्यथा, भवद्भिश्चाऽन्यथा विचारितम् । भरतक्षेत्रे न कोऽपि प्रतिमल्लो मम । बाहुबलिस्त्वहमेव । भाग्यवशादेव पृथग्जन्म । स मां प्रति सदैव विवेकी विनयी च । किन्तु स मम राज्याभिषेके नाऽऽगतवान् । ततो दूतः प्रेषितः, स्वयं च लोभ-कोपाभ्यां विनाऽऽहूतः । तथाऽपि नाऽऽगतवान् । तमन्यादृशमिव जातं वीक्षे । एतच्चक्रं चैकस्मिन्नपि तस्मिन्ननागतेऽन्तर्न प्रविशति । अतः स मम भ्रातैकवारमप्यायातु । अन्यामप्यूर्वी गृह्णातु । अनुजेन नतेनाऽनतेन

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89