Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्माभिरागतैर्लज्जिष्यते । तस्मादस्माकं तत्र गमनं नोचितम् । कनिष्ठाश्चाऽन्ये भ्रातरो 'ज्येष्ठेन भ्रात्रा युद्धमनुचित' मिति तातपादाननुययुः । अहं तु न तथा भ्रातृविनयी । गुरुर्हि गुरुगुणैर्हीनो लुब्धश्च न विनयास्पदम् । तस्य सेनानीः स स्वयं वा न मम तेजस्विनो भयायाऽलम् । स हि भरतो बाल्ये पादयोर्गृहीत्वा गगने प्रक्षिप्तो दूरं गत्वा भुवि पतन् 'प्राणहीनो मा भूदिति मया पुष्पवद् गृहीतः, तत् तेन न विस्मर्तव्यम्। ततो याहि दूत !, बाहुबलिर्न कस्यापि सेवको भविता" ।
१०८
ततो मनसि क्षुब्धोऽपि धैर्यमालम्ब्य समुत्थाय च सुवेगस्तस्मात् सभाभवनाद् निर्गतः । तथा क्रुद्धस्य बाहुबलिनस्तारशब्दानुमानतः सैनिकैः पदे पदे स्वमृत्युमिव पश्यन् सत्वरं सिंहद्वाराद्निर्ययौ । त्वरितं रथमारुह्य च "अन्यनृपसामान्यां सेवां कारयितुं बाहुबलिनमाह्वयति भरतः । तस्य चक्रवर्तित्वाभिमानोऽ संचूर्णयिष्यते" इत्येवमादि नागराणां कर्णकटुसम्भाषणं शृण्वन्नगराद्निर्जगाम । गच्छंश्च जनपदे सर्वत्र भरत - बाहुबलिनोर्विग्रहकथामशृणोत् । सर्वत्र च बाहुबलौ नृपे भक्तिमतो मिथः स्पर्धयेव जानपदान् जनान् युद्धाय सज्जीभवतो ददर्श । तेषां ससंरम्भं युद्धोद्योगं पश्यन् सुवेगश्चिन्तयामास - " अत्र सर्वे रणाय त्वरन्ते, कोऽपि तादृशो नाऽस्ति, यो युद्धाय न सज्जति । बाहुबलिसैन्याग्रे चक्रिसैन्यं लघ्विव प्रतिभाति । अस्य बाहुबलिनोऽग्रे चक्रमपि विफलमेव मन्ये । ततोऽनेन विरोधिता दुष्परिणामा । सति च युद्धे दूतभावेनाऽत्राऽहमेव दूषितः स्या" मित्येवमादि चिन्तयन् स कतिपयैर्दिवसैर्विनीतां प्राप्य द्वारपालेन सभायां नीतः प्रणम्योपविष्टश्च चक्रिणा पृष्ट:- " किं मदनुजो बाहुबलिः कुशली ? यत् त्वं शीघ्रमेव प्रत्यागतोऽसि तेन क्षुभितोऽस्मि" ।
प्रथमं पर्व पञ्चमः सर्गः
ततः सुवेगो जगाद-“त्वदनुजस्य बाहुबलिनो देवोऽप्यकुशलं कर्तुं न क्षमः । त्वत्सेवार्थं सविनयं स मयोक्तः, किन्तु स न मन्यते । स त्रैलोक्यमपि तृणाय मन्यते । तथा ममोपेक्षयैव भरतो भरतक्षेत्रषट्खण्डमग्रहीदिति कथयति, सेवायास्तत्र का वार्ता ? प्रत्युत रणायैव स देवमाह्वयते । स तस्य कुमाराः सामन्ता, मन्त्रिणः, पौरा, जानपदा, वनेचराश्च सर्वे एव मानिनोऽन्यविक्रमं सोढुं न प्रभवन्ति । अलं बहूक्तेन, स वीरो नोत्कण्ठया, किन्तु युयुत्सया त्वां दिदृक्षते । अतः परं देवः प्रमाणम् । दूता न मन्त्रिणः, किन्तु सत्यसन्देशवक्तारः"।
१०९
ततो युगपद् विस्मयामर्षसमन्वितो भरतोऽब्रवीत्- “सुरासुरादिषु कोऽपि न तत्तुल्यः, एतच्च शिशुक्रीडास्वनुभूतमेव । स त्रिलोकीमपि तृणाय मन्यत इति वास्तवमेव । तेनाऽनुजेनाऽहं सर्वथा श्लाघ्योऽस्मि । स न कस्याऽपि वश्यो भवितुमर्हति । तस्य दुर्वि - नयानप्यहं सहिष्ये । यदि लोका मामसमर्थं वदिष्यन्ति वदन्तु । तादृशो हि भ्राता सर्वथा दुर्लभः । मन्त्रिणः किं तूष्णीं स्थिता: ? ममैष विचारो युक्तो नवेति ब्रुवन्तु" ।
ततः सेनापतिर्भरतस्य क्षमया बाहुबलेरविनयेन चाप्रीत उवाच - "ऋषभस्वामिनः सूनोस्तव क्षमा युज्यत एव किन्तु सा करुणापात्रे, नाऽन्यत्र । यो यस्य ग्रामेऽपि वसति, स तस्याऽधीनो भवति । अयं तु देशमपि भुञ्जानो वचनेनाऽपि न वशे तव । तेजोवधविधायकश्च भ्राता न भ्राता मतः । राजानो हि सर्वथा स्वतेजो रक्षन्ति । तेजोरक्षणायैव च षट्खण्डविजयस्त्वया कृतः । एकत्राऽपि तवाऽविजयो भरतक्षेत्रविजयं लोपयति । एकत्राऽपि हि लुप्तशीला सत्यसत्येव कथ्यते । किं च, नहि चक्रिणः प्रतिस्पर्धी

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89