Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मुक्तामयालङ्कारभूषितः, किरीटशोभितो, वारनारीवीज्यमानचामरद्वयविराजितः, स्वर्णकुम्भयुतेन श्वेतातपत्रेण शोभितः, सर्वदा समीपस्थैः प्रतीहारैरिव भक्तैः षोडशभिर्यक्षसहस्रैः परिवारितो वासव ऐरावणमिवाऽत्युत्तुङ्ग रत्नकुञ्जरमारोहत् ।
तदा पाणीनुत्क्षिप्य बन्दिवृन्दैर्युगपज्जयजयारावश्चके । दुन्दुभिस्ताड्यमानो नदन् दिशोऽपि नादयामास । सकलसैनिकाह्वानसूचकानि मङ्गलान्यपराण्यपि तूर्याणि प्रणेदुः । ततो नृपः सिन्दूरालङ्कृतकुम्भैर्गजैरश्वैर्महारथैर्महौजोभिः पत्तिभिश्च सह सैन्योत्थैः पांशुभिदिशां वासस्तन्वान इव पूर्वं पूर्वां दिशं प्रति प्रतस्थे । तदानीं यक्षसहस्राधिष्ठितं चक्ररत्नं तत्सैन्याग्रेसरं बभूव । ततः सेनानीरत्नं सुषेणो दण्डरत्नधरो वाजिरत्नमारुह्याऽचलत् । निःशेषशान्तिक विधौ मूर्तिमान् शान्तिमन्त्र इव पुरोधोरत्नं नृपेण सहाऽचलत् । सैन्ये प्रतिशिबिरं दिव्यभोजनसम्पादनसमर्थं जङ्गमा सत्रशालेव गृहिरनं चाऽचालीत् । तथा स्कन्धावारादि निर्मातुं वर्धकिरत्नं, सकलस्कन्धावारविस्तारसमर्थे चर्मरत्रच्छत्ररत्ने, ध्वान्तविध्वंसनक्षमे मणि-काकिण्यौ रत्ने, भासुरं खड्गरत्नं च नृपेण सह प्रचेलुः ।
ततः स भरतः पथि सेनया सहितश्चक्रमनुजगाम । अनुकूलेन पवनेनाऽनुकूलैः शकुनैश्च सर्वतस्तस्य दिग्विजय: सूचितः । सैन्यस्य पुरतो व्रजन् सेनानीर्दण्डरत्नेन विषमं मार्ग सुषमीचक्रे । आकाशं सैन्योत्थरजोभिः पताकाभिश्च व्याप्तम् । भरतस्य सा चमूरदृश्यमानान्ताऽप्रतिहतगतिद्वितीया गङ्गेवाऽलक्षि । तच्चक्रं च गत्वा योजनान्ते समवास्थित । तत्प्रयाणानुसारेण तत्प्रभृति योजनमानं लोके प्रवृत्तम् । एवं योजनमानेन प्रमाणेन व्रजन् नृपः कतिपयैदिवसैर्गङ्गाया दक्षिणतटं प्राप्तः । तत्र च विविधानावासान् विधाय व्यश्रमत् ।
प्रथमं पर्व - चतुर्थः सर्गः
८७ ततोऽहोरात्रे व्यतिक्रान्ते पुनः प्रभाते चक्रं चक्रवर्ती चैकं योजनं जगाम । एवं प्रतिदिनं गच्छन् स मागधं तीर्थं प्राप्तवान् । तत्र पूर्वाब्धितटे नवयोजनविस्तारं द्वादशयोजनदीर्घ स्कन्धावारं निवेशयामास । तत्र वर्धकि: सैन्यानामावासानेकां पौषधशालां च रचयामास । नृपश्च पौषधशालायामनुष्ठानार्थं गजस्कन्धादुत्ततार । तथा तत्र दर्भसंस्तारकमास्तीर्य मागधतीर्थकुमारं देवं ध्यात्वाऽष्टमभक्तं प्रपेदे । तथा स धौतवस्त्रधरस्त्यक्तसर्वनेपथ्यादिः पौषधमाददे । तस्मिन् दर्भसंस्तारके च पौषधं प्रति जाग्रद् निष्क्रियस्तस्थौ । अष्टमान्ते च नृपः पौषधं पूरयित्वा स्नात्वा च यथाविधि बलिक्रियां चकार । ततः पताकाशस्त्रादिसनाथं रथमारुह्य पाथोधि प्रति जगाम । तथा स रथेनाऽम्भोधेरम्भो नाभिदघ्नमवगाह्य पाणिस्थं धनुरधिज्यं विधाय ज्यामाकृष्य टारं विधाय स्वनामाङ्कितं बाणमिषधेराकृष्य शिजिन्यां संयोज्याऽऽकर्णान्तमाकृष्य बहिर्मध्ये मुखे पुझे च नागासुरसुपर्णादिदेवताधिष्ठितं तमभि मागधतीर्थेशं विससर्ज । स बाणश्च क्षणेन द्वादश योजनान्यतिक्रम्य मागधेशस्य सभायामपतत् । मागधेशश्चाऽकाण्डबाणपातेनोच्चैश्चुकोप । “क: कुधीरस्माकं सदसि शरं चिक्षेपे"ति वदन् रभसादुत्थाय कोशात् खड्गमाकृष्य व्योम्नि भ्रमयामास । तस्य परीवारोऽपि सकल: सकोपो युगपदुत्थितः । ते स्वं स्वं खड्गादिक मस्रमादाय च'जहि जहि"धर धर"तिष्ठ तिष्ठे'त्यादि सरभसमुच्चेरुः ।
तावदेव तस्य मागधेशस्याऽमात्यो बाणं सम्यग् निरूप्य तत्र लिखितानि "यदि वो राज्येन जीवितेन वा प्रयोजनं, ततः स्वसर्वस्वोपढौकनपूर्वकं न: सेवां कुरुध्वमिति वृषभस्वामिनः सूनुर्भरतश्चक्रवर्ती साक्षादादिशती"त्यक्षराणि दृष्ट्वाऽवधिना तद् विज्ञाय च राजानं तं बाणं दर्शयन्नुच्चैरुवाच-"भो भो राजलोकाः ! रभसकारिणो वो धिक् ! वृषभस्वामिनः सूनुर्भरतो भरतक्षेत्रे प्रथमश्च

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89