Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इति प्रार्थयामासुश्च । भरतोऽपि तदुपायनं स्वीकृत्य तान् सत्कृत्य विसर्जयामास । एवं गिरि-सागरान्तं सिन्धोरुत्तरनिष्कुटं नृपाज्ञया साधयित्वा सुषेणः समाययौ । तत्र भोगान् भुञ्जानो महीपतिश्चिरं तस्थौ । __ अन्यदा नृपस्याऽऽयुधशालाया भास्वरं चक्रं निरक्रामत् । क्षुद्रहिमवगिरि प्रति गच्छतस्तस्य मार्गेण नृपोऽपि ययौ । कतिभिः प्रयाणकैः स क्षुद्रहिमाद्रेर्दक्षिणं नितम्बं प्राप । तत्र च भूर्ज-देवदादिव्याप्ते वने शिबिरं संस्थाप्य क्षुद्रहिमवत्कुमारमुद्दिश्य नृपोऽष्टमं
चकार । अष्टमभक्तान्ते च शिबिराद् निर्गत्य वेगतो गत्वा क्षुद्रहिमाद्रि रथशीर्षेण त्रिरताडयत् । तथा वैशाखस्थानकस्थितो नृपो हिमाद्रिकुमाराय निजनामाङ्कितं शरं मुमोच । स शरश्च द्वासप्तति योजनानि विहायसा गत्वा हिमाद्रिकुमारस्य पुरोऽपतत् । स तं शरमालोक्य क्रद्धोऽपि तं करेण गृहीत्वा तत्र भरतनामाऽक्षराणि दृष्ट्वा शशाम । तथा स तं शरमुपायनानि चाऽऽदाय नृपमुपाजगाम । अन्तरिक्षस्थितो नृपाय जय जयेत्युक्त्वा तं शरं देववृक्षपुष्पमालां गोशीर्षचन्दनं सर्वोषधीहूंदजलं बाहुरक्षकान् कटकान् देवदूष्यांशुकानि च समर्पयामास । "स्वामिन् ! उत्तरदिक्प्रान्ते तवाऽऽयुक्त इवाऽहमस्मी"त्युक्त्वा विरतो नृपेण सत्कृत्य व्यसृज्यत ।
तत: स ततोऽद्रे रथं वालयामास । ऋषभकूटाद्रिं गत्वा च तं रथशीर्षेण त्रिर्हत्वा तत्र रथं स्थापयित्वा पाणिना काकिणीरत्नमाददे । ततोऽवसर्पिण्यां तृतीयारप्रान्ते चक्री भरतोऽस्म्यह"मित्यक्षराणि तत्पूर्वकटके लिखित्वा निजं शिबिरमागत्याऽष्टमभक्तान्तपारणं विधाय क्षुद्रहिमवत्कुमारस्याऽष्टाह्निकोत्सवं चक्रे ।
ततः ससैन्यो भरतश्चक्रानुगो वैताढ्यपर्वतं प्राप । तस्योत्तरनितम्बे शिबिरं सन्निवेश्य नमि-विनम्याख्यविद्याधरेश्वरद्वयं प्रति दण्डयाचकं बाणं मुमोच । तं बाणं विलोक्य तौ विद्याधरेश्वरौ क्रुद्धौ
प्रथमं पर्व - चतुर्थः सर्गः मिथोऽमन्त्रयताम्-"जम्बूद्वीपस्य भरते वर्षे उत्पन्नो भरतः प्रथमश्चक्री ऋषभकूटाद्रौ स्वं नाम लिखित्वा ततो वलितोऽत्राऽऽगतवान् । अस्य वैताढ्यगिरेः पार्श्वे कृतशिबिरो जयाभिमानी अस्मत्तोऽपि दण्डजिघृक्षया शरं चिक्षेपे"ति मन्ये । ततस्तयोराज्ञया विद्याधरसैन्यान्युपाययुः । कृतकिलकिलारावा, विचित्ररत्नाभरणा, व्योम्न्यस्खलद्गतय, उदग्दक्षिणश्रेणिस्थभूमिग्रामपुराधिपा, विद्याधरेन्द्रभृत्या नमि-विनमिभ्यां सह प्रस्थितवन्तश्च । तौ च सन्नद्धौ युयुत्समानौ वैताढ्यादुत्तीर्य भरतेश्वरमुपाजग्मतुः ।
ततो भरतस्तं विद्याधरबलं व्योमन्यपश्यत् । तौ विद्यादृप्तौ विद्याधरेन्द्रौ "त्वं दण्डमस्मत्तो जिघृक्षसी"ति सोपहासं भाषमाणौ युद्धाय भरतमाह्वयेताम् । ततो भरतः ससैन्याभ्यां ताभ्यां प्रत्येक युगपच्च विविधैर्युद्धैर्युयुधे । द्वादशवाषिकेण युद्धेन च जितौ विद्याधरेन्द्रौ प्राञ्जली नृपं प्रणिपत्य "न कोऽपि त्वत्तः परः शूरः, अज्ञानात् त्वया सह युद्धः कृतः, क्षमस्व, अत्र त्वदाज्ञया दुर्गपालाविव स्थास्याव" इति समप्रार्थयताम् । ततो विनम्य च विनमिः कृताञ्जलि: सालङ्कारां सपरिजनां सर्वाङ्गसुन्दरीं स्त्रीरत्नं सुभद्रां स्वदुहितरं भरताय समर्पयामास । नमिश्चाऽपि महा_णि रत्नानि नृपायाऽदात् । ततो राज्ञा सत्कृत्य विसृष्टौ तौ विरक्तौ राज्यानि पुत्रेष्वारोप्य प्रथमजिनपादमूले व्रतं जगृहतुः ।
ततोऽपि प्रस्थितं चक्ररत्नमनुगच्छन् भरतो मन्दाकिनीतटं प्राप्य गङ्गासदनस्याऽनतिदूरे सैन्यान्यावास्य गङ्गां सिन्धुवदुत्तीर्य सेनापतिना सुषेणेन गङ्गोत्तरनिष्कुटं साधयित्वाऽष्टमभक्तेन गङ्गामपि प्रासादयत् । गङ्गा च राज्ञे रत्नसिंहासनद्वयमष्टोत्तरं रत्नकुम्भसहस्रं च प्रदाय भरतं दृष्ट्वा क्षोभं गता प्रेमगद्गदया वाचा तं भृशमभ्यर्थ्य रिसमाना सा तं रतिनिकेतनमानीतवती । तया सह विविधान् भोगान् भुञ्जानो नृप एकाहमिव वर्षसहस्रमत्यवाहयत् ।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89