Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्थास्याम" इति सेनापतिमूचुश्च । ततश्चमपतिस्तान् नृपान् यथार्ह सत्कृत्य विसृज्य च पूर्ववत् सिन्धुनदीमुत्तीर्य म्लेच्छेभ्य आहृतं सर्व तं दण्डं चक्रिणे उपढौक्य तेन चक्रिणा सप्रसादं सत्कृतो विसृष्टश्च प्रहृष्टो निजावासमगमत् । भरतश्च तत्राऽयोध्यायामिव सुखमस्थात् । __ अथाऽन्येद्यु पश्चमपतिमाहूय "तमिस्रायाः कपाटद्वयमुद्धाटये"त्यादिशत् । चमूपतिश्च नृपतेस्तदाज्ञां शिरसाऽऽदाय तमिस्राया नातिदूरे गत्वा कृतमालदेवं ध्यात्वाऽष्टमतपश्चक्रे । ततश्चमूपतिः स्नात: परिहितश्वेतवस्त्र: स्नानगृहाद् निर्गत्य सुषेणः सौवर्ण धूपदहनं पाणिना बिभ्रत् तमिस्राद्वारमागत्य कपाटौ दृष्ट्वा प्रणम्य चाऽष्टाह्निकोत्सवे विदधे । ततोऽखण्डैस्तण्डुलैरष्टमङ्गलीमालिख्य स्वहस्तेन दण्डरत्नमादायाऽऽजिघांसुः सप्ताष्टपदान्यपसृत्य तेन दण्डेन कपाटौ त्रिरताडयत् । कपाटौ च तडत् तडदिति कुर्वाणौ वज्रनिर्मितावुज्जघटाते । तत: सेनापतिरुदग्भरतखण्डानां जयप्रस्थानमङ्गलं कपाटोद्घाटनं राज्ञे व्यजिज्ञपत् ।।
ततो नृपो हस्तिरनं समारूढस्तमिस्रागुहायामागत्य यक्षसहस्रेणाऽधिष्ठितं, सर्वोपसर्गनिवारकं, दुःखरोगादिप्रशमनं, भास्करवदुद्योतकं, चतुरङ्गुलं मणिरत्नमादाय गजस्य दक्षिणे कुम्भस्थले तद् निदधे । चतुरङ्गसेनाभिरनुगतश्चक्रानुगो गुहाद्वारं प्रविश्याऽष्टसुवर्णप्रमाणं, षट्तलं, द्वादशास्त्रिकं, समतलं, मानोन्मानप्रमाणयोगसंयुतमष्टकणिकं, द्वादशयोजनान्धकारनाशकमधिकरणीसंस्थानं, यक्षसहस्रेणाऽधिष्ठितं, सूर्यादिप्रभं, चतुरङ्गुलं काकिणीरत्नमाददे । तेन गुहाया द्वयोःपार्श्वयोर्योजनान्ते योजनान्ते धनुःपञ्चशतायामानि प्रत्येकमेकयोजनोद्योतकारीणि यावच्चक्रिजीवितस्थायीन्येकोनपञ्चाशन्मण्डलान्यालिखन् ययौ नृपः । चमूश्चाऽपि तेषां मण्डलानां प्रकाशेनाऽप्रस्खलिता सुखं सञ्चचार । नृपस्तमिस्राया मध्यभागे चोन्मग्ना-निमग्ने नद्यौ प्रापत्।
प्रथमं पर्व - चतुर्थः सर्गः ययोरेकस्यां तुम्बीफलमिव शिलाऽप्युन्मज्जति, अन्यस्यां च शिलेव तुम्बीफलमपि निमज्जति । ते च तमिस्त्रायाः पूर्वभित्तेनिर्गते नद्यौ प्रतीच्या भित्तेमध्येन सिन्धौ सङ्गच्छतः । ततो वर्धकिस्तयोर्नद्योः क्षणेन पाषाणैः पाणिवत समतलां वज्रवद् द्रढीयसीं पद्यां निरमासीत् । ततो दुस्तरे अपि ते नद्यौ सुखेनैव ससैन्यो नृप उत्ततार । एवं क्रमाद् गच्छन् नृपः सेनया सह गुहाया उत्तरं द्वारं प्राप्तवान् । तद्द्वारकपाटौ च सरत्सरिदितिशब्दं कुर्वाणौ क्षणात् स्वयमेवोद्घटितौ गुहापार्शभित्तिभ्यां संश्लिष्य संस्थितौ । ततः प्रथमं चक्रं, ततस्तदनुगो नृपः क्रमशो गजा वाजिनः स्यन्दना: पत्तयश्च निर्जग्मुः । एवं पञ्चाशद्योजनायामां तां कन्दरामतिक्रम्योदग्भरतवर्षार्धं विजेतुं नृपः प्राविशत् ।
अथ तत्र दुर्मदा आढ्या महौजसो दीप्ता अपरिमितहर्म्यवाहनादिमन्तोऽनल्पस्वर्णादिद्रव्या-ऽनेकपशु-दासादिपरिच्छदाः प्रायोऽजाताभिभवा अनेकयुद्धेषु पराक्रमिण आपाता नाम्नः किराता निवसन्ति स्म । भरते प्रसह्य कृतान्त इवाऽऽगच्छति च तेषामनिष्टशंसिनो भूमिकम्प-दिग्दाह-रजोवृष्टि-दुर्वातोल्कापात-वज्रनिर्घात-काकचिल्लादि-नभोभ्रमणादिरूपा उत्पाता जज्ञिरे । ते च किराताः ससैन्यं सन्नद्धं भरतमागच्छन्तं दृष्ट्वा नितरां चुकुपुः । ते मिथो मिलित्वा "कोऽयं मृगः सिंहगुहामिवाऽस्मद्विषयमायाति ? एवं क्षणाद् दिशोदिशि क्षिपाम''इत्युच्चैर्बुवाणा भरतं प्रति युद्धायोदतिष्ठन्त । कवचशिरस्त्राण-कोदण्ड-खड्ग-दण्ड-कुन्त-शूल-मुद्गरादिशस्त्राण्यादाय च भरतं प्रति युगपदेवाऽभ्यधावन् । भरतस्याऽग्रसैन्येन सार्धं योद्धं प्रवृत्तास्ते शस्त्राणि सर्वतोऽवर्षन् । भरतस्याऽग्रसेनायां स कोऽपि नाऽऽसीद् यः किरातानां शिलीमुखैर्न भिन्नः । म्लेच्छसैन्येन पर्यस्तं भरताग्रहयसैन्यं पश्चादवलत् । चक्रिणः करिणो विरसस्वरं रसन्तस्त्रेसुः। पत्तयो दण्डायुधाहता: पेतुः। गदाघातै रथा अभज्यन्त ।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89