Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ mommmm...८१ ८८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्रवर्त्यभूत् । स एष दण्डं याचते, वो निजं शासनं च धापयितुमिच्छति । स चक्रवर्ती महीतले कथञ्चनाऽपि न जेतव्यः । देव ! ततोऽयं लोको वार्यताम् । दण्डः प्रगुणीक्रियताम् । चक्रवर्ती च प्रणम्यताम्"। तां मन्त्रिवाचमाकर्ण्य तान्यक्षराणि दृष्ट्वा च स शान्तो बभूव । तत उपायनं तं चेषुमादाय मागधाधीशो भरतमुपेत्य नत्वा च व्यजिज्ञपत्-"भूपते ! दिष्ट्याऽधुना दृष्टिपथं प्राप्तोऽसि, प्रथमतीर्थकृद् वृषभस्वामीव भवान् प्रथमश्चक्रवर्ती भुवि विजयते । तव कः प्रतिमल्लो भवतु ? तव धनुर्मुक्तं बाणं कः सहिष्णुः? प्रसादं कुवंता त्वया मम प्रमत्तस्य कर्तव्यज्ञापनायैव वेत्रधरवदिषः प्रेषितः। अतः परमहं त्वदाज्ञां शिरोमणिमिव मर्धनि धारयिष्यामि. स्वामिन ! निश्छलभक्तियुक्तोऽस्मिन् मागधतीर्थे त्वयाऽऽरोपितः स्थास्यामि । अहं मम सर्वः परिच्छदश्च तवैव, नः शाधि" इत्युक्त्वा स तं बाणं मागधतीर्थजलं किरीटं कुण्डले च चक्रिणे समर्पयामास । भरतश्च तत् सर्वं स्वीचकार, तं मागधेशं च सच्चकार । ततो रथं वालयित्वा तेन मार्गेणैव भरतो निजस्कन्धावारमगात् । तत्र रथादवरुह्याऽङ्गं सम्मााऽष्टमभक्तपारणं चकार सः । तदा मागधनाथस्य महाऽष्टाह्निकोत्सवं च कारयामास । अथाऽष्टाह्निकोत्सवान्ते चक्ररत्नं व्योम्नि प्रस्थितम् । ततः दक्षिणस्यां वरदामतीर्थं प्रति ययौ । धातुमुपसर्ग इव तच्चक्रं भरतोऽप्यन्वगात् । योजनमानेन प्रयाणेन गच्छंश्च क्रमान्मानसं हंस इव स दक्षिणाब्धि प्रापत् । तत्रैला-लवङ्ग-लतादिसघने दक्षिणाब्धितटे सैन्यानि व्यश्रमयत् । वर्धकिश्च नृपशासनात् पूर्ववदावासान् पौषधशालां च रचयामास । ततो नृपो वरदामाधीशं ध्यात्वा पौषधमाद। पौषधान्ते च पौषधगृहाद् निर्गत्य धनुरादाय स्वर्णरचितं रथमारुह्य रथाङ्गनाभिद्वयसं जलनिधेर्जले गत्वा तस्थौ । तत्र च धनुरधिज्यं प्रथमं पर्व - चतुर्थः सर्गः विधाय ज्याटङ्कारं च कृत्वा शरं वरदामाधिपं प्रति विससर्ज । स च बाणो द्वादशयोजनी गत्वोल्केव वरदामेशपर्षद्यपतत् । तं पतितं बाणं वीक्ष्य च क्रुद्धो वरदामेशः "केनाऽऽसन्नमृत्युनाऽद्य मम पर्षदि बाणो रभसात् क्षिप्तः? तमनेनैव बाणेन हन्मी"ति ब्रुवन्नुत्थाय तं बाणं पाणिनाऽऽगृहीतवान् । तत्र लिखितान्यक्षराणि मागधेशवत् संप्रेक्ष्य नागदमनीं दृष्ट्वा सर्प इवोपशान्तो भृत्यानुपायनान्यानेतुं समादिशत्। ततस्तं शरं दिव्यान्युपायनानि चाऽऽदाय भरतमुपगत्वा नत्वा "अद्य प्रभृति त्वया स्थापितोऽहं स्थास्यामी"ति सम्प्रार्थ्य तं बाणं रत्नमयकटीसूत्रं मुक्ताराशि च भरतस्य पुरतो ढौकयामास सः । भरतश्च तत् सर्वं स्वीकृत्य वरदामेशमनुगृह्य पुनस्तत्रैव स्थापयामास । तमाभाष्य सप्रसादं विसृज्य च निजं शिबिरं जगाम । तत्र रथादवतीर्य स्नात्वा परिजनैः सहाऽष्टमभक्तान्तपारणं विधाय वरदामेशमहत्त्वदानायाऽष्टाह्निकोत्सवं चकार । अथ प्रतीची प्रति ततश्चक्रानुग: प्रभासं प्रति प्रतिष्ठमानः कतिपयदिवसैः पश्चिमं पयोधि प्राप । तत्र क्रमुक-नालिकेरादिमनोहरे तटे स्कन्धावारं निवेश्य प्रभासनाथमुद्दिश्य पूर्ववदष्टमभक्तं पौषधं च जग्राह । पौषधान्ते च रथमारुह्य चक्रनाभिदघ्ने पयोधिजले गत्वा धनुरधिज्यं विधाय टङ्कारशब्दं कृत्वा शरं संयोज्याऽऽकृष्य च प्रभासेशाभिमुखं चिक्षेप । द्वादशयोजनीमुल्लङ्घ्य स्वपर्षदि पतितं तं बाणं प्रेक्ष्य प्रभासेशः क्रुद्धोऽपि तत्र लिखितान्यक्षराणि संप्रेक्ष्योपाशाम्यत् । ततस्तं बाणमुपायनं चाऽऽदाय गत्वा नत्वा "सामन्त इव त्वच्छासनं मूर्ना सर्वदा धारयिष्यामी"ति सम्प्रार्थ्य तं शरं कटकानि कटीसूत्रं चूडामणि वक्षःस्थलमणि निष्कादि च समार्पयत् सः । भरतश्च तत् सर्वं स्वीकृत्य तं तत्रैव स्थापयित्वा स्वस्कन्धावारमागत्याऽष्टमपारणं विधाय प्रभासदेवस्याऽष्टाह्निकोत्सवं विदधे ।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89