Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 58
________________ चतुर्थः सर्गः इतश्च भरतश्चक्रस्योत्कण्ठित आयुधागारं ययौ । तत्राऽऽलोकनमात्रेण चक्रं प्रणनाम । तत्र रजोभावेऽपि भक्त्या रोमहस्तकमादाय तं प्रमृज्य पवित्रैर्जलैः स्नपयित्वा गोशीर्षचन्दनस्तत्र स्थासकान् दत्वा गन्ध-पुष्प-वस्त्र-भूषणादिभिः पूजयामास । तदने रौप्यैस्तन्दुलैरष्टमङ्गली लिखित्वा पञ्चवर्णपुष्पैश्चोपहारं प्रकल्प्य दिव्यचन्दन-कर्पूरमयं धूपं दत्त्वा त्रिः प्रदक्षिणीकृत्य सप्ताष्टपदान्यपसृत्य वामं जानु समाकुञ्च्य दक्षिणं च जानु भूमौ न्यस्य भरतस्तं चक्रं नमश्चक्रे । तथा तत्रैव कृतावासश्चक्रस्याऽष्टाह्निकोत्सवं चकार चक्री । तथा तदनुसारेण पौरैरपि महद्धिभिश्चक्रपूजोत्सवश्चक्रे। अथ तस्य चक्ररत्नस्य दिग्विजयरूपमुपयोगमादित्सुनृपो मङ्गलस्नानार्थं स्नानागारं जगाम । तत्राऽऽभरणानि विमुच्य स्नानीयवस्त्रं परिधाय स्नानसिंहासने प्राङ्मुखः समुपाविशत् । ततः कलाविदो मर्दनीया-ऽमर्दनीयस्थानविज्ञाः संवाहकनरा: सुगन्धिभिः सहस्रपाक प्रमुखैस्तैलैरभ्यज्य मृदु-मध्य-दृढैः करैश्चतुभिर्मासा-ऽस्थि-त्वग्रोमसुखकरैश्चतुर्विधाभिः संवाहनाभिर्नृपं संवाहयामासुः । तथा सूक्ष्मेण दिव्यचूर्णेनोद्वर्त्तयामासुः । तदानीं काश्चित् स्वर्णकुम्भान्, काश्चिदिन्द्रनीलमयान्, काश्चिद् दिव्यरत्नमयान् कुम्भान् बिभ्रत्यः स्त्रियः सुगन्धिभिः पवित्रजलधाराभिर्नृपं स्नपयामासुः । ततः कृतस्नानः, कृतदिव्यविलेपनः, शुभ्रवस्त्रशोभितो, ललाटे मङ्गल्यं तिलकं दधत्,

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89