Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ ८४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रौद्गीतमङ्गलमन्वीयमानो बलिः समवसरणे पूर्वद्वारेण प्रविश्य प्रभु प्रदक्षिणीकृत्य पुरोऽक्षिप्यत । अन्तरिक्षाद् निपततस्तस्याऽर्धमन्तराल एवाऽमरैर्भूमिगतस्य च तस्याऽधं भरतेन, शेषं शेषैर्जनैर्जगृहे । यतस्तस्य बलेः प्रभावत: पूर्वोत्पन्नसर्वरोगाः प्रणश्यन्ति, नवाश्च षण्मासान् यावन्नैव पुनर्जायन्ते ।। अथोत्थायोत्तरद्वारमार्गेण निर्गत्य देवेन्द्ररन्वीयमानः प्रभू रत्नमय-स्वर्णमयप्राकारयोरन्ते ईशानदिविस्थते देवच्छन्दे व्यश्राम्यत् । तदानीं गणधरमुख्य ऋषभसेनो भगवत्पादपीठस्थो धर्मदेशनां विदधे । गणधरदेशनाया हि स्वामिनः खेदापनयः शिष्यगुणदीपनोभयतः प्रत्ययश्च गुणाः । तस्मिन् गणधरे देशनाविरते सति प्रभुं प्रणम्य सर्वे स्वस्वस्थानं ययुः । अथ तत्र तीर्थे समुत्पन्नो वराक्षमाला-शालिधराभ्यां दक्षिणबाहुभ्यां, मातुलिङ्ग-पाशधराभ्यां वामबाहुभ्यां च शोभितो हेमवर्णा गजरथो गोमुखो नामा गुह्यकः प्रभोः पावस्थोऽभूत् । तथा तत्तीर्थोत्पन्ना वरेषु-चक्र-पाशदक्षिणकरा धनुर्वज्र-चक्रा-ऽङ्कशवामकरा हेमाभा गरुडासनाऽप्रतिचक्रा नाम्नी शासनदेवता च प्रभोः पार्श्वस्थाऽभूत् । ततो महर्षिभिः परिवृतः प्रभुरपि विहर्तुमन्यत्र जगाम । विहरतश्च प्रभोर्भक्त्या तरवो नता इव, कण्टका अधोमुखाः, शकुना अनुकूला:, ऋत्विन्द्रियार्थवायुनां चाऽनुकूलता अभवन् । प्रभोः पार्श्वे च जघन्यतो देवानां कोटिरासीत् । तथा प्रभोः कचाः श्मश्रु-नखाश्च नाऽवर्धन्त । प्रभुश्च यत्राऽगात् तत्र वैर-मारीत्यवृष्टिदुभिक्षा-ऽतिवृष्टि-स्वान्यचक्रजभयादीनि नाऽभूवन् । एवं विश्वविस्मयकरैरतिशयैः समन्वितो जीवानुग्रहैकमतिः प्रभुर्वायुवदिमां क्षमा विहरति स्म ॥ इति प्रथमपर्वणि भगवद्दीक्षा-छास्थविहार-केवलज्ञान-समवसरण व्यावर्णनात्मकः तृतीयः सर्गः ॥३॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89