Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 55
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ श्रुतोक्ततत्त्वेषु रुचिः सम्यग्दर्शनम्। तच्च निसर्गादधिगमाद्वा जायते । तथाहि-अनाद्यनन्तभववर्तिषु प्राणिषु ज्ञानावरणीयदर्शनावरणीय-वेदनीया-ऽन्तरायाख्यानां कर्मणां सागरोपमकोटीनांत्रिंशत्कोट्यः परा स्थितिः, गोत्र-नामकर्मणो विशतिकोट्यः, मोहनीयस्य सप्ततिकोट्यः परा स्थितिः । तदनन्तरं गिरिणदीपाषाणघोलनन्यायेन क्रमात् फलानुभवात् सर्वकर्माणि स्वयं क्षीयन्ते । सागरोपमकोटीनामेकोनत्रिंशदेकोनविंशत्येकोनसप्ततिकोटीः क्रमश: कर्मणां स्थितिमुन्मूल्य देशोनावशिष्टैकसागरोपमकोटीकोटौ सत्यां प्राणिनो यथाप्रवृत्तिकरणाद् ग्रन्थिदेशं प्राप्नुवन्ति । ग्रन्थिश्च काष्ठादेरिव सर्वदा दुरुच्छेदो दृढतरो दुर्भेदो रागद्वेषपरिणाम उच्यते । ततो रागादिप्रेरिता: केऽपि निवर्तन्ते, अपरे तत्परिणामविशेषात् तत्रैवाऽऽसते । भव्यास्त्वपूर्वकरणेन परं वीर्यमाविष्कृत्य सहसा तं ग्रन्थिमतिक्रामन्ति । ततोऽनिवृत्तिकरणादन्तरकरणे कृते मिथ्यात्वं विरलीकृत्य चतुर्गतिकाः प्राणिन आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति । तद् निसर्गसम्यग्दर्शनमुच्यते । गुरूपदेशाच्च यत् तत्त्वार्थश्रद्धानं तदधिगमसम्यग्दर्शनम् । तच्चौपशमिकं सास्वादनं क्षायोपशमिकं वेदकं क्षायिकं चेति पञ्चधा भवति । तत्र कर्मग्रन्थिभेदाद् यदन्तर्मुहूर्तं प्रथमः सम्यक्त्वलाभस्तदौपशमिकं प्रथमम् । उपशमश्रेणियोगत उपशान्तमोहस्य मोहोपशमजं द्वितीयमौपशमिकम् । त्यक्तसम्यक्त्वभावस्य मिथ्यात्वाभिमुखस्याऽभ्युदीर्णानन्तानुबन्धिकस्य प्राणिनो य उत्कर्षण षडावलिर्जघन्येनैकसमयः सम्यक्त्वपरिणामस्तत् सास्वादनम् । सम्यक्त्वपुद्गलोदयपरिणामवत: प्राणिनो मिथ्यात्वमोहक्षयोपशमात् क्षायोपशमिकम् । क्षपकश्रेणिगतस्याऽनन्तानुबन्धिनां क्षये तथा मिथ्यात्व-मिश्रयोः सम्यक् परिक्षये जाते क्षायिकाभिमुखस्य प्रथमं पर्व - तृतीयः सर्गः सम्यक्त्वचरमांशवेदिनो वेदकम् । शुभभावस्य प्रक्षीणदर्शनसप्तकस्य प्राणिनः पञ्चमं क्षायिकं सम्यक्त्वं जायते । _तच्च सम्यग्दर्शनं गुणतो रोचकं दीपकं कारकं चेति त्रिविधम् । तत्र श्रुतोक्ततत्त्वेषु हेतूदाहरणादिकं विना दृढश्रद्धानं रोचकम् । अन्येषां सम्यक्त्वदीपकं दीपकम् । संयम-तपःप्रभृतीनां कारक कारकमुच्यते । तत्र शम-संवेग-निर्वेदा-ऽऽस्तिक्या-ऽनुकम्पारूपैः पञ्चभिर्लक्षणैस्तत् सम्यक्त्वं लक्ष्यते । अनन्तानुबन्धिकषायाणामनुदयः शमः । स च प्रकृत्या कषायाणां विपाकेक्षणतो भवति । कर्मविपाकं संसारासारतां च ध्यायतो जन्तोर्यद् विषयवैराग्यं स संवेगः । ससंवेगस्य जन्तोः "संसारवास: कारैव, बन्धवो बन्धनान्येवे"त्यादिचिन्ता निर्वेदः । एकेन्द्रियादीनां प्राणिनां भवाब्धौ मज्जतां क्लेशं पश्यतो जन्तोर्हदयार्द्रता, तहुःखदुःखित्वं, यथाशक्ति तत्प्रतीकारहेतुषु प्रवृत्तिश्चाऽनुकम्पा । तत्त्वान्तरश्रवणेऽप्याहततत्त्वेषु निराकाङ्क्षा प्रतिपत्तिरास्तिक्यम् । जन्तोस्तदेतत् सम्यग्दर्शनप्राप्ती क्षणात् पुरातनं मत्यज्ञानं मतिज्ञानता, श्रुताज्ञानं श्रुतज्ञानतां विभङ्गज्ञानमवधिज्ञानतां च व्रजेत् । सर्वसावद्ययोगविरतिश्च चारित्रम् । तच्चाऽहिंसा-सत्याऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहभेदात् पञ्चधा । तान्यहिंसादीनि पञ्चभिः पञ्चभिर्भावनाभिर्युक्तानि मुक्तये कल्पन्ते । प्रमादयोगेन त्रसानां स्थावराणां च जीवितव्यपरोपणाभावोऽहिंसा । प्रियं पथ्यं तथ्यं वचः सत्यव्रतम् । अप्रियमहितं च तथ्यमतथ्यमेव । अदत्तस्याउनादानमस्तेयम् । यतोऽर्था नृणां बाह्याः प्राणाः, अतस्तदपहरणं तन्निहननमेव । दिव्यौदारिककामानां कृता-ऽनुमत-कारितैर्मनोवाक्कायतस्त्यागो ब्रह्मचर्यमष्टादशधा । सर्वभावेषु मूर्छायास्त्यागोऽपरिग्रहव्रतम् । यतोऽसत्स्वपि मूर्च्छया चित्तविप्लवो जायते । एतच्च

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89