Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 65
________________ पुरुष-गद्यात्मकसारोद्धारः ततः कथञ्चिदपि गङ्गां सम्बोध्याऽनुज्ञाप्य च सबलो भरतः खण्डप्रपाताभिमुखं चचाल । ततः खण्डप्रपाताख्यगुहां प्राप्य तस्या अनतिदूरे सैन्यं निवेश्य नाट्यमालं देवं ध्यात्वाऽष्टमतपश्चक्रे । आसनकम्पनात् सोऽवधिना भरतमागतं ज्ञात्वाऽऽगत्योपायनान्यर्पयित्वा सेवां प्रपन्नः । ततो भरतस्तत् स्वीकृत्य प्रसादपूर्वकं नाट्यमालसुरं विससर्ज । पारणं कृत्वा तस्य देवस्याऽष्टाह्निकोत्सवं कृत्वा खण्डप्रपातोद्घाटनाय सुषेणमादिशत् । सेनापतिश्च नाट्यमालं ध्यात्वाऽष्टमतपश्चक्रे, पौषधं चाऽग्रहीत् । अष्टमान्ते च पौषधागाराद् निर्गत्य बलिविधिं कृत्वा कृतप्रायश्चित्तकौतुकमङ्गलः स्वल्पनेपथ्यो धूपदहनं दधत् खण्डप्रपातं प्राप्य नत्वा पूजयित्वा तत्कपाटे - ऽष्टमङ्गलीं लिलेख । सप्ताष्टपदान्यपसृत्य कपाटोद्घाटनाय दण्डरत्नमादाय च तेन कपाटमाहतवान्, तत्कपाटद्वयं च विघटितम् । ततो नृपो गजमारुह्य गजकुम्भे मणिरत्नं स्थापयित्वा गुहां प्रविश्य सैन्यैरनुगम्यमानस्तिमिरनाशाय पूर्ववत् काकिण्या मण्डलानि लिखन् ययौ । गुहाप्रत्यग्भित्तेनिर्गत्य प्राग्भित्तिमध्यतो भूत्वा जाह्नव्या मिलन्त्यावुन्मग्ना - निमग्नाख्ये नद्यौ मार्गमध्यस्थे प्राग्वत् पद्यया ससेनो ललङ्घे । स्वयमुद्घटितात् तद्गुहादक्षिणद्वाराद् निर्गत्य गुहातो गङ्गायाः पश्चिमे तटे स्कन्धावारं निवेश्य निधीनुद्दिश्याऽष्टमतपश्चक्रे । ९८ ततोऽष्टमान्ते प्रत्येकं यक्षसहस्रेणाऽधिष्ठिता विश्रुता निधयो भरतमुपाजग्मुः । ते च नैसर्पाद्या अष्टचक्रप्रतिष्ठाना, अष्टयोजनोत्सेधा, नवयोजनविस्तीर्णा, द्वादशयोजनदीर्घा, वैडूर्यमणिकपाटस्थगितमुखाः, काञ्चनाञ्चक्र-चन्द्रार्कलाञ्छनाः सन्ति । तेषामेवाऽभिधानैस्तदधिष्ठायकाः पल्योपमायुषो नागकुमारास्तन्निवासिनः सन्ति । तत्र नैसर्पाद् शिबिर - पुर - ग्रामादीनां विनिवेशनम् । पाण्डुकाद् निधेधन्यानां बीजानां मानानां गणितस्य च सर्वस्य सम्भवः । पिङ्गलाच्च नरादीनामाभरणविधिर्भवति । सर्वरत्नाच्च सप्ताऽप्ये प्रथमं पर्व चतुर्थः सर्गः केन्द्रियाणि सप्त पञ्चेन्द्रियाणि च चक्रिरत्नानि जायन्ते । महापद्माच्च निधेर्वस्त्रादीनां समुत्पत्तिर्जायते । कालाख्याच्च निधेर्वर्त्तमानस्य त्र्यब्दभूतभविष्यतीश्च ज्ञानं कृष्यादिकर्माणि च भवन्ति । महाकालनिधेश्च प्रवाल- रजताद्याकराणां समुत्पत्तिर्भवति । माणवनिधेर्यो - धादिसम्पदो युद्धनीतिर्दण्डनीतिश्च जायते । शङ्खाद् निधेश्च चतुर्विधकाव्यादीनां तूर्याणां चोत्पत्तिर्भवति । एवं प्रकारास्ते निधय ऊचु:- "गङ्गामुखमागधवासिनो वयं त्वद्भाग्यवशीकृतास्त्वामुपागताः, अस्मान् यथाकाममुपभुङ्क्ष्व, प्रयच्छ च । न वयं कदाचिदपि क्षीयामहे" । ततो निधिषु वशं यातेषु नृपः पारणं चकार । तेषां निधीनामष्टाह्निकोत्सवं च विदधे । सुषेणोऽपि नृपाज्ञया गङ्गा-दक्षिणनिष्कुटं साधयित्वा समाययौ । तत्र च भरतो लीलया ऽऽक्रान्तपूर्वापरपयोनिधिर्बहुकालमस्थात् । *** अथाऽन्यदा भरतस्य साधिताशेषभरतं चक्रं गगनस्थितमयोध्यां प्रति चचाल । भरतोऽपि कृतस्नानो, बलिकर्म विधाय नेपथ्यं धारयित्वा कृतप्रायश्चित्तकौतुकमङ्गलो, गजरत्नमारुह्य नवभिनिधिभिस्सम्पन्नकोशश्चतुर्दशभिर्महारत्नैः परिवृतो, द्वात्रिंशत्सहस्राभिः परिणीताभिर्नृपकन्याभिस्तावद्भिर्जनपदस्त्रीसहस्त्रैश्च समन्वितस्तावद्भिर्नृपसहस्त्रैश्च राजितः सर्वतोऽप्याहृतैश्चतुरशीतिलक्षगजैस्तावद्भिरश्वै रथैश्च भटानां षण्णवत्या कोटिभिश्च व्याप्तभूतल आद्यप्रयाणदिवसात् षष्टौ वर्षसहस्रेष्वतिक्रान्तेषु सत्सु च चक्रमनुसरन्नचलत् । तत्र तत्र नृपैः समर्पितान्युपायनानि स्वीकुर्वन् पुर-ग्रामादिशोभां पश्यन् शनैः शनैर्विनीतां प्राप्तवान् । विनीताया नातिदूरे स्कन्धावारं निवेश्य राजधानीं मनसि कृत्वा निरुपसर्गनिमित्तमष्टमतपो विधायाऽन्ते पौषधागाराद् निर्गत्य पारणं चक्रे ।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89