Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र प्रथमप्राकारस्य पूर्वस्मिन् द्वारे स्वर्णवर्णी वैमानिकदेवी, दक्षिणद्वारे व्यन्तरौ श्वेतवर्णी, पश्चिमद्वारे रक्तवर्णी ज्योतिष्को, उत्तरद्वारे कृष्णवर्णी भवनपती च द्वारपालास्तस्थुः । तथा चतुर्यु द्वितीयवप्रद्वारेषु पूर्वक्रमेणाऽभय-पाशा-5ङ्कश-मुद्गरपाणयश्चन्द्रकान्तप्रवाल-सुवर्ण-नीलाश्मकान्तयो जया-विजया-ऽजिता-ऽपराजिता देव्यस्तस्थुः । अन्त्यप्राकारे च प्रतिद्वारं तुम्बुरुः, खट्वाङ्गायुधो, मुण्डमाली च जटामुकुटमण्डिता द्वारपालास्तस्थुः । समवसरणमध्ये च व्यन्तरैः क्रोशत्रयोन्नतश्चैत्यद्रुमो विकृतः । तस्याऽधश्च रत्नमयं पीठं, तस्योपरि मणिमयं छन्दकं, तन्मध्ये पूर्वत: सपादपीठं रत्नसिंहासनं च विचक्रिरे । तथा सिंहासनस्योपरि श्वेतच्छत्रत्रयं, तत्पार्श्वयोर्यक्षाभ्यां धृते सिते चामरे, समवसरणद्वारे स्वर्णकमलस्थितमत्यद्भुतप्रभं धर्मचक्रम्, अन्यच्च करणीयं सर्व व्यन्तराश्चक्रुः । यतस्ते साधारणे समवसरणेऽधिकारिणः सन्ति ।
अथ चतुर्विधानां देवानां कोटिभिः परिवृतो जिनेश्वरः प्रात: समवसर्तुं प्रतस्थे । तदा च देवैः क्रमेण सहस्रदलानि नव कनकमयानि कमलानि विधाय प्रभोः पुरः स्थापितानि । स्वामी च तेषु द्वयोर्द्वयोः पादन्यासं कुर्वन् चचाल । पूर्वद्वारेण च समवसरणं प्रविश्य चैत्यवृक्षस्य प्रदक्षिणां विधाय तीर्थं नत्वा प्राङ्मुखः सिंहासने समुपाविशत् । तदानीं च व्यन्तरा अन्यास्वपि दिक्षु रत्नसिंहासनस्थानि प्रभुप्रतिबिम्बानि विचक्रुः । तथा प्रभोः शिरः परितो भामण्डलमाविर्बभूव । दिवि दुन्दुभिर्दध्वान । प्रभोरगे रत्नमयो ध्वजश्च शुशुभे।
अथ प्रथमे प्राकारे वैमानिकस्त्रियः पूर्वद्वारेण प्रविश्य तीर्थनाथस्य त्रिः प्रदक्षिणां विधाय तीर्थं च नत्वा साध्वीनां साधूनां च स्थानं विहाय पूर्वदक्षिणदिशि तस्थुः । दक्षिणद्वारेण
प्रथमं पर्व - तृतीयः सर्गः
ও पूर्वोक्तविधिना भवनपति-ज्योतिष्क-व्यन्तरस्त्रियो नैर्ऋतदिशि तस्थुः । पश्चिमद्वारेण च प्रविश्य भवनपति-ज्योतिष्क-व्यन्तरदेवा: पूर्वोक्तविधिपूर्वं वायव्यदिशि तस्थुः । कल्पदेवा नरा नार्यश्चोत्तरद्वारेण प्रविश्य पर्वोक्तविधिपूर्वकमैशान्यामवतस्थिरे । तत्र चाऽऽदावागतोऽल्पद्धिर्महद्धिकमागच्छन्तं ननाम । प्रागागतं तु नमन् जगाम । तथा तत्र काऽपि नियन्त्रणा विकथा वा नाऽऽसीत् । विरोधिनामप्यन्योन्यं मात्सर्यं भयं वा नाऽऽसीत् । द्वितीयस्य प्राकारस्य मध्ये तिर्यञ्चस्तृतीयस्य मध्ये च वाहनानि तस्थुः । तथा तृतीयवप्रबाह्यदेशे केऽपि तिर्य-नरा-ऽमराः प्रविशन्तः, केऽपि निर्गच्छन्तश्चाऽऽसन् । तदा च सौधर्मेन्द्रो नमस्कृत्य बद्धाञ्जलिः प्रभुं नत्वा स्तुत्वा पुनर्नत्वा च देवादीनामग्रतो निषसाद ।
इतश्च विनीतानगर्यां भरतः प्रातर्मरुदेवां नमस्कर्तुमाजगाम । पुत्रविरहोद्भूतसतताश्रुप्रवाहैर्जातेन नीलिकारोगेण लुप्तलोचनां तां "देवि ! एष ज्येष्ठः पौत्रस्त्वत्पादौ नमती"ति विज्ञपयन् प्रणनाम । मरुदेवाऽपि च भरतायाऽऽशिषं प्रदायोवाच-"मां त्वां पृथिवीं प्रजां लक्ष्मी च तृणवद् विहायैकाकी वत्सो गतवान्, अहं तु तथाऽपि न म्रिये, क्व राज्यसौख्यम् ? सर्वाङ्गसन्तापकरं तपश्च क्व?" ततो दुःखाकुलां तां भरतो बद्धाञ्जलिः प्रोवाच-"महासत्त्वशिरोमणेस्तातस्य जनन्या त्वया दुःखं न विधेयम् । तस्य हि तपसि वने विहरतो न किमपि दुःखम् । मद्वाचा न चेत् प्रत्येषि, तथाऽपि तातस्याऽचिरेण जातकेवलोत्सववार्त्तया प्रत्येष्यसि" ।
अत्राऽन्तरे द्वारपालेनाऽऽगत्य भरतस्य ज्ञापितौ यमकशमकौ पुरुषावाजग्मतुः । तत्र यमकः प्रणम्य भरतं व्यजिज्ञपत्"देव ! दिष्ट्याऽद्याऽनया कल्याणवार्त्तया वर्धसे । पुरिमतालाख्ये नगरे शकटाननोद्याने युगादिनाथस्य केवलज्ञानमुदपद्यत' । शमकोऽपि प्रणम्य-"इदानीमायुधागारे चक्ररत्नमजायते"ति

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89