Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः भक्तमानिनोऽस्मान् धिक् । किं बहुना ? स्वामी वाचाऽपि नो न समभावयत् । अनेकश: पूर्वलक्षाणि पुत्रवन्नस्त्रातपूर्वी प्रभुरस्मास्विदानीमपरिचित इव वर्त्तते" । ७२ ततः श्रेयांसस्तानुवाच-‘“किमेवमुच्यते ? स्वामी पूर्ववत् परिग्रहपरो नेदानीम् । स्नानादीनि भोगेच्छुः स्वीकरोति, विरक्तस्य तैः किं प्रयोजनम् ? कन्यकाः कामवशो, हस्त्यश्वादि नृपः फलादि च सजीवं हिंसको गृह्णाति । जितकामस्य विरक्तस्य जीवाभयप्रदस्य च स्वामिनो न ग्राह्याणि तानि । प्रभुत्वेषणीयं कल्प्यं प्रासुकं चाऽऽन्नादि गृह्णाति । भवन्तो मुग्धास्तन्न जानन्ति" ते पुनरूचुः"स्वामिना पुरा यत् किञ्चिदपि शिल्पादि ज्ञापितं जनास्तन्मात्रं जानन्ति भर्त्रा त्विदं न ज्ञापितमिति वयं तद् न जानीमः । त्वयैतत् कुतो ज्ञातमिति कथय" । ततः कुमार उवाच-“भगवद्दर्शनाद् मे जातिस्मरणमुत्पन्नम्, अमुना स्वामिना सार्धमहमष्टौ जन्मान्तराणि स्वर्गमर्त्ययोः पर्यभ्रमिषम् । इतोऽतीते तृतीये भवे विदेहेषु पितुर्वज्रसेनाख्यस्य तीर्थकृतोऽन्तिके प्रभुरहं च प्रव्रजितौ । तज्जन्मस्मरणाद् मयैतत् सकलं ज्ञातम् । तथा मम पितुः सुबुद्धिश्रेष्ठिनश्च त्रयाणामपि स्वप्नानां फलमधुना प्रत्यक्षम् । तथाहि तपः कृशः प्रभुरिक्षुरसपारणात् पर्यभादिति मत्स्वप्नफलम् । मया कारितेन पारणकेन परीषहान् पराजितवानिति मत्पितृस्वप्नफलम् । एष प्रभुरादित्यः, केवलज्ञानं गोसहस्रं, तद् भ्रष्टं मया पारणेनाऽयोजि, स बभौ चेति सुबुद्धिस्वप्नफलम् । तच्छ्रुत्वा ते सर्वे श्रेयांसं साधु साध्विति भाषमाणाः प्रमुदिता निजनिजं स्थानं ययुः । ततः कृतपारणकः प्रभुः, छद्मस्थतीर्थकृत एकत्र स्थित्यभावात्, श्रेयांसगृहादन्यत्र जगाम । प्रभुपारणस्थानातिक्रमं कोऽपि मा कार्षीदिति तत्र श्रेयांसो रत्नमयं पीठं चकार । तथा स तद् रत्नपीठं त्रिसन्ध्यं प्रथमं पर्व तृतीयः सर्गः भक्त्या पूजयामास । किमेतदिति लोकेन पृष्टश्चाऽऽदितीर्थकृन्मण्डलमित्युत्तरति स्म । एवं यत्र यत्र प्रभुर्भिक्षामग्रहीत् तत्र तत्र लोकैः पीठं कृतम् । तच्च क्रमादादित्यपीठमभूत् । अथ प्रभुः सायंकाले बहलीदेशे बाहुबलेस्तक्षशिलापुरीं सम्प्राप । तस्या बहिरुद्याने च प्रतिमया स्थितः । तत्र नियुक्तैश्च गत्वा बाहुबलये तन्निवेदितम् । ततः स तत्क्षणं पुरारक्षमादिशत्-"नगरमलङ्क्रियताम्' । तेन च रम्भास्तम्भतोरणादिभिर्नगरमलङ्कृतम् । स्वामिदर्शनोत्सुकस्य बाहुबलेश्च सा निशा मासोपमा जाता । प्रभुश्चेषद्विभातायां रजन्यां सत्यां प्रतिमां पारयित्वा क्वचिदन्यत्राऽगात् । प्रभाते च मण्डलेश्वरैर्मन्त्रिभिर्गजैस्तुरगैर्वसन्तश्रीप्रभृतिभिरन्त:पुरस्त्रीभिश्च परिवृतः सचामराभ्यां वारस्त्रीभ्यां सेवितपार्श्वको, धवलातपत्रविराजित:, सुवर्णदण्डहस्तेन प्रतीहारेणाऽग्रतः शोध्यमानमार्गोऽसङ्ख्यातैः पौरैरिभ्यैरनुगम्यमानो, भद्रगजस्कन्धमारूढः शिरसि रत्नकिरीटशोभितः, कुण्डलादिभिर्नानाभरणैश्च भूषितो महाबाहुर्बाहुबलिर्बन्दिवृन्दकृतजयजयारावपूर्वकं प्रभुपादपवित्रस्योपवनस्य समीपं ययौ । तत्र गजादवतीर्य छत्रादि त्यक्त्वा च प्रविवेश । प्रभुरहितमुद्यानं दृष्ट्वा तेन "क्व प्रभुरित्येवं पृष्टा उद्यानपाला: "किञ्चित्कालपूर्वमेव प्रभुर्ययौ, तत् कथयितुं यावद्यामस्तावद्देवः स्वयं समागत'' इति समुदतरन् । तेन विषण्णश्च स चिन्तयामास - "परिजनैः सह स्वामिनं पूजयिष्यामीति मन्मनोरथो मुधाऽजनि । लोकानुग्रहकाम्यया कृतविलम्बस्य मम मूर्खता जाता, धि‍ धिगिमां रात्रि मम मतिं च । स्वामिदर्शनाभावाद् नेत्रे अपि निष्फले । प्रभुः प्रतिमया स्थितोऽहं च निस्त्रपः सौधे शयितवान्" । अथ बाहुबलिं चिन्तामग्नं दृष्ट्वा सचिवो जगाद - " अत्राऽऽगतं स्वामिनं नाऽपश्यमिति किं शोचसि ? स तव हृदये

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89