Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः रुद्धः श्रेयांससाहाय्याज्जयं प्राप्त" इत्यदृश्यत । ते त्रयोऽपि सदि स्वस्वस्वप्नानन्योन्यस्य कथयामासुः । तत्फलं चाऽजानन्तः स्वस्वस्थानं ययुः । तदा स्वप्नफलं प्रकटयितुमिव जिनो भिक्षार्थं हस्तिनापुरं प्राविशत् । मुदितैर्नागरैश्च संवत्सरं निराहारोऽप्यागच्छन् स्वामी ददृशे । ततः सर्वैरेवोत्थाय धावित्वा च स्वामी पर्यवेष्ट्यत । कोऽपि "स्वामिन् ! इहैहि, नो गृहाण्यनुगृहाण " । अन्यश्च "सज्जमिदं स्नानीयवसनादि, इह स्त्राहि प्रसीद" । अपरश्च "स्वोपयोगेन मम चन्दनादीनि कृतार्थय" । इतरश्च "रत्नालङ्करणानि धारय, अनुगृहाणे "त्येवं जनाः प्रतिस्वं प्रार्थयामासुः । किन्तु जिनेश्वरोऽकल्प्यत्वात् तान्यगृह्णन् प्रतिगृहं जगाम । ७० तदा श्रेयांसः प्रातःकाले पक्षिणामिव पौराणां कोलाहलं शुश्राव । तेनाऽऽज्ञतश्च द्वारपालो वृत्तान्तं ज्ञात्वा कृताञ्जलि - र्व्यजिज्ञपत्–“यो देवेन्द्रादिभिः सेव्यते, येन लोकानां जीवनोपायकर्माणि दर्शितानि येन च दीक्षां जिघृक्षता भरतादीनां युष्माकं च स्वं राज्यं विभज्य ददे यः स्वयं सर्वसावद्यपरिहारपूर्वकं तपः स्वीचकार, स नाथो निःसङ्गो निराहारो महीं पद्भ्यां विहरते, यस्य च्छायाऽऽतपौ शीतोष्णौ च समौ, यश्च युगमात्रं दत्तदृष्टिः कीटिकामप्यमृद्नन् पादचारं करोति, जगत्त्रयदेवः स्वामी स ते पितामहो भाग्यवशादिहाऽऽयाति, तत एवैषोऽधुना पौराणां कलकलः” । अथ युवराजस्तत्क्षणमेव स्वामिनमायान्तं दृष्ट्वा पादचारेणैवाऽधावत । पर्षदपि तथैव तमन्वधावत । गृहाङ्गणगतस्य स्वामिन: पादपङ्कजयोर्लुठित्वा श्रेयांसस्त्रिः प्रदक्षिणीकृत्य हर्षाश्रुवारिभिः पादौ क्षालयन्निव ननाम । ऊर्ध्वभूय च स स्वामिनो मुखपङ्कजं दृष्ट्वा "मयेदृशं लिङ्गं क्व दृष्ट" मिति चिन्तयन् प्रथमं पर्व - तृतीयः सर्गः जातिस्मरणमाप सस्मार च यत्- "पूर्वविदेहेऽयं वज्रनाभश्चक्रवर्त्य - भूत्, अहं च तस्य सारथिर्जातः । तद्भवे एवाऽस्य पिता वज्रसेन ईदृशं तीर्थकुल्लिङ्गं धारयन्नीक्षितः । तस्य पादान्त एवाऽयमहं च दीक्षां गृहीतवन्तौ । अर्हतो वज्रसेनस्य मुखाच्च "भरतेऽसौ वज्रनाभः प्रथमतीर्थकृद्भावी "त्यश्रौषं च । अमुना सहैव च स्वयम्प्रभादीन् भवान् पर्यभ्रमिषम् । स एषोऽधुना मम प्रपितामहो मया दिष्ट्या दृष्ट: । एष मामनुग्रहीतुं साक्षाद् मोक्ष इव समागतोऽधुना" । अस्मिन्नवसरे श्रेयांसस्योपहारे केनचिद् नवेक्षुरससम्भृता घटाः समर्पिताः । ततः स निर्दोषभिक्षादानविधिज्ञत्वाद् "अयं कल्पनीयो रस" इति प्रभुमवदत् । प्रभोश्चाऽञ्जलिरूपे पाणिपात्रे इक्षुरसान् पुनः पुनर्ददौ । अचिन्त्यप्रभावत्वात् प्रभोरञ्जलौ ते रसाः स्तम्भिता इव व्योम्नि लग्नशिखा ममुः । तदा श्रेयांसस्य हृदये मुदो न ममुः । ततः पश्यतां सुरासुराणां प्रभुस्तेन रसेन पारणं कृतवान् । तदानीं च दिवि दुन्दुभयो नेदुः । श्रेयांसगृहे रत्नवृष्टिरभूत् । देवाः पञ्चवर्णपुष्पवृष्टिं गन्धाम्बुवृष्टि च चक्रुः । सुरनरैश्चेलोत्क्षेपश्चक्रे । वैशाख शुक्ल तृतीयायां तदक्षयं दानमभूदित्यद्याऽपि तत्पर्वाऽक्षयतृतीयेति प्रवर्तते । ततः प्रभृति भूमौ श्रेयांसोपज्ञं दानधर्मः प्रवृत्तवान् । अथ स्वामिपारणतो देवागमनाच्च विस्मिता राजानो नागराश्चाऽन्ये श्रेयांसवेश्मनि समीयुः । ते क्षत्रियतापसाः कच्छमहाकच्छादयोऽपि तत्र समाजग्मुः । ते च सर्वे पुलकिता: श्रेयांसमूचु:-“भो कुमार ! धन्योऽसि, यत् त्वयेक्षुरसाहारः स्वामिना ग्राहितः । अस्माभिस्तु सर्वस्वमपि प्रदीयमानं प्रभुर्न गृहीतवान् । संवत्सरं यावद् ग्रामादीनटन् प्रभुः कस्याऽप्यातिथ्यं नाऽऽदत्त ।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89