Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६६
टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सर्वे मिलित्वा विचार्य च गङ्गातीरवनं प्राप्तास्ते कन्दमूल - फलानि यथेष्टं बुभुजिरे । ततः कालादिह भूतले तापसा वनवासिनः कन्दमूलफलाद्याहाराश्चाऽभवन् ।
अथ कच्छ- महाकच्छतनयौ विनीतौ प्रभोरादेशात् पूर्वं दूरदेशान्तराणि गतौ तद्वनमार्गेणाऽऽयान्तौ नमि-विनमिनामानौ स्वपितरौ दृष्ट्वाऽचिन्तयताम् - "वृषभनाथे प्रभौ सत्यपि इमावावयोः पितरौ किमनाथाविवेदृशीं दशां प्राप्तौ ? क्व तच्चीनांशुकं, क्वेदं वल्कलम् ? क्व सोऽङ्गरागः, क्वेदं भूरजः ? क्व समाल्यो धम्मिल्लः, क्वेयं जटा ? क्वतद्गजारोहणं, क्वैष पादचार:?" एवं विचिन्तयन्तौ तौ पितरौ प्रणम्य पप्रच्छतुः ।
कच्छ- महाकच्छावप्यूचतुः - "प्रभुर्वृषभनाथो राज्यं त्यक्त्वा विषयान् भरतादिभ्यो विभज्य दत्त्वा च व्रतमग्रहीत् । तदा स्वामिना सहाऽस्माभिस्सर्वैस्तद् व्रतं गृहीतम् । क्षुधादिपीडितैश्चाऽस्माभिस्तद् व्रतं मुमुचे । प्रभुमनुसर्त्तुमशक्ताश्चाऽपि गार्हस्थ्यं त्यक्त्वाऽत्र वने वसामः” । ततः “आवामपि प्रभोर्भूसंविभागमर्थयावहे" इत्युक्त्वा तौ नमि-विनमी प्रभुसमीपं जग्मतुः । निःसङ्गः प्रभुरित्यजानन्तौ तौ प्रतिमास्थितं प्रणम्य तं विज्ञपयामासतुः - "प्रभो ! आवां दूरदेशान्तरं प्रेष्य त्वया भरतादिभ्यो भूमिर्विभज्य दत्ता । किन्त्वावाभ्यां गोष्पदमात्राऽपि मही किं न दत्ता ? ततः प्रसद्येदानीमपि देहि । आवयोः कोऽप्यपराधः किम् ? यदुत्तरमपि न वितरसि, देयस्य का कथा ?" तदा निर्ममः प्रभुस्तकौ न किञ्चिदुदतरत् । तौ च - " यद्यपि स्वामी न किमपि ब्रूते, तथाप्येष एव नौ गति "रिति निश्चित्य प्रभुमुपसेवितुं प्रवृत्तौ । जलाशयाद् नित्यं नलिनीदलैर्जलमानीय प्रभुसमीपे धूलिशमनाय सिषिचतुः । प्रभाते च तस्य पुरतः सुगन्धिपुष्पाणि मुमुचतुः । एवमहर्निशं पारिपार्श्विकौ तौ कृष्टी
प्रथमं पर्व तृतीयः सर्गः
स्वामिनं सिषेवाते । त्रिसन्ध्यं च प्रणम्य कृताञ्जली तौ "आवयोर्नापरः स्वामी, प्रभो ! राज्यप्रदो भवेत्येवं ययाचाते च ।
अथाऽन्यदा नागकुमारेश्वरः श्राद्धो धरणः प्रभुं विवन्दिषुस्तत्राऽऽययौ । तत्र च प्रभुं सेवमानौ राज्यं याचमानौ च बालाविव सरलौ तौ साश्चर्यं ददर्श । स तौ पप्रच्छ- "कौ युवाम् ? दृढं कृताग्रहौ किं च याचेथे ? प्रभोः सांवत्सरिकमहादानकाले युवां क्व गतौ ? सम्प्रति प्रभुर्वपुष्यपि निर्ममो निष्परिग्रहो रोषादिविनिर्मुक्तश्च वर्तत " । ततस्तौ "एष प्रभोः सेवकः कश्चिदिति सादरं तं प्रत्यूचतुः । "अयं प्रभुरावां भृत्यौ । अयमावां क्वचित् प्रेषितवान् । राज्यं च विभज्य भरतादिभ्यो दत्तवान् । प्रदत्तसर्वस्वोऽप्ययमावाभ्यां राज्यं दाता । सेवकानां प्रभोर्निकटेऽस्ति नास्तीति वा का चिन्ता ? तैः सेवैव कार्या" । ततस्तेन "प्रभुतुल्यः प्रभुपुत्र" इति भरतं गत्वा याचेथामित्युक्तौ पुनरूचतुः - " आवां प्रभुं विहाय नाऽन्यं याचावहे । भरतादिभ्यः स्वस्त्यस्तु । तवाऽनया चिन्तया किम् ? अस्मात् प्रभोर्यद्भवति तदपरस्मात् कुतः " ?
ततस्तदुत्तरप्रसन्नो धरणो ऽब्रवीत् -"अहं पातालपतिरस्यैव प्रभोः किङ्करोऽस्मि", "असावेव स्वामी सेवनीय" इति वां दृढा प्रतिज्ञा, साधु साधु । अस्य प्रभोः सेवया राज्यसम्पदो वैताढ्यगिरौ विद्याधरेन्द्रता भवनपत्यादिश्रियश्चाऽयत्नसुलभाः । किं बहुना ? अस्य प्रभोः सेवया देहीह त्रिभुवनाधीशः परत्र च सिद्धरूपो भवेत् । अहमस्य प्रभोर्दासः । युवामपि सेवकौ । ततः तत्सेवायाः फलं विद्याधरैश्वर्यं युवाभ्यां ददामि । युवां स्वामिसेवाफलमेवैतदिति बुध्येथां माऽन्यथा । एवं सम्बोध्य स तयोर्गौरी- प्रज्ञप्तीप्रमुखां पाठसिद्धिदामष्टचत्वारिंशद्विद्यासाहस्त्रीं दत्त्वा "वैताढ्यं गत्वा श्रेणिद्वये नगराणि परिष्ठाप्याऽक्षयं राज्यं कुर्वाथा "मित्यादिशत् ।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89