Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्कन्धदेशे कोमलं धवलं सूक्ष्मं च देवदूष्यं न्यधात् । ततश्चैत्रकृष्णाष्टम्यामुत्तराषाढानक्षत्रे दिवसस्य पश्चिमे भागे नराऽमरेषु जयजयारावं कुर्वत्सु सत्सु प्रभुश्चतसृभिर्मुष्टिभिः स्वशिरसः केशानुच्चखान । तांश्च केशान् सौधर्मेन्द्रो वस्त्राञ्चले प्रतीच्छति स्म । पञ्चमेन मुष्टिना शेषान् केशानुत्खनितुमिच्छन् प्रभुः शक्रेण "त्वदंसयोः शोभमाना केशवल्लरी तिष्ठत्वि"ति याचितस्तथैव धारयामास । ततः सौधर्मेन्द्रः क्षीरोदधौ तान् केशान् क्षिप्त्वा समागत्य तुमुलं मुष्टिसंज्ञयाऽरक्षत् । प्रभुश्च षष्ठतपो विधाय सिद्धनमस्कारं च कृत्वा देवा-ऽसुर-मनुष्यसमक्षं "सकलं सावद्ययोगं प्रत्याख्यामी'त्युदीरयन् मोक्षमार्गस्य रथमिव चारित्रं प्रत्यपद्यत । तदानीं च स्वामिदीक्षोत्सवेन नारकाणामपि क्षणं सुखमासीत् । प्रभोश्च मर्यक्षेत्रमनोद्रव्यप्रकाशकं मन:पर्ययज्ञानमुत्पेदे । तदानीं च सुहद्भिर्वार्यमाणा बन्धुभिर्निरुध्यमाना भरतेन निषिध्यमाना अपि कच्छ-महाकच्छादयो चत्वारः सहस्रा नृपाः पुत्र-कलत्रादि राज्यं च त्यक्त्वा "या गतिः प्रभोः सैवाऽस्माकमपी"ति निश्चयाद् मुदा दीक्षां जगृहुः ।
__ अथ शक्रादयः प्रणम्य विहिताञ्जलय आदिनाथं स्तुत्वा जन्माभिषेकवन्नन्दीश्वरमध्येन स्वस्थानं जग्मुः । भरत-बाहुबल्यादयोऽपि जिनेश्वरं प्रणम्य कथञ्चिद् निजनिजस्थानं जग्मुः । जिनेश्वरश्चाऽनुप्रव्रजितैः कच्छ-महाकच्छादिभिरनुसृतो मौनी पृथिवीं विहर्तुं प्रारेभे । तदैकान्तसरलानां जनानां भिक्षादानानभिज्ञत्वाज्जिनेश्वरः पारणादिवसेऽपि कुत्राऽपि भिक्षां न प्राप । ते हि जिनेश्वरं पूर्ववद् राजानमेव जानाना भिक्षार्थमागताय तस्मै वेगवतस्तुरङ्गमान्, गजेन्द्रान्, रूपवत्यः कन्यकाः, तेजस्वीन्याभरणानि, चित्रवर्णानि वासांसि, माल्यानि, सुवर्णराशि रत्नराशि वा यथास्वं ढौकयामासुः ।
प्रथमं पर्व - तृतीयः सर्गः एवं भिक्षामलभमानोऽपि प्रभुरदीनमना विहरन् पृथिवीं पावयामास । तथा सुस्थितः क्षुत्पिपासादीन् परीषहानधिसेहे । स्वयं प्रव्रजिता राजानश्चाऽपि प्रभुमनुसरन्तस्तथैव विहरन्ति स्म ।।
अथ तत्त्वज्ञानरहिताः क्षुत्पिपासादिभिः क्लान्तास्तपस्विनश्च ते राजानः स्वबुद्ध्यनुगुणं दध्यु:-"एष प्रभुर्मधुराण्यपि फलानि नाऽत्ति, स्वादून्यपि पयांसि न पिबति, तथा शरीरसंस्कारानपेक्षो न स्नानादि करोति, वस्त्रा-ऽलङ्कार-माल्यानि वा नोपादत्ते, स वातोद्भूत-मार्गरजोभिर्व्याप्यते, मूनि नितान्तं ललाटन्तपमातपं सहते, शयनादिविहीनोऽपि न श्राम्यति, शीतोष्णाभ्यां च न परिक्लिश्यते, क्षुधां न गणयति, पिपासामपि न जानाति, निद्रामपि न सेवते, अनुचरीभूतानस्मान् कृतापराधानिव दृष्टिपात-सङ्कथादिभिरपि न प्रीणयति, पुत्र-कलत्रादिपरिग्रहरहितः प्रभुश्चित्ते किं चिन्तयतीति न जानीमः" ।
अथ तपस्विभिः स्ववर्गाग्रेसरौ प्रभोः समीपसेवको कच्छमहाकच्छौ कथितौ-"प्रभुः क्षुत्पिपासादिपरीषहान् सासहिः, न तथा वयम् । तस्मादस्माभिः प्रभोव्रतेऽनसरणं समद्रलक्षनविधौ गरुडस्य काकैरिव प्रचक्रमे । किं जीविकार्थं निजानि राज्यानि गृह्णीम: ? तान्यपि भरतेन गृहीतानि, ततः क्व गम्यताम् ? किं वा जीविकाथ भरतमेव व्रजाम: ? प्रभुं विहाय गतानामस्माकं तत एव भयं वर्त्तते । युवां पुराऽपि प्रभोनित्यमासन्नौ भावाभिज्ञौ चेति कार्यमूढानामस्माकं किं कार्यम् ? तद् ब्रूतम्" इति ।
तावप्यूचतुः- "स्वयम्भूरमणाम्बुधेः स्ताघ इव प्रभो वो दुष्प्रापः । पुरा स्वामिनाऽऽदिष्टं नित्यं कुर्वः, अधुना चैष प्रभुर्रानी न किमप्यादिशति । तद् यथा यूयं न वित्थ, तथाऽऽवां न विद्वः । सर्वेषां समाना गतिः । यूयमेव ब्रूत यदावां किं कुर्वहे" इति । ततः

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89