Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 46
________________ तृतीयः सर्गः अथ आदिजिनेश्वरः सामन्तादीन् भरत-बाहुबल्यादीन् तनयानितरांश्चाऽऽहूय "वत्स ! नो राज्यमादत्स्व, वयमधुना संयम ग्रहीष्याम" इति भरतमवोचत् । ततो भरतः क्षणमधोमुखः स्थित्वा प्राञ्जलिर्नत्वा सगद्गदमेवमुवाच-"त्वत्पादपद्मसमीपस्थस्य मे साम्राज्यसम्पदाऽलं, यतस्त्वत्सेवासुखक्षीराब्ध्यपेक्षया राज्यसुखं बिन्दुव"दिति । ततः प्रभुः "मया राज्यं त्यक्तं, पार्थिवाभावे च पृथिव्यां मात्स्यन्यायः प्रवर्तते । तस्मादिमां पृथिवीं परिपालय । त्वं ममाऽऽदेशकरोऽसि, ममाऽऽदेशोऽप्ययमेवे"त्युवाच । ततो विनीतो भरतः प्रभोः सिद्धादेशं लचितुमसमर्थ 'ओम्' इत्युक्त्वा प्रभुं प्रणम्य सिंहासनमलङ्कृतवान् । प्रभोरादेशाच्चाऽमात्य-सामन्त-सेनापत्यादिभिर्भरतस्य सूरैः प्रभोरिव राज्याभिषेकश्चक्रे । तदा भरतः शिरसि श्वेतच्छत्रेण पार्श्वयोश्च चामराभ्यां सुशोभितः, स्वगुणैरिवाऽत्यन्तविशदै सोभिमौक्तिकालङ्करणैश्चाऽलङ्कतो, महामहिमसम्पन्नो राजवृन्देन सह स्वकल्याणेच्छया प्रभुं नमश्चक्रे । तत: प्रभुर्बाहुबलिप्रमुखपुत्रेभ्योऽपि यथोचितं देशान् विभज्य ददौ । अथ प्रभुर्जनानां यथेष्टं सांवत्सरिकं दानमारभत । चतुष्पथादिषु च "यो यदिच्छति, स तद् गृह्णात्वि"ति घोषणामुच्चैरकारयत् । शक्रनिदेशात् कुबेरप्रेषिता जृम्भकाः सुराश्च ददतः प्रभोः स्वर्ण-रत्नादीनि गिरिकुञ्जगतान्यस्वामिकानि गुप्तानि नष्टान्यन्यानि च धनानि सर्वत प्रथमं पर्व - तृतीयः सर्गः आहृत्याऽपूरयन् । ऋषभनाथश्च प्रतिदिनं सूर्योदयाद् भोजनक्षणपर्यन्तं सुवर्णस्यैकां कोटिमष्टौ लक्षाणि च ददानो वत्सरेण सुवर्णस्याऽष्टाशीत्यधिकत्रिशतकोटिमशीतिलक्षाणि च ददौ । प्रभोर्दीक्षया जना अपि संसारविरक्ता यथेष्टदानेऽपि शेषामात्रमेवैतदगृह्णन्, नाऽधिकम् । अथ वार्षिकदानान्ते कम्पितासनः शक्रः समीपमागत्य पूर्णकुम्भहस्तैः सुरवरैः सह दीक्षोत्सवाभिषेकं चक्रे । प्रभुश्च शक्रोपनीतं दिव्यालङ्कार-वस्त्रादिकं परिहितवान् । तथा शक्रनिर्मितां सुदर्शनाख्यां शिबिकां शक्रेण दत्तहस्तः प्रभुरारुरोह । तां च शिबिकामादौ मा अनन्तरममा देवाश्चोद्दध्रः। तदानीं सुरासुरैस्ताडितानि मङ्गलतूर्याणि नेदुः, पार्श्वतश्चामरद्वयं वीजितं, जयजयारावश्च चक्रे । पथि शिबिकारूढं गच्छन्तं प्रभुं द्रष्टुं सर्वेऽपि नागरा अन्वधावन्त । केचिच्च प्रभुं द्रष्टुमुच्चवृक्षशाखासु, केचिच्च मार्गगृहेषु, केचिच्चाऽश्वेषु आरुरुहुः । स्त्रियश्चाऽपि काश्चिद् वेगात् त्रुटितहारेण मौक्ति कानि मुञ्चन्त्यः, काश्चित् कटिस्थबालाः, काश्चित् सखीदत्तावलम्बा: प्रभु द्रष्टमधावन् । मार्गगृहस्थाश्च काश्चित पूर्णपात्राणि दधः, काश्चिच्च प्रभोदर्शनेऽञ्चलान् चामराणीव चालयामासुः, काश्चिच्च लाजान् निचिक्षिपुः, काश्चिच्च "चिरं नन्द, चिरं जीवे"त्याशीर्वचनानि जगुः । एवं पुरस्त्रियः प्रभुं पश्यन्त्योऽन्वसरन् । आकाशे च चतुर्विधा देवा विमानैः कुञ्जरैस्तुरङ्गैः स्यन्दनैश्चाऽऽगत्य "असौ प्रभुरसौ प्रभु"रित्येवं मिथः कथयन्तो वाहनानि स्थिरीचक्रुः । तदानीं प्रकृष्टसुर-मानुषैः परिवृतः, पार्श्वयोर्भरत-बाहुबलिभ्यामुपसेवितः, विनीतैरन्यैश्च तनयैरष्टानवत्या प्रभुरन्वसारि । माता पन्यौ पुत्र्यौ तथाऽन्या अपि स्त्रियः साश्रुनेत्राः प्रभुमन्वगुः । अथ प्रभुः सिद्धार्थमुद्यानमासाद्य शिबिकातोऽवारुरोह । तथा कषायानिव तद्वस्त्र-माल्य-भूषणादीनि त्यक्तवान् । शक्रश्च प्रभोः

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89