Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदा च जनाः कल्पद्रुमेषु समुच्छन्नेषु सत्सु कन्दमूलादीनि बुभुजिरे । तृणवत् स्वयमुत्पन्नाः शालि-गोधूमादयोऽपक्क्वैव तै: खादिता इति तस्मिन्नाहारेऽजीर्यति तैविज्ञप्तः प्रभु"हंस्तैस्तान् मृदित्वा त्वचयित्वा च खादते"त्यादिशत् । तथाकृतेऽपि कठिनत्वात् तस्मिन्नाहारेऽजीर्यति पुनस्तैर्विज्ञप्तः प्रभुः "पाणिभिः सघृष्य जलैराीकृत्य पत्रपुटे धृत्वा खादते"त्यादिशत् । तथाकृतेऽपि तस्मिन्नजीर्यति तैः पुनर्विज्ञप्तः प्रभुः "पूर्वोक्तविधिं विधाय मुष्टौ निधायाऽऽतपे कक्षयोः क्षिप्त्वा खादते"त्यादिशत् । तथाकृतेनाऽप्यजीर्णेनाऽऽहारेण जनेषु पीडितेषु सत्सु वृक्षसमूहे मिथः शाखाघर्षणात् समुत्थितेन तृण-काष्ठादीन् दहताऽग्निना दीप्ररत्नभ्रमेण गृह्यमाणेन दह्यमानास्ते भीताः प्रभुमुपेत्य नूतनं किमपि वस्तु समुद्भूतमित्यूचिरे। ततश्च प्रभुः "स्निग्धरूक्षकालभावादेषोऽग्निरुत्पन्नः, एकान्तरूक्षे एकान्तस्निग्धे च नाऽस्य सम्भवः, यूयमस्याऽग्ने: पार्श्वत: स्थित्वा समीपस्थं तृणादिकमपसार्य पश्चात् तद् गृहित्वा तत्र पूर्वोक्तविधिना साधिता: शालि-गोधूमाद्यौषधी: क्षिप्त्वा पक्त्वा च खादते". त्येवमादिशत् । तथाकृते सर्वास्वोषधिषु वह्निना दग्धासु सतीषु मुग्धास्ते पुनरागत्य प्रभुं विज्ञपयामासुः-"प्रभो ! एषोऽग्निर्बुभुक्षित: सर्वा ओषधी: स्वयमेवाऽत्ति, न किञ्चिदप्यस्मभ्यं ददाति" ।
तदानीं गजस्कन्धारूढः प्रभुस्तैरार्दै मृत्तिकापिण्डं समानाय्य गजकम्भे तन्निधाय पाणिना तत्र तद् विस्तार्य तदाकारं शिल्पानां प्रथम पात्रं चक्रे । ततः प्रभुः “यूयमप्येवमपराण्यपि पात्राणि विधाय तान्यग्नेरुपरि स्थापयित्वौषधीः पक्त्वा खादते"त्येवमुक्तवान् । ततश्च प्रभोराज्ञया तादृशपात्रनिर्मातार: कारूणां प्रथमे कुम्भकारा जाताः । ततश्च प्रभुर्ग्रहाद्यर्थं वर्धकिन, लोकानां क्रीडावैचित्र्यार्थं गृहादिषु चित्रनिर्माणाय चित्रकारं, वस्त्रार्थं कुविन्दान्, नखादिवृद्ध्या जने पीडिते
प्रथमं पर्व - द्वितीयः सर्गः सति नापितांश्चाऽपीति पञ्च शिल्पिनो व्यघात् । तानि च पञ्चाऽपि शिल्पानि प्रत्येकं विशतिभेदाल्लोके शतधा प्रवृत्तानि । तथा प्रभु
र्लोकानां जीविका) तृणहार-काष्ठहार-कृषि-वाणिज्यकानि कर्माणि, जगद्व्यवस्थार्थं साम-दान-दण्ड-भेदाख्योपायचतुष्टयं चाऽकल्पयत् ।
तत आदिनाथो भरतं द्वासप्ततिकलाकाण्डमध्यापयत् । भरतोऽपि तत् स्वसोदरान् सम्यगध्यापयत् । तथा प्रभुर्बाहुबलिनं हस्त्यश्व-स्री-पुंसानामनेकविधानि लक्षणानि बोधितवान् । ब्राम्या दक्षिणेन पाणिनाऽष्टादशलिपी:, सुन्दर्याः सव्येन पाणिना गणितं च दर्शयामास । तथा मानोन्मानप्रमाणानि वस्तुषु प्रतिमानानि पोतान् प्रोतान मण्यादींश्च प्रावर्त्तयत् । तथा राजा-ऽध्यक्ष कुलसाक्षिभिर्वादिप्रतिवादिनां तदादिष्टो व्यवहारः प्रावर्त्तत । ततः प्रभृति च गजादिनां पूजा, धनुर्वेदश्चिकित्सोपासना रणोऽर्थशास्त्रं बन्ध-घात-वघ-गोष्ठ्यः, "असौ मम माता, पिता, धनं, गृहमित्यादिरूपा ममता च लोके समजायन्त । विवाहे प्रभुं प्रसाधितमलङ्कतं च दृष्ट्वा लोका अपि स्वं ततः परं तथा चक्रुः । प्रभोविवाहात् प्रभृत्येव च पाणिग्रहणचूडाकरणो-पनयनादिव्यवहारा लोके प्रवृत्ताः । एते च सर्वे सावद्या अपि लोकव्यवहारा लोकानुकम्पया स्वकर्तव्यज्ञ: स्वामी प्रवर्त्तयामास। आदिजिनाम्नाता एव कलादयोऽर्वाचीनैर्बुद्धिमद्भिः शास्त्ररूपेण निबद्धाः । प्रभोः शिक्षया चाऽखिलो लोको दक्षोऽभूत् । तथा प्रभुः "आरक्षपुरुषा उग्राः, मन्त्र्यादयो भोगाः, स्वसमानवयसो राजन्याः, अवशिष्टाः क्षत्रिया" इत्येवं जनान् चतुर्धाऽकल्पयत् । एवं प्रभुर्नवां व्यवहारव्यवस्थां कल्पयित्वा राज्यश्रियं बभजे ।
स प्रभुर्यथापराधं दण्डनीयेषु दण्डं प्रायुक्त । यतो दण्डभीता लोकाश्चौर्यादिकं न चक्रः । क्षेत्रादीनां मर्यादां कोऽपि कस्याऽपि नाऽत्यक्रामत् । मेघश्च सस्यार्थं कालेऽवर्षत् । तदानीं जनपदाः सस्य

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89