Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
शाकापुरुषरितम्-गद्यात्मकसारोद्धारः
बोधिबीजं लेभे । रजन्यां पुनरप्युपाश्रयं ययौ, मुनीन् प्राणमच्च । धर्मघोषसूरयश्च देशनां ददुः ।
६
***
तथाहि धर्म उत्कृष्टं मङ्गलं, भवाटवीलङ्घने मार्गदर्शको, मातेव पोषकः, पितेव रक्षक:, सखेव प्रीणयिता, बन्धुरिव स्नेही, गुरुरिव सद्गुणानामापादकः, स्वामीव प्रतिष्ठाप्रदः, कल्याणैकभूमिः, शत्रुसङ्कटे वर्म, जाड्यच्छेदकः, पापप्रक्षालयिता च । धर्मादेव जन्तुर्भूपोऽर्धचक्री चक्रधर इन्द्रश्च भवेत्, तत एव तीर्थकरत्वं चाऽऽप्नोति । धर्मात् किं किं न सिध्यति ? दुर्गतिप्रपतज्जन्तुधारणाद् धर्म उच्यते । स च दान- शील- तपो भावभेदाच्चतुर्विधः ।
तत्र दानाख्यो धर्मो ज्ञानदाना - ऽभयदान - धर्मोपग्रहदानभेदात् त्रिविधः । तत्र वाचनादिना धर्मानभिज्ञेभ्यो ज्ञानस्य तत्साधनस्य च दानं ज्ञानदानम् । ज्ञानदानेन च जन्तुः स्वहिताहितं जीवादितत्त्वानि च जानाति । ततो विरति केवलज्ञानं मोक्षं चाऽऽप्नोति ।
मनो-वाक्कायैः कृत-कारिता - ऽनुमोदितैर्जीवानां वधवर्जनमभयदानम् । तत्र त्रस-स्थावरभेदाज्जीवा द्विविधाः । पर्याप्ताऽपर्याप्तभेदाच्च चतुर्विधाः । पर्याप्तयश्चाऽऽहार - शरीरेन्द्रिय-प्राण- भाषा - मनांसि षट् । तत्रैकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रियाणां देहिनां क्रमशश्चतस्त्रः पञ्च षट् च पर्याप्तयो भवन्ति । स्थावरा भूम्यप्तेजो - वायु-वनस्पतय एकेन्द्रियाः । भूम्यप्तेजो-वायवः सूक्ष्मा बादराश्चेति द्विविधाः । वनस्पतिकायाश्च प्रत्येक साधारणभेदाद् द्विविधाः । तत्र साधारणा: सूक्ष्म- बादरभेदाद् द्विविधाः । त्रसाश्च द्वि-त्रि- चतुःपञ्चेन्द्रियभेदैश्चतुर्विधाः । पञ्चेन्द्रियश्च संज्ञिनोऽसंज्ञिनश्चेति द्विविधाः । तत्र शिक्षोपदेशालापज्ञा: सम्प्रवृत्तमन:प्राणाः संज्ञिनः, तदन्येऽसंज्ञिनः । त्वग्जिह्वा घ्राण- चक्षुः श्रोत्राणि पञ्चेन्द्रियाणि । तेषां च यथाक्रमं स्पर्श-रस- गन्ध-रूप-शब्दा विषयाः ।
प्रथमं पर्व प्रथमः सर्गः
द्वीन्द्रिया विविधाकृतयः कृमि - शङ्ख- गण्डूपद - जलौक:- कपर्दकशुक्तयः । यूक- मत्कुण- मत्कोट- लिक्षाद्यास्त्रीन्द्रियाः । पतङ्ग-मक्षिकाभृङ्ग- दंशाद्याश्चतुरिन्द्रियाः । शेषाश्च तिर्यग्योनिभवा नारका मानवा देवाश्च पञ्चेन्द्रिया: । तेषु जन्तुषु तत्पर्यायक्षयरूपस्य दुःखोत्पादरूपस्य सङ्क्लेशरूपस्य च त्रिविधस्य वधस्य वर्जनमभयदानमुच्यते । अभयदानं च निखिलार्थदानं, यतो जीविते सति पुरुषार्थे चतुष्टयलाभ: । जन्तोर्जीवितादपरं राज्यादिकं न प्रेयः । अशुचिस्थकृम्यादेः स्वर्गवासिनामिन्द्रादीनां च प्राणापहारजं भयं तुल्यमेव । अतः सुधीरप्रमत्तः सन् सर्वजगदिष्टायाऽभयदानाय प्रयतेत । अभयदानेन हि जनो जन्मान्तरेषु कान्तो दीर्घायुरारोग्य - रूप लावण्य शक्तिमांश्च भवेत् ।
धर्मोपग्रहदानं च दायक-ग्राहक-देय-काल- भावविशुद्धिभेदात् पञ्चधा । तत्र नीत्युपार्जितवित्तो ज्ञानवान् निरीहोऽननुतापी च सन् यद् ददाति तद् दायकशुद्धम् । सावद्ययोगविरतो, गौरवत्रयवर्जितस्त्रिगुप्तः, पञ्चसमितो, रागद्वेषरहित, उपकरणादिषु निर्ममोऽष्टादशसहस्त्रशीलाङ्गधारको, रत्नत्रयधरः, समदर्शी, शुभध्यानवानुदरमात्रपाथेयस्तपस्व्यविखण्डितसप्तदशविधसंयमधारकोऽष्टादशविधब्रह्मचर्यधारकश्च ग्रहीता चेत् तद् दानं ग्राहकशुद्धम् । अशन-पानखाद्य वस्त्र - संस्तरणादिकानां द्विचत्वारिंशद् दोषवर्जितानां दानं देयशुद्धम् । काले पात्राय दानं कालशुद्धम् । निरीहेण श्रद्धया यत् प्रदीयते तद् भावशुद्धम् । देहेन विना धर्माभावात्, अन्नादिकं विना देहाभावाच्च धर्मोपग्रहदानं निरन्तरं कुर्यात् । पात्रेभ्योऽशन-पानादिधर्मोपग्रहदानतो जनस्तीर्थरक्षणं करोति, परं पदं च प्राप्नोति ।
सावद्ययोगानां प्रत्याख्यानं शीलम् । तच्च देशविरति - सर्वविरतिभेदतो द्विविधम् । तत्र देशविरतिः पञ्चाऽणुव्रतानि त्रयो गुणाश्चत्वारि शिक्षाव्रतानि चेति द्वादशधा । तत्र स्थूलाऽहिंसा-सत्या

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89