Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 32
________________ द्वितीयः सर्गः अथेतो जम्बूद्वीपेऽपरविदेहेष्वपराजितापुर्यामीशानचन्द्रनामा नृपो बभूव । तत्रैव च धर्मात्मनामग्रणी: श्रेष्ठी चन्दनदासस्तत्पुत्रः सागरचन्द्रश्चाऽऽसीत् । स सागरचन्द्र एकदा नृपदर्शनार्थं राजकुलं ययौ । नृपेणाऽऽसन-ताम्बूलादिदानत: सत्कृतश्च । तस्मिन्नेवाऽवसरे केनचिद् मङ्गलपाठकेन समागत्य "अद्य वसन्तश्रीसमन्वितमुद्यानं सम्भावये"ति पठिते राजा द्वारपालमादिशत्-"प्रातरखिलैर्जनैरस्मद्यानमागन्तव्य"मिति नगर्यामद्धोष्यताम् । तथा "त्वयाऽप्युद्यानमागन्तव्य"मिति प्रसन्नेन नृपेणाऽऽदिष्टः सागरचन्द्रो राजानमनुज्ञाप्य स्वावासमागत्य मित्रायाऽशोकदत्ताय तां नृपाज्ञामवोचत् । द्वितीये दिवसे च सपरिच्छदो नृपः पौरलोकाश्च सर्वेऽप्युद्यानं ययुः । सागरचन्द्रोऽपि मलयानिलेन वसन्त इवाऽशोकदत्तेन सहोद्यानं जगाम । तत्र च नृत्य-गीतादिप्रवृत्तेषु लोकेषु समीपस्थादेकस्मात्कुञ्जात् "त्रायध्वं त्रायध्व"मिति भीतस्त्रीशब्दः शुश्रुवे । तच्छृत्वा 'किमेत'दिति कुतुकात् समाकृष्ट इव धावित: सागरचन्द्रः श्रेष्ठिन: पूर्णभद्रस्य सुतां प्रियदर्शनां बन्दिभिर्गृहीतामपश्यत् । स तत्र गत्वैकस्य बन्दिनो हस्ताद् बलात् क्षुरिकामागृहीतवान् । ईदृशं च तत्पराक्रमं दृष्ट्वा सर्वे बन्दिनो भयात् पलायाञ्चक्रिरे । इत्थं सागरचन्द्रेण बन्दिभ्यो रक्षिता प्रियदर्शना "परोपकारकुशल: क प्रथमं पर्व - द्वितीयः सर्गः एष पुरुषश्रेष्ठः? मद्भाग्यादेवाऽसावत्र समागतः । कामाकतिरेष एव मम भर्त्ता भावी"ति चिन्तयन्ती स्वं धाम जगाम । प्रियदर्शनासक्तह्रदयः सागरचन्द्रोऽप्यशोकदत्तेन सहितः स्वगृहमगात् । __ तदखिलं च वृत्तान्तं परम्परया ज्ञात्वा चन्दनदासोऽचिन्तयत्"सागरचन्द्रस्य प्रियदर्शनायां कमलिन्यां राजहंसस्येवाऽनुरागो युज्यते, किन्तु सपौरुषेणाऽपि वणिजा पौरुषं न विधेयमिति तेन तदा कृतोद्भटताऽसाम्प्रतम् । सरलमतेरस्य च मायाविनाऽशोकदत्तेन मैत्र्यप्यनुचिता"। ततः सागरचन्द्रं समाहूयोपदेष्टुमारभत-"वत्स ! स्वयं शास्त्रव्यवहारनिपुणोऽसि, वणिजो व्यवहारजीविनोऽनुद्भटाचारवेषाः, यौवनेऽपि गूढपराक्रमा लोकसामान्येऽपि वस्तुनि साशङ्कवृत्तयो भवन्ति । स्वजात्ययोग्यं नाऽऽचरणीयम् । असत्संसर्गश्च त्याज्य: । अयं च मायाविनामग्रणीरशोकदत्तोऽवसरे त्वां सर्वथा दूषयिष्यति" । ततः सागरचन्द्रो हृद्यचिन्तयत्-"अनेनोपदेशप्रकारेणाऽनुमिनोमि यत् 'कन्याबन्दिवृत्तान्तस्तातेन ज्ञातः । अशोकदत्तश्चाऽस्मै न रोचते"। ततः स सविनयं प्राह-"तातेनोपदिष्टं पुत्रेण मयाऽवश्यकार्यम् । गुर्वाज्ञालङ्घने हि करणादकरणमेव वरम् । किन्तु कदाचित् तादृशे समये समुपस्थिते विचारेण कालक्षेपे कार्यकाल एव व्यत्येति । तथाऽपि प्राणसंशयेऽपि भवदनभिमतं नाऽऽचरिष्यामि । अशोक दत्तेन सह मैत्र्यां च समा जातिः, समा विद्या, समे शील-वयसी, परस्परोपकारकारित्वं, सुख-दु:खभागित्वादि च कारणम् । तस्य दोषो गुणो वा तस्यैव न मम । किं च स न मायावी. कोऽपि मषैव तातस्याऽऽख्यत् । भवतु वा स तथा, एकत्र स्थितोऽपि काचः काच एव, मणिमणिरेव" । ततश्चन्दनदासो-“मतिमानसि, तथाऽपि सावधानेन भवितव्य". मिति पुत्रमुक्त्वा तदाशयानुसारेण तदर्थं पूर्णभद्राच्छीलादिगुणपूर्णा

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89