Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मोनाशनेन जगत्प्रकाशकः, ध्वजदर्शनाद् महावंशप्रतिष्ठो धर्मध्वजश्च, पूर्णकुम्भदर्शनात् सकलातिशयपूर्णपात्रं, पद्माकरदर्शनाज्जगत्तापहारकः, क्षीरनिधिदर्शनादधृष्योऽभिगम्यश्च, विमानदर्शनाद् वैमानिकसुरसेवितश्च, रत्नपुञ्जदर्शनात् सर्वगुणरत्नाकरः, अग्निदर्शनादन्यतेजस्वितेजोजेता चेति चतुर्दशभिः स्वप्नैश्चतुर्दशरज्जुप्रमाणे लोके स्वामी भवितेति सूच्यते । एवं स्वप्नफलमुक्त्वा मरुदेवीं प्रणम्य च देवेन्द्राः सर्वे क्षणात् स्वं स्वं स्थानं जग्मुः ।
मरुदेव्यपि स्वप्नफलश्रवणमुदिता सूर्येण मेघमालेव तेन गर्भेणाऽशोभत । गर्भप्रभावाच्च सा प्रियगुवर्णाऽपि पाण्डुतां, पीवरस्तनत्वं, विकसितनेत्रत्वं, विपुलनितम्बतटत्वं, गजवद् मन्दगतित्वं, विशिष्टलावण्यश्रियं, त्रैलोक्यमहासारं गर्भ धारयन्त्यपि चाऽखिन्नतां च प्राप । यतो गर्भवासिनामर्हतामयं प्रभाव एव । उदरे वर्धमाननिगूढगर्भप्रभावाच्च मरुदेवी विश्ववत्सला, नाभिश्च युगलिकानां पितृतोऽप्यधिकमान्यः, कल्पवृक्षाश्च विशिष्टप्रभावाः, पृथिवी च शान्ततिर्यग्नवैराऽजायत ।
अथ नवसु मासेषु सार्धाष्टमदिनेषु च गतेषु चैत्रकृष्णाष्टम्यामर्धरात्रे उत्तराषाढानक्षत्रे ग्रहेषूच्चस्थेषु च मरुदेवी युगलिकं पुत्रं सुखेन सुषुवे। तदानीं च दिशः प्रसन्ना जाताः, लोकाः क्रीडापरा जज्ञिरे । जगत्त्रये कृतलोकनेत्रचमत्कारो विद्युत्प्रकाश इवाऽन्धकारभेदी महान् प्रकाशो बभूव । दिवि दुन्दुभिरनाहतोऽपि मेघगम्भीरनादो ननाद । न केवलं तिर्यङ्-नरा-ऽमराणां, नारकाणामप्राप्तपविणामपि क्षणं सौख्यं समजायत । मन्दं मन्दं वहद्भिः समीरणैश्च पृथिव्या रजांसि दूरीकृतानि । मेघाश्च गन्धजलं ववृषुः । पृथिवी च सोच्छ्वासा जाता।
अथाऽधोलोकवासिन्य आसनकम्पनेन ज्ञातवृत्तान्ता भोगङ्कराप्रमुखा अष्टौ दिक्कुमार्यः समागत्य प्रसूतिगृहे जरायुरक्तादिकलङ्करहितं
प्रथमं पर्व - द्वितीयः सर्गः तीर्थकरं तन्मातरं च त्रिप्रदक्षिणीकृत्याऽभिवन्द्य चोचुः-"जगन्मातस्तुभ्यं नमः, वयमधोलोकवासिन्योऽष्टौ दिक्कुमारिका अवधिज्ञानतस्तीर्थकृज्जन्म ज्ञात्वा तन्महिम्नः करणार्थमिहाऽऽगताः, तन्न भेतव्यम्" । एवमुक्त्वा च ताः पूर्वोत्तरे देशे स्थिताः स्तम्भसहस्रसमन्वितं प्राङ्मुखं प्रसूतिकागृहं निर्माय संवर्त्तवातेन परित आयोजनं शर्करा-कण्टकादिकमपनीय संवर्त्तवातं संहृत्य भगवन्तं प्रणम्य तत्समीपमुपविष्टास्तं जगुः ।
तथैवाऽऽसनकम्पेन ज्ञात्वा मेरुगिरिस्थिता ऊर्ध्वलोकवासिन्यो मेघङ्कराधा अष्टौ दिक्कुमारिकाः समागत्य जिनं जिनमातरं च नत्वा स्तुत्वा च नभसि मेघपटलं विचक्रुः । तत: सुगन्धितोयवर्षणेन परित आयोजनं रजांसि शमयित्वा पञ्चवर्णपुष्पाणि जानुदघ्नं वर्षयित्वा प्रहृष्टा जिनगुणान् गायन्त्यो यथोचिते स्थाने तस्थुः ।
तथा प्राग्रुचकाद्रिस्थिता नन्दाद्या अष्टौ दिक्कुमार्यो विमानैः समागत्य जिनं जिनमातरं च नत्वा स्तुत्वा च मङ्गलानि गायन्त्यो दर्पणपाणयः प्रागस्थुः । दक्षिणरुचकाद्रिस्थाश्चाऽष्टौ समाहाराद्या दिक्कुमार्यः प्रमुदिताः समागत्य जिनं तन्मातरं नत्वा स्तुत्वा च गायन्त्यो भृङ्गारपाणयो दक्षिणेनाऽस्थुः । पश्चिमरुचकाद्रिस्था अप्यष्टौ इलादेव्याद्या दिक्कुमार्यो जिनं तदम्बां च नत्वा स्तुत्वा च व्यजनहस्ता गायन्त्यः पश्चिमेन तस्थुः । एवमुत्तररुचकाद्रिस्था अप्यष्टौ दिक्कुमार्योऽलम्बुसाद्या आभियोगिकैरमरैः सहाऽऽगत्य जिनं तदम्बां च नत्वा स्तुत्वा च चामरपाणयो गायन्त्य उत्तरेण तस्थुः ।
तथैव विदिग्रुचकाद्रिस्थाश्चित्राद्या दिक्कुमारिकाश्चतस्रः समागत्य जिनं तदम्बां च नत्वा स्तुत्वा च गायन्त्यो दीपहस्ता ईशानादिविदिक्षु तस्थुः । तथा रुचकद्वीपतो रूपाद्याश्चतस्रो दिक्कुमारिकाः समागत्य जिनस्य चतुरङ्गुलवर्ज नाभिनालं छित्वा भूमौ विवरं निचख्नुः । तत्र तत् क्षिप्त्वा रत्नविवरमापूर्य तदुपरि दूर्वाभिः पीठिकां बद्ध्वा

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89