Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 40
________________ womainment .५१ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जिनस्य शिरसि वज्रमाणिक्यमुकुटं स्थापयित्वा, कर्णयोः स्वर्णकुण्डले परिधाप्य, कण्ठे च दिव्यमौक्तिकहारं निक्षिप्य, बाहुदण्डयोरङ्गदे, मणिबन्धयोमौक्तिकमणिकणे, कटिदेशे स्वर्णकटिसूत्रं, पादयोमाणिक्यपादकटके च परिधापयामास । तदा जिनाङ्गेषु निवेशितानि भूषणानि जिनाङ्गेनैव भूषितानि भान्ति स्म । ततो दिव्यकल्पतरुकुसुमैः सुभक्त्या जिनेश्वरं पूजयित्वा किञ्चिदपसृत्य जिनस्याऽग्रतो भूत्वा सौधर्मेन्द्ररारात्रिकं चकार । ततो भक्त्यतिशयेन शक्रो ननाम तुष्टाव च । ___ तत: पूर्ववत् पञ्चधाऽऽत्मानं विकृत्य सौधर्मेन्द्र ऐशानेन्द्रोत्सङ्गतो जिनमादाय पूर्ववच्चामरादि गृहीत्वा च सर्वैरमरैः समन्वितो मरुदेवागृहमागत्य तीर्थकृत्प्रतिबिम्बमुपसंहृत्य तत्र जिनेश्वरं मातुः समीपे स्थापयामास । तथा मरुदेवाया अवस्वापनिका निद्रामपनीतवान् । ततो जिनस्य मस्तके दिव्यदुकूलद्वयं, भामण्डलभ्रमकारकं रत्नकुण्डलद्वयम्, एकं श्रीदामगण्डमुपरि जिनस्य दृष्टिविनोदाय विताने च स्थापयामास । ___ अथ सौधर्मेन्द्रो "हिरण्य-रत्न-स्वर्णानां द्वात्रिंशत्कोटीात्रिंशतौ नन्दासन-भद्रासने, अन्यच्च मनोहरवस्त्र-नेपथ्यादि, सांसारिकसुखोत्पादि महाघु वस्तु चाऽस्मिन् जिनभवने सर्वत्र निधेही"ति कुबेरमादिशत् । कुबेरश्च जृम्भकदेवैः सद्यस्तत्सर्वं तथैव कारयामास । ततः सौधर्मेन्द्र आभियोगिकदेवैर्भवनपति-व्यन्तर-ज्योति-वैमानिकेषु "अर्हतस्तज्जनन्याश्च योऽशुभं चिन्तयिष्यति, तस्य शिरोऽर्जक मञ्जरीवत् सप्तधा भेत्स्यते" इत्युच्चै?षयित्वा, अर्हतां स्तन्यपानाकरणात् क्षुधोदये मुखेऽगुष्ठकरणाच्च जिनाङ्गुष्ठे नानाहाररसामृतं सङ्क्रमय्य, जिनस्य धात्रीकर्माणि कर्तुं पञ्चाऽप्सरसो धात्रीरादिदेश । तदा च बहवो देवा जिनस्नात्रानन्तरं सुमेरुशिखरादेव नन्दीश्वरं ययुः । सौधर्मेन्द्रोऽपि जिनसदनाद् नन्दीश्वरद्वीपं जगाम । तत्र प्रथमं पर्व - द्वितीयः सर्गः क्षुद्रहिमवत्प्रमाणे देवरमणेऽञ्जनाद्राववतीर्य चतुरे चैत्ये प्रविश्य ऋषभप्रभृती: शाश्वतीरर्हत्प्रतिमा अष्टाङ्ग्यारम्भपूर्वकं पूजयामास । तस्याऽद्रेश्च चतुर्दिक्स्थमहावापीमध्यवर्त्तिषु स्फाटिकेषु चतुर्ध्वपि दधिमुखपर्वतेषु चैत्येषु चत्वारः शक्रदिक्पाला: शाश्वतीनामर्हत्प्रतिमानामष्टाह्निकोत्सवं चक्रुः । ईशानेन्द्रश्चोत्तरदिस्थे रमणीयाख्येऽञ्जनाचलेऽवतीर्य चैत्ये शाश्वतार्हत्प्रतिमानामष्टाह्निकोत्सवं चकार । तद्वत् तल्लोकपाला अपि तद्वापीदधिमुखपर्वतेषु शाश्वतार्हत्प्रतिमोत्सव चकः । तथा चमरेन्द्रो दक्षिणदिक्स्थे नित्योद्योताख्येऽञ्जनाचले. तद्दिक्पालाश्च तद्वाप्यन्तर्दधिमुखाचलेषु, बलीन्द्रश्च पश्चिमदिवस्थे स्वयम्प्रभाख्येऽञ्जनाचले, तद्दिक्पालाश्च तद्वाप्यन्तःस्थदधिमुखाद्रिषु शाश्वतार्हत्प्रतिमानामष्टाह्निकोत्सवं चक्रुः । इत्थं नन्दीश्वरे चैत्यमहिमानं विधाय सर्वे सुरा यथागतेन पथा स्वं स्वं स्थानं ययुः । अथ प्रबुद्धा मरुदेवा नैशं स्वप्नमिव नाभये देवागमनमचकथत् । जिनस्योरुप्रदेशे स्वप्ने मात्रा दृष्टो वृषभो लाञ्छनमिति पितृभ्यामुत्सवपुरःसरं ऋषभ इति यथार्थं नाम चक्रे । तथा युगलिकतया सहजातायाः कन्याया अपि "सुमङ्गले"ति यथार्थं नाम चक्रे । जिनश्च क्षुधोदये निजाङ्गष्ठे शक्रसङ्क्रमितां सुधां यथाकालं पिबति स्म । तथा स पितुरुत्सङ्गे शिखरिण उत्सङ्गे सिंहकिशोर इव शशुभे । शक्रादिष्टास्ताः पञ्च धान्यश्च जिनेश्वरं न कदापि मुमुचुः । अन्यदा जिनस्य जन्मनः किञ्चिदूने संवत्सरे जाते सति सौधर्मेन्द्रो वंशस्थापनार्थं "भृत्येन रिक्तहस्तेन स्वामिदर्शनं न कार्य"मिति विचार्य महतीमिक्षुयष्टिमादाय नाभ्युत्सङ्गस्थितस्य जिनस्याऽग्रतः समुपाजगाम । जिनश्चाऽवधिज्ञानतः शक्रसङ्कल्पं ज्ञात्वा तामिक्षुयष्टिमादातुं करं लम्बयामास । ततः शक्रः प्रणम्य जिनाय

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89