Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 34
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षड् अरा: प्रतिलोमक्रमेण तावद्वर्षप्रमाणाः । तदेवमवसर्पिण्यामुत्सपिण्यां च मिलित्वा सागरोपमकोटिकोटीनां विंशतिकोटिकोटयः । तत्र प्रथमेऽरे माः पल्यत्रितयजीविनो, गव्यूतत्रितयोच्छायाश्चतुर्थदिनभोजिनश्चतुरस्रसंस्थाना, वज्रर्षभनाराचसंहननाः, सदासुखा, निष्कषायाः, सर्वदा स्वभावत एवाऽधर्मवजिताश्च भवन्ति । तेषां च वाञ्छितान्युत्तरकुरुष्विव दश मद्याङ्गाद्या: कल्पवृक्षाः प्रददुः । तथाहि-मद्याङ्गा मद्यानि, भृङ्गा भाजनानि, तूर्याङ्गास्तूर्याणि, दीपशिखा ज्योतिषिकाचोद्योतं, चित्राङ्गा विचित्राणि माल्यानि, चित्ररसा भोज्यानि, मण्याङ्गा भूषणानि, गेहकाराः सुगृहाणि, अनग्ना वासांसि च प्रददुः । एते च प्रत्येकमन्यान्यपि वस्तून्यनेकशः प्रददुः । तदा च भूमयः शर्करा इव स्वादवो नद्यादिजलानि च मधुराणि भवन्ति स्म । तस्मिन्नरेऽतिक्रामति चाऽऽयु:-संहननादिकं कल्पवृक्षप्रभावाश्च शनैः शनैन्यूनानि न्यूनतराणि च भवन्ति स्म । द्वितीयेऽरे च माः पल्यद्वितयायुषो, गव्यूतद्वितयोच्छ्रायास्तृतीयदिनभोजिनोऽभवन् । किञ्चिद् न्यूनप्रभावाश्च कल्पवृक्षाः, आपो भुवश्च किञ्चिन्माधुर्यहीना आसन् । तृतीयेऽरे च मा एकपल्यायुष, एकगव्यूतोच्छ्राया, द्वितीयदिनभोजिन आसन् । अस्मिन्नरेऽपि च पूर्ववत् कल्पद्रुमप्रभावो वपुरायुनद्यादिमाधुर्यं च क्रमशो न्यूनं जातम् । चतुर्थे त्वरके माः पूर्वकोट्यायुषः, पञ्चधनु:शतसमुच्छ्रायाः । पञ्चमे चाऽरे वर्षशतायुषः, सप्तकरोच्छ्रायाः । षष्ठेऽरे च षोडशाब्दायुषो हस्तमात्रसमुच्छाया भवन्ति । उत्सर्पिण्यामपि षट्स्वप्यरेषु प्रातिलोम्येन भवन्ति । तत्र तौ युगलिनौ तृतीयारान्तजातत्वाद् नवधनुःशतदी?, पल्यदशमांशायुष्कौ, समचतुरस्त्रसंस्थानौ, वज्रर्षभनाराचसंहननौ चाऽभूताम्। तत्र पति: कनकवर्णः, पत्नी च प्रियनुवर्णा जाता । तत्रैवाऽशोक दत्तोऽपि पूर्वजन्मकृतमायाप्रभावेण श्वेतवर्णश्चतुर्दन्तो गजो बभूव । स प्रथमं पर्व - द्वितीयः सर्गः इतस्ततो भ्राम्यंश्चैकदा पूर्वजन्ममित्रं युगलिकमीक्षितवान् । तद्दर्शनाच्चाऽतिप्रसन्नस्य तस्य स्नेहोऽभ्यवर्धत । स हस्ती च तं हस्तेन गृहीत्वाऽऽलिङ्गयाऽनिच्छन्तमपि स्वस्कन्धप्रदेशमधिरोहितवान् । एवं पुनः पुनरन्योन्यदर्शनात् तयोः पूर्वजन्मस्मरणं जातम् । चतुर्दन्तगजस्कन्धारूढं च तं दृष्ट्वाऽन्ये युगलिका विस्मिता विमलगजारूढत्वाद् विमलवाहन इत्यूचुः । स 'विमलवाहनश्च जातिस्मृत्या रूपवत्वाच्च सर्वजनाधिको जातः । काले गच्छति च कल्पवृक्षाणां प्रभावो मन्दीबभूव । मद्याङ्गा विलम्बेन स्तोकं विरसं च मद्यं ददुः। एवमन्येऽपि कल्पद्रुमा विलम्बेन स्तोकं विरूपं च वस्तु वितेरुः। कालप्रभावाच्च युगलिकानां कल्पवृक्षेषु ममत्वं जातम् । तेन चैकेन स्वीकृतं यदाऽन्यः कल्पवृक्षमाश्रयत् तदा परस्परपराभवमापन्नास्ते विमलवाहनं स्वामिनं चक्रुः । स च जातिस्मृत्या नीतिज्ञो युगलिकानां कल्पवृक्षान् विभज्य ददौ । मर्यादाभञ्जकदण्डनाय च हाकारनीतिमाविश्चकार । "हा त्वया दुष्कृत"मिति हाकारदण्डभयेन ते मर्यादोल्लङ्घनाद् विरताः । तस्याऽऽयुषि षण्मासावशिष्टे चन्द्रयशोनामभार्यायां युगलिकोऽसङ्ख्येयवर्षायुष्कः, सुसंस्थानो, वज्रसंहननः, श्यामवर्णोऽष्टधनु:शतोच्छ्रायश्च जज्ञे। तयोश्च पितृभ्यां चक्षुष्मांश्चन्द्रकान्तेति च नामाऽभिदधौ । अथ विमलवाहन आयुः पूरयित्वा जरा-रोगौ विना कालधर्म प्राप्य सुपर्णकुमारेषूत्पेदे । चन्द्रयशाश्च नागकुमारेष्वजायत । 'ततश्चक्षुष्मानपि विमलवाहनवद् हाकारदण्डनीत्यैव युग्मिनां मर्यादामरक्षयत् । आयुषश्चरमे काले च चक्षुष्मच्चन्द्रकान्तयोर्यशस्वी च सुरूपा चेति युगलिकौ पितुः संहनन-संस्थानवी किञ्चिन्न्यूनायुष्कौ, सप्तधनुःशतोच्छ्रायौ जज्ञाते । कालधर्म प्राप्य च चक्षुष्मान् सुपर्णेषु चन्द्रकान्ता च नागेषु जज्ञाते ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89