Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
प्रियदर्शनामयाचत । पूर्णभद्रोऽपि "त्वत्सुतेनोपकारक्रीता मत्सुता पूर्वमेवे "त्युक्त्वा तद्वचोऽमन्यत ।
३६
अथ शुभे दिने शुभे लग्ने पितृभिः सागरचन्द्रस्य प्रियदर्शनया सह विवाहोऽकारि । तौ च वधू-वरौ स्वेष्टविवाहेन मुमुदाते । प्रीतिश्च तयोः परस्परमवर्धिष्ट । एकदा बहिर्गतवतः सागरचन्द्रस्य गृहे समेत्याऽशोकदत्तः प्रियदर्शनामुवाच - "सागरचन्द्रो धनदत्तश्रेष्ठ वध्वा सह नित्यं रहो मन्त्रयते किं कारणं तत्र ?" सरलमति: साऽप्युवाच - "तदेतत् तव मित्रं त्वं वा जानासि व्यवसायिनां रहोमन्त्रितं को जानाति ? ज्ञात्वाऽपि गृहे कथं कथयेत् ?"
ततोऽशोकदत्तेन "जानामि, किन्तु तत् कथं कथ्यते ?" इत्युक्ते प्रियदर्शनोवाच - " किं तदिति कथय " । ततस्तेन " त्वया मम यत् प्रयोजनं, तदेव तस्य तये" ति कथितया प्रियदर्शनया "मया किं ते प्रयोजन" मिति पृष्टोऽशोकदत्त उवाच - "रसज्ञस्य कस्य पुंसस्त्वया प्रयोजनं न भवेत् ?” ततस्तदनिष्टं श्रुत्वा सकोपा नम्रमुखीभूयसा प्रियदर्शना साक्षेपमुवाच - "रे पुरुषाधम ! त्वयैतत् कथं चिन्तितम् ? चिन्तितं वा कथमुक्तम् ? धिक् तव साहसम् । किं मम पतिमेवमात्मानुरूपमेव भावयसि ? गच्छ मा तिष्ठ, त्वद्दर्शनादपि पाप" मित्येवं तया निर्भत्सितः स दस्युरिव त्वरितं ततो निर्ययौ ।
मार्गे च विमनस्को गच्छन् सागरेण विलोकित: "किमुद्विग्न इव दृश्यसे" इति पृष्टश्च स दुष्टः कपटिश्रेष्ठो दीर्घं निःश्वसन् जगाद - "मित्र ! संसारे उद्वेगकारणे किं पृच्छसि ? अस्थानव्रणमिवाऽऽच्छादनीयमप्रकाशनीयं च किमप्युपस्थितम् । तथाऽपि प्राणसमे त्वयि मित्रे किञ्चिदपि नाऽप्रकाशनीयम् । स्त्रियोऽनर्थकारिण्य इति त्वं जानास्येव । अद्य हि प्रियदर्शना मां चिरमयुक्तमुक्तवती । एषा स्वयमेव लज्जिता कदाचरणाद् विरमेदिति मया सेयत्कालमुपेक्षिता ।
प्रथमं पर्व द्वितीयः सर्गः
अद्य च तया निरुद्धस्तस्या मनोरथमपूरयित्वैव कथञ्चिदात्मानं मोचयित्वेहोपस्थितोऽस्मि । एषा जीवन्तं मां न त्यक्ष्यतीति म चिन्तयन्- " एषा परोक्षेऽन्यथा मित्रस्य कथयिष्यती" ति त्वां सर्वं वृत्तान्तं कथयामि । यथा त्वमस्यां कृतविश्वासो नाऽपायमुपेयाः । तदेतदुद्वेगकारणं मम" ।
तद्वचः समाकर्ण्य पीतविष इव क्षणं निःस्पन्दः सागरो जगाद - " योषितामिदं सम्भाव्यते, तथाऽपि त्वं मा विषीद । स्वस्थः शुभे व्यवसाये तिष्ठ । तद्वचो न स्मर । तस्या यद्भवतु तद्भवतु, केवलमावयोर्मनोमालिन्यं मा भूदित्येवं तेनाऽनुनीतः स मुमुदे । ततः प्रभृति च सागरः प्रियदर्शनां रोगग्रस्ताङ्गुलीमिव सोद्वेगं धारयामास । प्रियदर्शना च "मित्रयोर्मत्कृतो भेदो मा भूदित्यशोकवृत्तान्तं सागराय न कथयामास ।
अथ संसाराद् विरक्तः सागरो धनं दीनादिभ्यः प्रयच्छन् कालेनाऽऽयुः पूरयित्वा कालधर्मं प्राप । प्रियदर्शनाऽशोकदत्तश्च तथैव कालधर्मं प्रापतुः । जम्बूद्वीपे भरतक्षेत्रे दक्षिणखण्डे गङ्गासिन्धुमध्येऽवसर्पिण्यां तृतीयारे पल्याष्टमांशशेषे, सागर - प्रियदर्शने युगलिकरूपेण समुदपद्येताम् । ऐरावतेष्विव भारतेष्वपि कालव्यवस्थाहेतुर्द्वादशारं कालचक्रं प्रवर्त्तते ।
***
तथाहि-अवसर्पिण्युत्सर्पिणीभेदात् कालो द्विविधः । तत्राऽवसर्पिण्यामेकान्तसुषमादयः षड् अराः । तेष्वेकान्तसुषमारश्चतुष्कोटिकोटिसागरोपमः । सुषमारस्त्रिकोटिकोटिसागरोपमः । सुषमदुःषमारो द्विकोटिकोटिसागरोपमः । दुःषमसुषमारश्च द्विचत्वारिंशत्सहस्रवर्षोनैककोटिकोटिसागरोपमः । दुःषमार एकविंशतिसहस्राब्दः । एकान्तदुःषमारश्च तावद्वर्षप्रमाणः । एवमुत्सर्पिण्यामप्यवसर्पिणीवत्

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89