Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः 'यशस्वी च पितृवद् युगलिकान् पालयन् हाकारदण्डोल्लङ्घकाय माकारदण्डं प्रवर्त्तयामास । सोऽल्पेऽपराधे हाकारदण्डं, मध्यमे च माकारदण्डं, महति च दण्डद्वयं प्रायुङ्क्त । चरमे चाऽऽयुषि यशस्वि-सुरूपयोश्चन्द्रवर्णः पुत्रोऽभिचन्द्र इति, प्रियङ्ग वर्णा पुत्री च प्रतिरूपेति युगलिको पितृतोऽल्पायुष्कौ, सार्धषड्धनु:शतोच्छ्रायौ जज्ञाते । कालधर्मं प्राप्य यशस्वी चाऽब्धिकुमारेषु सुरूपा च नागकुमारेष्वजायेताम् । अभिचन्द्रश्च पितेव युगलिकान् ताभ्यां नीतिभ्यां शशास । आयःशेषे च तयोरभिचन्द्र-प्रतिरूपयोः पुत्रः प्रसेनजिदिति पुत्री च चक्षुष्कान्तेति युगलिको पितृभ्यां न्यूनायुषौ, तमालश्यामलवौँ, षधनुःशतोच्छ्रायौ जज्ञाते । अभिचन्द्रश्च मृत्वाऽब्धिकुमारेषु, प्रतिरूपा च पुनर्नागकुमारेषु तदैवोदपद्येताम् ।
'प्रसेनजिदपि पितृवद् युगलिकान् पालयन् पूर्वोक्तदण्डद्वयोल्लङ्घकाय तृतीयां धिक्कारनीति प्रवर्त्तयामास, ततश्च चरमे आयुषि तयोः प्रसेनजिच्चक्षुष्कान्तयोः पुत्रो मरुदेव इति पुत्री च श्रीकान्तेति युगलिको सुवर्ण-प्रियङ्गवी, सार्धपञ्चधनुःशतोच्छ्रायौ जज्ञाते । ततः प्रसेनजित् कालधर्मं प्राप्य द्वीपकुमारेषु चक्षुष्कान्ता च नागकुमारेषु तदैव जज्ञाते । तेनैव नीतिक्रमेण युगलिकान् शासतो
मरुदेवस्य श्रीकान्तायां पत्रो नाभिरिति पत्री च मरुदेवेति युगलिकौ पञ्चविंशत्यधिकपञ्चधनु:शतोच्छ्रायौ, सुवर्ण-प्रियङ्गुवर्णी, पितृभ्यां किञ्चिद् न्यूनपूर्वायुष्कौ समजायेताम् । मरुदेवश्च विपद्य द्वीपकुमारेषु श्रीकान्ता च नागकुमारेषु तत्कालमेव जज्ञाते ।
प्रथमं पर्व - द्वितीयः सर्गः पमायुर्भुक्त्वा वज्रनाभजीवः सर्वार्थसिद्धितश्च्युत्वा श्रीनाभिपन्या मरुदेव्याः कुक्षाववातरत् । तदा त्रैलोक्येऽपि क्षणं महान् प्रकाशः शरीरिणां दुःखोच्छेदात् सुखं च बभूव ।
तद्रात्रौ च प्रसुप्तया मरुदेव्या चतुर्दश महास्वप्ना दृष्टाः । तत्राऽऽदौ श्वेतः पीनस्कन्धो दीर्घसरलपुच्छ: सकनककिङ्किणीको 'वृषः, चतुर्दन्तः श्वेतवर्णः पादैरुन्नतः क्षरन्मदो गजराजः, दीर्घजिह्वो लोलकेशर: पिङ्गाक्ष उत्पुच्छयन् 'केसरी, पद्मनेत्रा दिग्गजोत्तोलितपूर्णकुम्भोपशोभिता पद्मस्था "लक्ष्मीः, नानाविधकल्पवृक्षपुष्पगुम्फितं "दाम, आह्लादकं कान्तिप्रकाशितदिङ्मण्डलं 'चन्द्रमण्डलं, सर्वतमोहन्ताऽतिप्रकाशमानः सूर्यः, सकिङ्किणीकश्चलत्पताको “महाध्वजः, विकसितपद्ममुखः सुधाकुम्भतुल्य: सौवर्णः पूर्णकलशः, गुञ्जभृङ्गारविन्दमनोहरो महान् पद्माकरः, उत्तालतरङ्गः क्षीरनिधिः, अतुल्यकान्ति विमानं, राशीभूतनिर्मलकान्तिर्महान् १ रत्नपुञ्जः, तेजस्विनां सम्पिण्डितं तेज इव "नि मोऽग्निश्चेत्येते चतुर्दशस्वप्ना मुखे प्रविशन्तो दृष्टाः ।
अथ पश्चिमरात्रे स्वप्नान्ते स्मयमानमुखा मरुदेवी गतनिद्राऽतिमुदिता नाभये स्वप्नान् तथैवाऽकथयत् । स च 'उत्तमः कुलकरस्ते पुत्रो भविते'ति स्वप्नान् विचार्योदतरत् । तदा शक्राणामासनान्यकम्पन्त । तेन चोपयोगं दत्त्वा ज्ञातवृत्तान्ताः शक्रा: मरुदेव्याः स्वप्नार्थ कथयितुं समाययुः । कृताञ्जलयश्च ते स्वप्नफलं वर्णयामासुः ।
तथाहि-स्वामिनि ! स्वप्ने वृषदर्शनात् ते पुत्रो मोहपङ्कमग्नधर्मरथोद्धरणसमर्थः, गजदर्शनाद् गरीयसामपि गुरुर्महाबलवांश्च, सिंहदर्शनाद् धीरो निर्भीकः शूरोऽप्रतिहतविक्रमच, लक्ष्मीदर्शनात् त्रैलोक्यसाम्राज्यलक्ष्मीनाथः, स्रग्दर्शनाद् माल्यवत् शिरसोद्वाह्यशासनः, पूर्णचन्द्रदर्शनात् कान्तो नेत्रानन्दनश्च, सूर्यदर्शनाद् मोहत
तदनु सप्तमः कुलकरो "नाभिस्ताभिस्तिसृभिर्नीतिभिर्युगलिकान् प्रशशास । तदा तृतीयारशेषे चतुरशीतिपूर्वलक्षेषु सनवाशीतिपक्षेषु सत्स्वाषाढमासस्य कृष्णपक्षे चतुर्थ्यामुत्तराषाढानक्षत्रे त्रयस्त्रिंशत्सागरो

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89