Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एष मम तातश्च दिष्ट्या ततस्तारकः समुपस्थितः । मोहाभिभूतैश्चाऽस्माभिरात्मनैवाऽऽत्मा कियच्चिरं वञ्चितः"। ततो जिनेश्वरं भक्तिपूर्वकं विज्ञपयामास-"युष्मद्दत्तं राज्यं यथाऽहमपालयं, तथा युष्मद्दत्तं शमसाम्राज्यमपि पालयिष्यामि । तव पुत्रो भूत्वाऽपि भवे भ्रमामि चेत्, को विशेषो मयि ? राज्यं शासतो मम धर्मोऽपि पापानुबन्धक एव स्यात्, तस्माद् दीक्षादानेनाऽनुगृहाण" । तत: सबन्धुः प्रव्रज्या गृहीतवान् । तस्य सुयशाः सारथिरपि च प्रवव्राज । तत्र वज्रनाभो द्वादशाङ्गीपारीणो जातः । क्षयोपशमवैचित्र्याच्च बाादयोऽप्येकादशाङ्गीपारीणा जाता: । जिनेश्वरो वज्रसेनश्चरमशुक्लध्यानश्रितो निर्वाणं प्राप।
अथ वज्रनाभोऽपि मुनिभिर्बाह्यादिभिः परिवृतः पृथिवीं विजहार । योगप्रभावेण च तेषां खेलादिलब्धय प्रादुरासन् । यन्महिम्ना तेषां श्लेष्मलवोऽपि कुष्ठहरः, कर्ण नेत्रादिभवो मलश्च कस्तूरिकावत् सुगन्धिः सर्वरोगिणां रोगहरश्चाऽभूत् । तथा तेषां शरीरस्पर्शोऽपि नीरोगकारकः, तच्छरीरस्पृष्टं जलं चाऽपि सर्वरोगहरणमभूत् । तदङ्गस्पशिवायुश्च विषादिदोषनाशकोऽभूत् । विषयुक्त मन्नादि च तत्पात्र-मुखादिसम्बन्धाद् निर्विषं जातम् । तद्वचनश्रवणाद् महाव्याधयोऽप्यनशन् । तेषां नखादयश्चाऽपि भेषजरूपा जाताः । ____अणिमाख्यसिद्ध्या च ते मूर्ति सक्षिप्य तन्तुवत् सूचीरन्ध्रेऽपि प्रवेष्टुं समर्था जाताः । महिमसिद्ध्या ते वपुर्वर्धयित्वा मेरुशैलमपि जानदघ्नं कत्तुं समर्था जाताः । लघिमसिद्ध्या च ते मारुतादपि लघवो जाता: । गरिमसिद्ध्या च शक्राद्यैरप्यसह्या अभूवन् । प्राप्तिसिद्ध्या च भूमिष्ठा अपि ते ग्रहादीनां स्पर्शनेऽपि समर्था जाताः । प्राकम्यसिद्ध्या पृथिव्यामिव जलेषु सञ्चारसमर्थाः, जलेष्विव पृथिव्यामपि निमज्जनोन्मज्जनसमर्थाश्च जाताः । ईशित्वसिद्ध्या च ते
प्रथमं पर्व - प्रथमः सर्गः
३१ स्वस्य चक्रवर्त्यादिसमृद्धि कर्तुं समर्था जाताः । वशित्वसिद्ध्या च क्रूरजन्तूनपि वशगानकार्षुः । अप्रतिघातित्वशक्त्या च तेषां गमनमदि-मध्येऽपि न प्रतिहतम् । अन्तर्धानशक्त्या च तेऽदृश्यभवने समर्था अभवन् । कामरूपित्वशक्त्या च नानारूपैर्लोकान् पूरयितुं समर्था अभवन् । बीजबुद्धित्वशक्त्या चैकार्थबीजतोऽनेकार्थबीजप्ररोहका जाताः । कोष्ठबुद्धित्वशक्त्या च स्मरणं विनैव श्रुता अर्थास्तेषां तथैव स्थिताः । पदानुसारिलब्ध्या च श्रुतादेकपदादपि ग्रन्थसर्वार्थबोद्धारो-ऽभूवन् ।
अवगाहनशक्त्या चाऽन्तर्मुहूर्तेनैव श्रुतसमुद्रमध्यादपि वस्तु समुद्धत्तुं समर्था मनोबलिनो जाताः। मातृकाक्षरेणाऽपि पठनलीलयाऽन्तर्मुहर्त्तमात्रेण सर्वश्रुतं परावर्तयन्तस्ते वाग्बलिनो जाताः । कायाबलेन च चिरं प्रतिमां प्रपद्याऽपि श्रम-क्लमरहिता जाताः । अमृतादितिलब्या च पात्रस्थकदन्नस्याऽप्यमृतादिरसास्रविणोऽमृतक्षीरमध्वाज्यास्रविणोऽभूवन् । अक्षीणमहानसा च पात्रस्थान्नादिरल्पोऽप्यतिदानतोऽप्यक्षयो जातः । अक्षीणमहालयलब्या चाऽल्पदेशेऽप्यख्यानां प्राणिनां सुखासनकरा जाताः । सम्मिन्नस्त्रोतोलब्या चैकेनाऽपीन्द्रियेणाऽन्येन्द्रियार्थोपलब्धारोऽभूवन् ।
जङ्घाचारणलब्ध्या चैकेनोत्पातेन रुचकद्वीपं, ततः प्रत्यागमने चैकेनोत्पातेन नन्दीश्वरं, ततो द्वितीयेन च पूर्वोत्पातस्थानमागन्तुं समर्था जाताः । ऊर्ध्वगत्या चैकेनोत्पातेन पाण्डकं, ततश्च प्रत्यागमन एकेनो-त्पातेन नन्दनं वनं, ततो द्वितीयेनोत्पातेन च पूर्वोत्पातस्थानमागन्तुं समर्था आसन् । विद्याचारणलब्ध्या चैकेनोत्पातेन मानुषोत्तरं, ततो द्वितीयेन च नन्दीश्वरं, ततश्चैकेनोत्पातेन पूर्वोत्पातस्थानमागन्तुं च क्षमा आसन् । तिर्यगिव च क्रमेणोर्ध्वमपि गमनागमनयोः क्षमा जाताः । आशीविषा च निग्रहा-ऽनुग्रहसमर्था अभूवन् । एवं तेषामन्या अपि नानाविधा

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89