Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ शाकापुरुषरितम्-गद्यात्मकसारोद्धारः तच्छ्रुत्वा जीवानन्दोऽब्रवीत् "महामुनिरयं मया चिकित्सनीयः, किन्तु भेषजसामग्र्येव विघ्नतां याति । लक्षपाकतैलं मे समीपेऽस्ति, गोशीर्षचन्दनं रत्नकम्बलं च भवन्तः समानयन्तु" । तथाऽस्त्वित्युक्त्वा ते पञ्चाऽपि विपणिश्रेणि ययुः । मुनिरपि स्वस्थानमगात् । २८ तत्र दीनारलक्षाभ्यां द्वे वस्तुनी क्रीणतस्तान् विक्रेता वृद्धवणिगब्रवीत्-“आभ्यां वः किं प्रयोजनम्?" "साधुश्चिकित्सनीय " इत्येवं तद्वचनं श्रुत्वा सोऽचिन्तयत्- 'क्वेमे युवानः, एषामेष वृद्धोचितो विवेकच क्व ? ईदृशं हि कार्यं मादृशां योग्यम्' । ततः स जगाद - “विना मूल्यमेव द्वे अपि वस्तुनी गृह्येताम् । अनयोर्हि मूल्यमक्षयं धर्ममेवाऽहं ग्रहीष्यामि । ततस्तेभ्यो गोशीर्ष-कम्बलौ दत्वा भावितात्मा स श्रेष्ठी प्रवव्राज परं पदं चाऽऽप । जीवानन्दसहिताश्च ते सर्वेऽपि भेषजमादाय मुनिसमीपं जग्मुः । कायोत्सर्गस्थं च तं मुनिं नत्वोचु:-"तव चिकित्सां करिष्यामः, तदनुजानीहि "। ततो मुनेरनुज्ञां प्राप्य नवं गोमृतकमानीय मुनेः प्रत्यङ्गं तैलेनाऽभ्यङ्गं व्यधुः । तैलेनाऽऽकुलाः कुष्ठकृमयश्च मुनिदेहाद् निर्गत्य तत्रैव स्थिते रत्नकम्बले प्रविष्टाः । जीवानन्दश्च कम्बलमान्दोलयन् तान् कृमीन् गोशवोपरि पातयामास । एवं क्रमेण च मुनेस्त्वग्गता मांसगता अस्थिगताश्च कृमयो निष्कासिताः । पश्चाच्च गोशीर्षचन्दनानुलेपनैः कृत्वा मुनेस्तैलपीडां स जहार । संरोपणौषधैश्च जातनवत्वक् कान्तिमान् मुनिर्भक्तिदक्षैस्तैः क्षमितोऽन्यत्र विजहार । ते च षडपि तदवशिष्टभेषजं विक्रीय तन्मूल्येन स्वद्रव्येण च चैत्यं कारयामासुः । तत्र जिनान् पूजयन्तो गुरूपासनतत्पराश्च ते कञ्चित्कालं गमयित्वा जातसंवेगा दीक्षामादाय विहरन्तः परीषहान् सहमानास्तपोभिश्चारित्रमुज्ज्वलयन्तः क्षमादिभिश्चतुरोऽपि कषायान् जिग्युः । तथा द्रव्यतो भावतश्च संलेखनां कृत्वाऽनशनं स्वीकृत्य प्रथमं पर्व प्रथमः सर्गः समाधिस्थाः ते पञ्चपरमेष्ठिनमस्क्रियां स्मरन्तो देहं तत्यजुः । अथाऽच्युतकल्पे जाताश्च ते शक्रसामानिकाः षडपि द्वाविंशतिसागरोपमं क्षेत्रायुः पूरयित्वा ततक्षुच्युविरे । जम्बूद्वीपे पूर्वविदेहेषु पुष्कलावतीविजये पुण्डरीकिणीपुर्यां वज्रसेनाख्यभूपतेर्धारिणीनामराज्यां जीवानन्दजीवश्चतुर्दशस्वप्नसूचितो वज्रनाभनामा, महीधरजीवो बाहुनामा, सुबुद्धिजीवः सुबाहुनामा, पूर्णचन्द्रजीव: पीठनामा, गुणाकरजीवो महापीठनामा च पञ्चपुत्रा जाता: । षष्ठः केशवजीवश्चाऽन्यस्य राज्ञः पुत्रः सुयशोनामा संजातः । तेषु वज्रनाभ-सुयशसोर्बाल्यादेव प्राग्भवसम्बन्धात् स्नेहो नितरां ववृधे । षडपि लाल्यमाना बाल्यमुल्लङ्घ्य सकलकलासम्पन्नास्तारुण्यं प्रतिपेदिरे । २९ अथ लोकान्तिकैर्देवैः "स्वामिन्! तीर्थं प्रवर्त्तये" ति विज्ञप्तो वज्रसेननृपो वज्रनाभं राज्ये निवेश्य सांवत्सरिकदानं दत्त्वा देवाऽसुर - नृपैः कृतनिष्क्रमणोत्सव उद्यानं गत्वा दीक्षामादायोत्पन्नमनःपर्यायज्ञानो मेदिनीं विहर्तुं प्रावर्त्तत । घातिकर्मक्षयाच्च तस्य केवलज्ञानमुत्पेदे | तदा च वज्रनाभनृपस्याऽऽयुधशालायां चक्रं प्रविवेश | अन्यानि च त्रयोदशरत्नानि तस्याऽभवन् । नव निधयश्च तस्य सेवका जाता: । सुयशाश्च तस्य तरणेररुण इव सारथिरभूत् । स भ्रातृभ्यः प्रत्येकं विषयान् ददौ । तथा सोऽशेषं पुष्पकलावतीविजयं स्वाधीनमकरोत् । सर्वैश्च नृपैस्तस्य चक्रवर्त्तित्वाभिषेकचक्रे । भोगान् भुञ्जानस्याऽपि च तस्य भववैराग्याधिक्याद् धर्मे बुद्धिर्नित्यमवर्धत । तत्रैकदा जिनेश्वरो वज्रसेनः समायातः । स समवसरणे चैत्यतरुतले धर्मदेशनां ददौ । सबन्धुर्वज्रनाभोऽपि तत्राऽऽगत्य जिनेश्वरं त्रिः प्रदक्षिणीकृत्य प्रणम्य च पृष्ठतः समुपविश्य बोधिदां देशनां श्रुत्वा चिन्तयामास - "असावपारः संसारः सागर इव दुस्तरः ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89