Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
याचितवती । माता क्रुद्धा सत्युवाच - "यदि मोदकमिच्छसि तदा रज्जुमादायेन्धन भारानयनायाऽम्बरतिलकाख्यं पर्वतं गच्छ" । ततः सा तेन वचसा दुःखिता रुदती रज्जुमादाय तं पर्वतं ययौ ।
२२
तदैव तस्य पर्वतस्य शिखरे एकरात्रिकप्रतिमास्थितस्य युगन्धरमुनेः केवलज्ञानमुत्पन्नम् । ततः समीपस्थदेवताभिस्तस्य केवलज्ञानमहिमाख्यो महोत्सवश्चक्रे । ततस्तत्पर्वतसमीपस्थनगरग्रामवासिनो जनास्तं वन्दितुमुपाययुः । सा निर्नामिका तत्र गच्छतो जनान् दृष्ट्वा विस्मिता परम्परया लोकागमनकारणं ज्ञात्वा दारुभारं त्यक्त्वा तैर्जनैः सह तं गिरिमारुरोह । महामुनेः पादौ कल्पवृक्षवद् मन्यमाना सा सानन्दं वन्दितवती । ततो विश्वोपकारको महामुनिः स मेघगम्भीरया गिरा धर्मदेशनां चक्रे । देशनान्ते च सा कृताञ्जलिर्मुनिमूचे-“भवता संसारो नृपे रङ्के च दुःखसदनमित्युक्तम् । किमत्र मत्तोऽप्यधिकदुःखितः कोऽपि " ।
ततो मुनिरुवाच - "दुःखितमानिनि ! भवत्याः कीदृशं दुःखम् ? अपरान् दुःखितान् श्रृणु स्वकर्मपरिणामेन नारका भेदनच्छेदनदारण-निपीडनादिरूपमत्युग्रं दुःखं लभन्ते । पीडां विना क्षणमपि स्थातुं न लभन्ते । इहाऽपि जल-स्थला - ऽऽकाशचारिणः प्राणिनो वध-बन्धादि विविधं दुखं स्वकर्मवशाल्लभमाना दृश्यन्ते । मनुष्या अपि जन्मान्ध-बधिर - पङ्ग-कुष्ठिनो विविधव्याधि- दास्यादिभिरत्यन्तं पराभवं सहमाना दृश्यन्ते । देवानामपि च परस्परपराभवाभिभूतानां स्वस्वामिभावप्रतिबद्धानां निरन्तरं दुःखमेव । अतिदारुणेऽस्मिन् संसारे वारिधौ जलजन्तूनामिव दुःखानामवधिर्न दृश्यते । तत्र च जिनोक्तो धर्म एव प्रतीकारः । अहिंसादीनि पञ्च महाव्रतानि देशतोऽप्यवश्यं पालनीयानि । तेन हि जन उत्तरोत्तरं कल्याणसम्पदं प्राप्नोति" ।
तच्छ्रुत्वा च सा निर्नामिकोत्कृष्टं संवेगं प्राप । अभेद्योऽपि
प्रथमं पर्व प्रथमः सर्गः
तस्याः कर्मग्रन्थिरभिद्यत । ततः सा तस्य महामुनेः पुरः सम्यक्त्वं गृहीतवती । जिनोपदिष्टं गृहिधर्मं च भावत: स्वीचकार । एवमणुव्रतानि प्रतिपद्य मुनिं प्रणम्य दारुभारं गृहीत्वा च कृतकृत्येव मुदिता सा स्वगृहं जगाम । ततः प्रभृति च सा मुनिवचनं स्मरन्ती नानाविधं तपस्तेपे । तां च दुर्भगां यौवनेऽपि न कश्चित् परिणिनाय । ततोऽतिशयितसंवेगा सा पुनस्तत्र पर्वते समागतवतो युगन्धरमुनेग्रेऽधुना गृहीतानशना वर्त्तते । तत्र गच्छ, तस्याः स्वरूपं दर्शय । त्वयि रक्ता सती मृता सा तव पत्नी भवेत् । यतोऽन्ते यथा मतिस्तथैव गतिर्भवति ।
अथ तच्छ्रुत्वा ललिताङ्गोऽपि तथैव चक्रे । निर्नामिकाऽपि तस्मिन् रक्ता सती मृता पूर्ववत् स्वयम्प्रभानाम्नी तत्पत्नी जाता । ततः सतां प्रियां पुनः प्राप्याऽभ्यधिकं रेमे ।
अथ कियत्यपि काले गते ललिताङ्गः स्वच्यवनचिह्नानि व्यलोकयत् । तस्याऽऽभरणानि वसनान्यङ्गानि च मलिनानि जातानि । तथा स दैन्यं निद्रां च प्राप । तस्य हृदयेन समं कल्पवृक्षा अपि चकम्पिरे । नीरुजोऽपि तस्य सर्वाङ्गोपाङ्गसन्धयोऽभज्यन्त । पदार्थग्रहणेषु च तस्य दृष्टिरसमर्था जाता । स सज्वरगजवद् रम्येष्वपि क्रीडापर्वतादिषु रतिं न लेभे । ततः स्वयम्प्रभाऽपृच्छत्-“किं मया किमप्यपराद्धं येन विमनस्को लक्ष्यसे ?" ललिताङ्ग उवाच"प्रिये ! त्वया न किमप्यपराद्धं, मया स्वयमेवाऽपराद्धं यत् प्रागल्पं तपः कृतम् । अहं पूर्वजन्मनि भोगेषु प्रवृत्तो धर्मे प्रमादी विद्याधरेश्वरोऽभूवम् । तत्राऽऽयुःशेषे स्वयम्बुद्धेन मन्त्रिणा जैनं धर्मं प्रबोधितः प्रपन्नवान् । तद्धर्मप्रभावादियत्कालं श्रीप्रभे प्रभुः सञ्जातः । अधुना च मम च्यवनसमयः प्राप्तः । एवं कथयन्तं ललिताङ्गमिन्द्रप्रेषितो दृढधर्मनामा देवः समुपेत्योवाच - "ऐशानकल्पेन्द्रो नन्दीश्वरादिषु

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89