Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
प्रथमं पर्व - प्रथमः सर्गः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सूरिपादान्ते दीक्षामग्रहीत् । तत: सर्वसावद्ययोगविरतिपूर्वकं चतुर्विधाहारप्रत्याख्यानं च चकार । एवं समाहितः पञ्चपरमेष्ठिनमस्कारं स्मरन् द्वाविंशतिदिनानशनं कृत्वा कालधर्म प्राप ।
अथ महाबलजीव ऐशानकल्पे श्रीप्रभे विमाने शयनसम्पुटे जातः पुण्यलक्षणलक्षितोऽवधिज्ञानी ललिताङ्ग इति यथार्थनामा सरोऽभवत् । तत्र तदा मङ्गलगीत-वादित्राणि च जातानि । तत्राऽदृष्टपूर्वं दृष्ट्वा विस्मितं तं द्वारपालः सविनयमुवाच-"स्वामिन् ! अयमैशानकल्पः । अत्र त्वत्पुण्योपाजितमिदं श्रीप्रभं विमानम् । एते तव सभासदः सामानिकाः सुराः । एते त्वदाज्ञाकारिणस्त्वदादेशमपेक्षन्ते । अत्रैते पारिषद्याः, एते तव देहरक्षकाः, अमी लोकपालाः, एते सेनापतयः, इमे प्रकीर्णकसुराः, अमी आभियोग्याः, इमे किल्बिषिकाश्च तव स्वनामानुरूपं त्वत्कार्यकारिणः । एते च रम्यरमणीसहिताः प्रासादा, वाप्यो, नद्य, उद्यानानि, सभागृहं, चामरहस्ता वेश्या, गन्धर्ववर्गश्च सर्वे त्वत्सेवासमुत्सुका वर्तन्ते" ।
ततो ललिताङ्गो दत्तोपयोगोऽवधिज्ञानत: पूर्वजन्माऽस्मरत् । तथाहि-"अहं महाबलः स्वयम्बुद्धमन्त्रिणा जैन धर्म बोधित: प्रव्रज्यां प्रतिपन्नोऽनशनमकरवम् । तत्फलमिदं सर्व"मिति स्मृत्वा समुत्थाय सिंहासनमलङ्कृतवान् । ततो देवरस्याऽभिषेकादीनि चक्रिरे। ततः समुत्थाय च ललिताङ्गश्चैत्ये शाश्वतार्हत्प्रतिमा अस्तावीत. पुस्तकानि च वाचयामास । माणवस्तम्भस्थितान्यर्हतामस्थीनि च पूजया-मास । तदनन्तरं स लीलागृहं जगाम । तत्र च सर्वसामुद्रिकलक्षण-लक्षितां रत्नाभरणभूषितामप्सरोभिः परिवेष्टितां स्वयम्प्रभा ददर्श । दूरात् कृताभ्युत्थानया तया सहकपर्यङ्के निषसाद च । प्रियया
तया सह रममाणः स भूयांसं कालमेकां कलामिव गमयामास ।
अथ स्वयम्प्रभा तस्मात् स्वर्गादच्योष्ट। तेन दुःखितो ललिताङ्गो मुहर्मुहुविललाप । क्वाऽपि च तस्य मनो न रेमे । 'हा प्रिये ! क्वाऽसी'त्येवं विलपंश्च सर्वतो बभ्राम । तत्र च स्वयम्बुद्धोऽपि महाबलमरणेन जातवैराग्य: सिद्धाचार्यसन्निधौ दीक्षां गृहीत्वा चिरं व्रतं पालयित्वा कालधर्म प्राप्यैशानकल्पे जातो दृढधर्माख्यः स्वयम्बुद्धजीव इन्द्रसामानिकः सः पूर्वभवसम्बन्धात् प्रेमयुक्तो ललिताङ्गमाश्वासयितुमुक्तवान्-"देव ! स्त्रीहेतुकं मोहं मा गाः । नैषा धीराणामवस्थे"ति । ललिताङ्गोऽप्युवाच-"कान्ताविरहः सुदुःसहः, कान्तया विना सर्वसम्पदोऽसाराः प्रतिभासन्ते" । ततः स ईशानसामानिकः सुर उपयोगं दत्वाऽवधिज्ञानाद् ज्ञात्वाऽब्रवीत्- महाभाग ! मा विषीद । स्वस्थो भव । भवतः प्रिया मया प्राप्ताऽस्ति ।
पृथिव्यां धातकीखण्डे प्राग्विदेहेषु नन्दिग्रामे नागिलो नामाऽत्यन्तदरिद्रो गृहपतिरस्ति । नागश्रीनाम्नी च तस्य पत्नी । तस्यां चाऽस्य षट् कन्या जाता: । पुनरपि तस्यां गर्भिण्यां जातायां स नागिलोऽचिन्तयत्-"इदं कस्य कर्मणः फलम् ? यदहं मर्त्यलोकेऽपि नरकपीडामनुभवामि । दारिद्रयेण पीडित एव कन्यकाभिराभिरपि नितान्तमर्दितोऽस्मि । अधुना यदि पुनरपि कन्यकैव भविष्यति, तदैतत्कुटुम्बं त्यक्त्वा देशान्तरं यास्यामि" ।
अथ कन्यां सुषुवे तस्य भार्या । तच्छृत्वा च स नागिलो देशान्तरं जगाम । नागश्रीश्च प्रसवजे दुःखे सत्येव पतिप्रवासगमनव्यथयाऽत्यन्तं पीडिता तस्याः सद्यो जाताया: सुताया नामाऽपि नाऽकार्षीत् । तेन सा लोकै: 'निनामिके'ति नाम्नाऽऽहूता । साऽपालिताऽपि क्रमशो वृद्धि गताऽन्यगृहे कर्म कुर्वती कालमजीगमत् । एकदा चोत्सवदिनेऽन्यबालककरेषु मोदकान् दृष्ट्वा साऽपि मातरं
देवी

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89